If you feel it is useful Please
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायाꣳ रताः ॥ ९॥
अन्वयः-
ये अविद्याम् उपासते ते अन्धम् तमः प्रविशन्ति उ ये विद्यायाम् रताः ते ततः उ भूयः तमः इव॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
शाङ्करभाष्यम्
अन्धं तमः अदर्शनात्मकं तमः प्रविशन्ति । के? ये अविद्यां, विद्याया अन्या अविद्या कर्मेत्यर्थः, कर्मणो विद्याविरोधित्वात्, तामविद्यामग्निहोत्रादिलक्षणामेव केवलाम् उपास्ते तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः । ततः तस्मादन्धात्मकात्तमसः भूय इव बहुतरमेव ते तमः प्रविशन्ति । के? कर्म हित्वा ये उ ये तु विद्यायामेव देवताज्ञाने एव रताः अभिरताः ॥९॥