If you feel it is useful Please
नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४॥
अन्वयः-
अनेजत् एकम् मनसो जवीयः एनत् देवाः न आप्नुवन् तत् पूर्वम् अर्षत् तत् तिष्ठत् धावतः अन्यान् अत्येति तस्मिन् मातरिश्वा अपः दधाति ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
शाङ्करभाष्यम्
यस्यात्मनो हननादविद्वांसः संसरन्ति, तद्विपर्ययेण विद्वांसो मुच्यन्तेऽनात्महनः, तत्कीदृशमात्म-तत्त्वमित्युच्यते -
अनेजद् न एजत् । ``एजृ कम्पने”, कम्पनं चलनं स्वावस्थाप्रच्युतिः, तद्वर्जितम्, सर्वदा एकरूपम् इत्यर्थः । तच्च एकं सर्वभूतेषु । मनसः सङ्कल्पादिलक्षणात् जवीयो जववत्तरम् । कथं विरुद्धमुच्यते - ध्रुवं निश्चलमिदम्, मनसो जवीय इति च? नैष दोषः, निरुपाध्युपाधिमत्त्वेनोपपत्तेः । तत्र निरुपाधिकेन स्वेन रूपेणोच्यते - अनेजदेकम् इति । मनसः अन्तःकरणस्य सङ्कल्पविकल्पलक्षणस्यो- पाधेरनुवर्तनात् । इह देहस्थस्य मनसो ब्रह्मलोकादिदूरस्थसङ्कल्पनं क्षणमात्राद्भवतीत्यतो मनसो जविष्ठत्वं लोकप्रसिद्धम् । तस्मिन्मनसि ब्रह्मलोकादीन् द्रुतं गच्छति सति, प्रथमप्राप्त इवात्मचैतन्याभासो गृह्यते । अतः मनसो जवीयः इत्याह । नैनद्देवाः, द्योतनाद्देवाः चक्षुरादीनीन्द्रियाणि, एनत्प्रकृतमात्मतत्त्वं नाप्नुवन् न प्राप्तवन्तः । तेभ्यो मनो जवीयः । मनोव्यापारव्यवहितत्वादाभासमात्र- मप्यात्मनो नैव देवानां विषयीभवति; यस्माज्जवनान्मनसोऽपि पूर्वमर्षत् पूर्वमेव गतम्, व्योमवद्व्यापित्वात् । सर्वव्यापि तदात्मतत्त्वं सर्वसंसारधर्मवर्जितं स्वेन निरुपाधिकेन स्वरूपेणाविक्रियमेव सत्, उपाधिकृताः सर्वाः संसारविक्रिया अनुभवतीवाविवेकिनां मूढानामनेकमिव च प्रतिदेहं प्रत्यवभासत इत्येतदाह - तत् धावतः द्रुतं गच्छतः अन्यान् आत्मविलक्षणान्मनोवागिन्द्रियप्रभृतीन् अत्येति अतीत्य गच्छतीव । इवार्थं स्वयमेव दर्शयति - तिष्ठदिति, स्वयमविक्रियमेव सदित्यर्थः । तस्मिन् आत्मतत्त्वे सति नित्यचैतन्यस्वभावे, मातरिश्वा मातरि अन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः सर्वप्राणभृत्क्रियात्मकः, यदाश्रयाणि कार्यकरणजातानि यस्मिन्नोतानि प्रोतानि च, यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ, स मातरिश्वा, अपः कर्माणि प्राणिनां चेष्टालक्षणानि अग्न्यादित्यपर्जन्यादीनां ज्वलनदहनप्रकाशाभिवर्षणादिलक्षणानि, दधाति विभजतीत्यर्थः, धारयतीति वा; ``भीषाऽस्माद्वातः पवते” (तै.उ. २.८) इत्यादिश्रुतिभ्यः । सर्वा हि कार्यकरणविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वास्पदभूते सत्येव भवन्तीत्यर्थः ॥