If you feel it is useful Please
विश्वानि देव वयुनानि विद्वान् ।
भूयिष्ठां ते नम उक्तिं विधेम ॥ १८॥
अन्वयः-
अग्ने अस्मान् राये सुपथा नय देव विश्वानि वयुनानि विद्वान् अस्मत् जुहुराणम् एनः युयोधि ते भूयिष्ठाम् नमःउक्तिम् विधेम ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
हे अग्ने अङ्गनादिगुणविशिष्ट देवद्योतमान विश्वानि वयुनानि सर्वाणि प्रज्ञानानि अनेनैतदनुष्ठितमि- दं प्रायणीयमिति यदेतत् ज्ञानमस्ति तद्विद्वानित्यर्थः यतो विद्वन् अतस्त्वमस्मान्सुपथा शोभनेन मार्गेण राये गन्तव्याय स्वर्गादिधनाय द्वितीयार्थे वा चतुर्थी प्रापणीयं रायं प्रतिनय तदर्थं जुहुराणं कुटिलकार्ये नः पापं फलप्रतिबन्धरूपमस्मत् अस्मत्तो युयोधि पृथक्कुरु ते तव वयं भूयिष्ठां अतिप्रवृद्धां नमउक्तिं नमस्का- रोक्तिं स्तुतिं विधेम परिचरेम कुर्मः ॥ १ ॥
आयुष्कामेष्ट्यां अग्ने त्वं पारयेति द्वेस्विष्टकृतो याज्ये पाहि न इति चतुर्थी अनुवाक्या पाहि नो अग्ने पायुभिरजस्रैरग्ने त्वं पारयानव्यो अस्मानिति संयाज्ये इति सूत्रितम् एते एव स्वस्त्ययन्यामपि संयाज्ये इति सूत्रितत्वात् ।[ऋ.सं.सा.भा.१.१८९.१]