If you feel it is useful Please
विश्वानि देव वयुनानि विद्वान् ।
भूयिष्ठां ते नम उक्तिं विधेम ॥ १८॥
अन्वयः-
अग्ने अस्मान् राये सुपथा नय देव विश्वानि वयुनानि विद्वान् अस्मत् जुहुराणम् एनः युयोधि ते भूयिष्ठाम् नमःउक्तिम् विधेम ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
शाङ्करभाष्यम् सायणभाष्यम्
पुनरन्येन मन्त्रेण मार्गं याचते -
हे अग्ने नय गमय सुपथा शोभनेन मार्गेण । सुपथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् । निर्विण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेन; अतो याचे त्वां पुनः पुनः गमनागमनवर्जितेन शोभनेन पथा नय । राये धनाय, कर्मफलभोगायेत्यर्थः । अस्मान् यथोक्तधर्मफलविशिष्टान् विश्वानि सर्वाणि हे देव वयुनानि कर्माणि, प्रज्ञानानि वा विद्वान् जानन् । किंच, युयोधि वियोजय विनाशय अस्मत् अस्मत्तः जुहुराणं कुटिलं वञ्चनात्मकम् एनः पापम् । ततो वयं विशुद्धाः सन्तः इष्टं प्राप्स्याम इत्यभिप्रायः । किन्तु वयमिदानीं ते न शक्नुमः परिचर्यां कर्तुं; भूयिष्ठाम् बहुतरां ते तुभ्यं नमौक्तिम् नमस्कारेण परिचरेम इत्यर्थः ॥
``अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते”, ``विनाशेन मृत्युं तीर्त्वा असम्भूत्याऽमृतमश्नुत” इति श्रुत्वा केचित्संशयं कुर्वन्ति । अतस्तन्निर्धारणार्थं सङ्क्षेपतो विचारणां करिष्यामः । तत्र तावत्किंनिमित्तः संशय इति, उच्यते - विद्याशब्देन मुख्या परमात्मविद्यैव कस्मान्न गृह्यते, अमृतत्वं च ? ननूक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात्समुच्चयानुपपत्तिः । सत्यम् । विरोधस्तु नावगम्यते, विरोधाविरोधयोः शास्त्रप्रमाणकत्वात्; यथाऽविद्यानुष्ठानं विद्योपासनं च शास्त्रप्रमाणकं, तथा तद्विरोधाविरोधावपि । यथ च ``न हिंस्यात्सर्वा भूतानि” इति शास्त्रादवगतं पुनः शास्त्रेणैव बाध्यते ``अध्वरे पशुं हिंस्यात्” इति, एवं विद्याविद्ययोरपि स्यात्; विद्याकर्मणोश्च समुच्चयः । न ; ``दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता” इति श्रुतेः । ``विद्यां चाविद्यां च” इति वचनादविरोध इति चेत्, न; हेतुस्वरूपफलविरोधात् । विद्याविद्याविरोधाविरोधयोर्विकल्पासम्भवात् समुच्चयविधानादविरोध एवेति चेत्, न; सहसम्भवानुपपत्तेः । क्रमेणैकाश्रये स्यातां विद्याविद्ये इति चेत्, न; विद्योत्पत्तौ तदाश्रयेऽविद्यानुपपत्तेः; न हि अग्निरुष्णः प्रकाशश्च इति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नं, तस्मिन्नेवाश्रये शीतोऽग्निरप्रकाशो वा इत्यविद्याया उत्पत्तिः । नापि संशयः अज्ञानं वा, ``यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः” इति शोकमोहाद्यसम्भवश्रुतेः ।``अमृतमश्नुत” इत्यापेक्षिकममृतं; विद्याशब्देन परमात्मविद्याग्रहणे ``हिरण्मयेन” इत्यादिना द्वारमार्गयाचनमनुत्पन्नं स्यात् । तस्माद् यथाव्याख्यात एव मन्त्राणामर्थ इत्युपरम्यते ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ ईशावास्योपनिषद्भाष्यं सम्पूर्णम् ।