If you feel it is useful Please
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
अन्वयः-
तु यः सर्वाणि भूतानि आत्मनि एव अनुपश्यति च सर्वभूतेषु आत्मानम् अनुपश्यति ततः न विजुगुप्सते ॥
अनुवादः-
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥
अन्वयः-
विद्यया अन्यत् आहुः अविद्यया अन्यत् आहुः इति धीराणाम् शुश्रुम ये नः तत् विचचक्षिरे ॥
अनुवादः-
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५॥
अन्वयः-
पूषन् सत्यस्य मुखम् हिरण्मयेन पात्रेण अपिहितम् सत्यधर्माय दृष्टये तत् त्वम् अपावृणु ॥
अनुवादः-