If you feel it is useful Please
सम्भूतिं च विनाशं च यस्तद्वेदोभयꣳ सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते ॥ १४॥
अन्वयः-
यः सम्भूतिम् च विनाशम् उभयम् सह तत् वेद विनाशेन मृत्युम् तीर्त्वा सम्भूत्या अमृतम् अश्नुते॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
शाङ्करभाष्यम्
यत एवम्, अतः समुच्चयः सम्भूत्यसम्भूत्युपासनयोर्युक्तः एकैकपुरुषार्थत्वाच्चेत्याह -
सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह, विनाशेन विनाशो धर्मो यस्य कार्यस्य स तेन धर्मिणा अभेदेनोच्यते ``विनाश” इति । तेन तदुपासनेनानैश्वर्यमधर्मकामादिदोषजातं च मृत्युं तीर्त्वा, हिरण्यगर्भोपासनेन ह्यणिमादिप्राप्तिः फलम्, तेनानैश्वर्यादिमृत्युमतीत्य, असम्भूत्या अव्याकृतोपासनया अमृतं प्रकृतिलयलक्षणम् अश्नुते । ``सम्भूतिं च विनाशं च” इत्यत्रावर्णलोपेन निर्देशो द्रष्टव्यः, प्रकृतिलयफलश्रुत्यनुरोधात् ॥
मानुषदैववित्तसाध्यं फलं शास्त्रलक्षणं प्रकृतिलयान्तम्; एतावती संसारगतिः । अतः परं पूर्वोक्तं ``आत्मैवाभूद्विजानतः” इति सर्वात्मभाव एव सर्वैषणासंन्यासज्ञाननिष्ठाफलम् । एवं द्विप्रकारः प्रवृत्ति- निवृत्तिलक्षणो वेदार्थोऽत्र प्रकाशितः । तत्र प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य कृत्स्नस्य प्रकाशने प्रवर्ग्यान्तं ब्राह्मणमप्युक्तम् । निवृत्तिलक्षणस्य वेदार्थस्य प्रकाशनेऽत ऊर्ध्वं बृहदारण्यकमुपयुक्तम् । तत्र निषेकादिश्मशानान्तं कर्म कुर्वन् जिजीविषेद्यो विद्यया सहापरब्रह्मविषयया, तदुक्तं - ``विद्यां चाविद्यां च यस्तद्वेदोभयम् सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुत” इति, तत्र सोऽधिकारी केन मार्गेणामृतत्वमश्नुते इत्युच्यते - ``तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः” एतदुभयं सत्यं ब्रह्मोपासीनः यथोक्तकर्मकृच्च यः, सोऽन्तकाले प्राप्ते सत्यात्मानमात्मनः प्राप्तिद्वारं याचते -