If you feel it is useful Please
ॐ ईशा वास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १॥
अन्वयः-
जगत्याम् यत् किं च जगत् इदम् सर्वम् ईशा वास्यम् तेन त्यक्तेन भुञ्जीथाः कस्य स्विद् धनम् मा गृधः॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
शाङ्करभाष्यम् -
``ईशा वास्यम्” इत्यादयो मन्त्राः कर्मस्वविनियुक्ताः, तेषामकर्मशेषस्यात्मनो याथात्म्यप्रकाशकत्वात् । याथात्म्यं चात्मनः शुद्धत्वापापविद्धत्वैकत्व- नित्यत्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्यत इति युक्त एवैषां कर्मस्वविनियोगः । न ह्येवंलक्षणमात्मनो याथात्म्यम् उत्पाद्यं विकार्यम् आप्यं संस्कार्यं कर्तृभोक्तृरूपं वा येन कर्मशेषता स्यात्; सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैवोपक्षयात्, गीतानां मोक्षधर्माणां चैवंपरत्वात् । तस्मादात्मनोऽनेकत्वकर्तृत्वभोक्तृत्वादि च अशुद्धत्वपापविद्धत्वादि चोपादाय लोकबुद्धिसिद्धं कर्माणि विहितानि । यो हि कर्मफलेनार्थी दृष्टेन ब्रह्मवर्चसादिना अदृष्टेन स्वर्गादिना च द्विजातिरहं न काणत्वकुणित्वाद्यनधिकारप्रयोजकधर्मवानित्यात्मानं मन्यते सोऽधिक्रियते कर्मस्विति ह्यधिकारविदो वदन्ति । तस्मादेते मन्त्रा आत्मनो याथात्म्यप्रकाशनेन आत्मविषयं स्वाभाविककर्म्विज्ञानं निवर्तयन्तः शोकमोहादिसंसारधर्मविच्छित्तिसाधनमात्मैकत्वादिविज्ञानमुत्पादयन्तीति । एवमुक्ताधिकार्यभिधेयसम्बन्धप्रयोजनान्मन्त्रान्सङ्क्षेपतो व्याख्यास्यामः
ईशा ईष्टे इति ईट्, तेन ईशा । ईशिता परमेश्वरः परमात्मा सर्वस्य । स हि सर्वमीष्टे सर्वजन्तूनामात्मा सन् प्रत्यगात्मतया । तेन स्वेन रूपेणात्मना ईशा वास्यम् आच्छादनीयम् । किम्? इदं सर्वं यत्किं च यत्किंचित् जगत्यां पृथिव्यां जगत् तत्सर्वम् । स्वेनात्मना ईशेन प्रत्यगात्मतया अहमेवेदं सर्वमिति परमार्थसत्यरूपेणानृतमिदं सर्वं चराचरमाच्छादनीयं परमात्मना । यथा चन्दनागर्वादेरुदकादि- सम्बन्धजक्लेदादिजमौपाधिकं दौर्गन्ध्यं तत्स्वरूपनिघर्षणेनाच्छाद्यते स्वेन पारमार्थिकेन गन्धेन, तद्वदेव हि स्वात्मन्यध्यस्तं स्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगद्द्वैतरूपं पृथिव्यां, जगत्या- मित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात् । एवमीश्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसंन्यासे एवाधिकारः, न कर्मसु । तेन त्यक्तेन त्यागेनेत्यर्थः । न हि त्यक्तो मृतः पुत्रो भृत्यो वा आत्मसम्बन्धिताभावादात्मानं पालयति । अतस्त्यागेनेत्ययमेवार्थः । भुञ्जीथाः पालयेथाः । एवं त्यक्तैषणस्त्वं मा गृधः गृधिम् आकाङ्क्षां मा कार्षीः धनविषयाम् । कस्य स्वित् कस्यचित् परस्य स्वस्य वा धनं मा काङ्क्षीरित्यर्थः । स्विदित्यनर्थको निपातः । अथवा, मा गृधः । कस्मात्? कस्यस्विद्धनम् इत्याक्षेपार्थः । न कस्यचिद्धनमस्ति, यद्गृध्येत । आत्मैवेदं सर्वमितीश्वरभावनया सर्वं त्यक्तम् । अत आत्मन एवेदं सर्वम्, आत्मैव च सर्वम् । अतो मिथ्याविषयां गृधिं मा कार्षीरित्यर्थः ॥