If you feel it is useful Please
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥
अन्वयः-
यस्मिन् सर्वाणि भूतानि आत्मा एव अभूत् तत्र विजानतः एकत्वम् अनुपश्यत: कः मोह: कः शोकः ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
शाङ्करभाष्यम्
इममेवार्थमन्योऽपि मन्त्र आह -
यस्मिन्सर्वाणि भूतानि यस्मिन् काले यथोक्तात्मनि वा, तान्येव भूतानि सर्वाणि परमार्थात्मदर्शनात् आत्मैवाभूत् आत्मैव संवृत्तः परमार्थवस्तु विजानतः, तत्र तस्मिन्काले तत्रात्मनि वा, को मोहः कः शोकः? शोकश्च मोहश्च कामकर्मबीजमजानतो भवति, न त्वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः । को मोहः कः शोक इति शोकमोहयोरविद्याकार्ययोराक्षेपेणासम्भवप्रकाशनात् सकारणस्य संसरस्यात्यन्तमेवोच्छेदः प्रदर्शितो भवति ॥७॥