If you feel it is useful Please
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५॥
अन्वयः-
तत् एजति तत् न एजति तत् दूरे तत् उ अन्तिके तत् अस्य सर्वस्य अन्तः तत् अस्य सर्वस्य उ बाह्यतः ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
शाङ्करभाष्यम्
न मन्त्राणां जामिताऽस्तीति पूर्वमन्त्रोक्तमप्यर्थं पुनराह -
तत् आत्मतत्त्वं यत्प्रकृतम् एजति चलति तदेव च नैजति स्वतो नैव चलति, स्वतः अचलमेव सत् चलतीवेत्यर्थः । किञ्च, तद्दूरे वर्षकोटिशतैरप्यविदुषामप्राप्यत्वाद्दूर इव । तदु अन्तिके समीपे अत्यन्तमेव विदुषाम्, आत्मत्वात् न केवलं दूरे, अन्तिके च । तत् अन्तः अभ्यन्तरे अस्य सर्वस्य, ``य आत्मा सर्वान्तरः” इति श्रुतेः, अस्य सर्वस्य जगतो नामरूपक्रियात्मकस्य । तत् उ अपि सर्वस्य अस्य बाह्यतः; व्यापित्वादाकाशवन्निरतिशयसूक्ष्मत्वादन्तः; ``प्रज्ञानघन एव” इति शासनान्निरन्तरं च ॥ ५॥