If you feel it is useful Please
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
अन्वयः-
तु यः सर्वाणि भूतानि आत्मनि एव अनुपश्यति च सर्वभूतेषु आत्मानम् अनुपश्यति ततः न विजुगुप्सते ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
शाङ्करभाष्यम्
यस्तु परिव्राट् मुमुक्षुः सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तानि आत्मन्येव अनुपश्यति, आत्मव्यतिरिक्तानि न पश्यति इत्यर्थः । सर्वभूतेषु तेष्वेव च आत्मानं तेषामपि भूतानां स्वमात्मानमात्मत्वेन - यथास्य देहस्य कार्यकरणसङ्घातस्य आत्मा अहं सर्वप्रत्ययसाक्षिभूतश्चेतयिता केवलो निर्गुणोऽनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवात्मेति सर्वभूतेषु चात्मानं निर्विशेषं यस्त्वनुपश्यति, सः ततः तस्मादेव दर्शनात् न विजुगुप्सते विजुगुप्सां घृणां न करोति । प्राप्तस्यैवानुवादोऽयम् । सर्वा हि घृणा आत्मनोऽन्यद्दुष्टं पश्यतो भवत्यि; आत्मानमेवात्यन्तविशुद्धं निरन्तरं पश्यतो न घृणानिमित्तमर्थान्तरमस्तीति प्राप्तमेव - ततो न विजुगुप्सत इति ॥६॥