If you feel it is useful Please
विद्यां चाविद्यां च यस्तद्वेदोभयꣳ सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥ ११॥
अन्वयः-
यः तद् उभयम् विद्याम् च अविद्याम् च सह वेद अविद्यया मृत्युम् तीर्त्वा विद्यया अमृतम् अश्नुते ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
शाङ्करभाष्यम्
यत एवमतः- विद्यां च अविद्यां च देवताज्ञानं कर्म चेत्यर्थः । यस्तत् एतदुभयं सह एकेन पुरुषेण अनुष्ठेयं वेद तस्यैवं समुच्चयकारिण एवैकपुरुषार्थसम्बन्धः क्रमेण स्यादित्युच्यते - अविद्यया कर्मणा अग्निहोत्रादिना मृत्युम्, स्वाभाविकं कर्म ज्ञानं च मृत्युशब्दवाच्यम्, तदुभयं तीर्त्वा अतिक्रम्य विद्यया देवताज्ञानेन अमृतम् देवतात्मभावं अश्नुते प्राप्नोति । तद्ध्यमृतमुच्यते, यद्देवतात्मगमनम् ॥११॥