If you feel it is useful Please
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥
अन्वयः-
विद्यया अन्यत् आहुः अविद्यया अन्यत् आहुः इति धीराणाम् शुश्रुम ये नः तत् विचचक्षिरे ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
शाङ्करभाष्यम्
तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयकारणमाह । अन्यथा फलवदफलवतोः सन्निहितयोरङ्गा-ऽङ्गितया जामितैव स्यादिति -
अन्यत्पृथगेव विद्यया क्रियते फलमिति आहुः वदन्ति, अन्यदाहुरविद्यया कर्मणा क्रियते फलमिति । तथोक्तम् - ``कर्मणा पितृलोकः, विद्यया देवलोकः इति ” इति । इति एवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् । ये आचार्या नः अस्मभ्यं तत् कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तः, तेषामयमागमः पारम्पर्यागत इत्यर्थः ॥१०॥