If you feel it is useful Please
योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥
अन्वयः-
पूषन् एकर्षे यम सूर्य प्राजापत्य रश्मीन् व्यूह तेजः समूह यत् ते कल्याणतमम् रूपम् तत् ते पश्यामि यः असौ पुरुषः सः अहम् अस्मि ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
शाङ्करभाष्यम्
हे पूषन्, जगतः पोषणात्पूषा रविः । तथा एक एव ऋषति गच्छतीत्येकर्षिः हे एकर्षे । तथा सर्वस्य संयमनाद्यमः हे यम । तथा रश्मीनां प्राणानां रसानां च स्वीकरणात्सूर्यः हे सूर्य । प्रजापतेरपत्यं प्राजापत्यः हे प्राजापत्य । व्यूह विगमय रश्मीन् स्वान् । समूह एकीकुरु उपसंहार तेजः तावकं ज्योतिः । यत् ते तव रूपं कल्याणतमम् अत्यन्तशोभनम्, तत् ते तवात्मनः प्रसादात् पश्यामि । किञ्च, अहं न तु त्वां भृत्यवद्याचे योऽसौ आदित्यमण्डलस्थः असौ व्याहृत्यवयवः पुरुषः पुरुषकारत्वात्, पूर्णं वानेन प्राणबुद्ध्यात्मना जगत्समस्तमिति पुरुषः; पुरि शयनाद्वा पुरुषः । सोऽहम् अस्मि भवामि ॥१६॥