If you feel it is useful Please
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥
अन्वयः-
इह कर्माणि कुर्वन् एव शतं समाः जिजीविषेत् एवम् कर्म त्वयि नरे न लिप्यते इतः अन्यथा न अस्ति ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
शाङ्करभाष्यम्
एवमात्मविदः पुत्राद्येषणात्रयसंन्यासेनात्मज्ञाननिष्ठतया आत्मा रक्षितव्य इत्येष वेदार्थः । अथेतरस्य अनात्मज्ञतयात्मग्रहणाशक्तस्य इदमुपदिशति मन्त्रः -
कुर्वन्नेव निर्वर्तयन्नेव इह कर्माणि अग्निहोत्रादीनि जिजीविषेत् जीवितुमिच्छेत् शतं शतसङ्ख्याकाः समाः संवत्सरान् । तावद्धि पुरुषस्य परमायुर्निरूपितम् । तथा च प्राप्तानुवादेन यज्जिजीविषेच्छतं वर्षाणि तत्कुर्वन्नेव कर्माणीत्येतद्विधीयते । एवम् एवंप्रकारे त्वयि जिजीविषति नरे नरमात्राभिमानिनि इतः एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो वर्तमानात्प्रकारात् अन्यथा प्रकारान्तरं नास्ति, येन प्रकारेणाशुभं कर्म न लिप्यते; कर्मणा न लिप्यस, इत्यर्थः । अतः शास्त्रविहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत् ॥ कथं पुनरिदमवगम्यते - पूर्वेण मन्त्रेण संन्यासिनो ज्ञाननिष्ठोक्ता, द्वितीयेन तदशक्तस्य कर्मनिष्ठेति? उच्यते - ज्ञानकर्मणोर्विरोधं पर्वतवदकम्प्यं यथोक्तं न स्मरसि किम्? इहाप्युक्तं - यो हि जिजीविषेत्स कर्माणि कुर्वन्नेव इति; ``ईशा वास्यमिदं सर्वं “, ``तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम् “, इति च । ``न जीविते मरणे वा गृधिं कुर्वीतारण्यमियात् ” इति पदम् ततो न पुनरेयात् ” इति च संन्यासशासनात् । उभयोः फलभेदं च वक्ष्यति । ``इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव पुरस्तात्संन्यासश्च ”; तयोः संन्यासपथ एवातिरेचयति - ``न्यास एवात्यरेचयद्” इति च तैत्तिरीयके । ``द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तिश्च विभावितः” इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता । विभागं चानयोः प्रदर्शयिष्यामः ॥