सव्य Savya

सव्य

अ. ७.५२.८ तः सव्यस्य विषये स्पष्टं भवति यत् यस्य (तन्त्रस्य )जयः करणीयं अस्ति, तत् सव्यमस्ति। यस्य जयः कृतमस्ति, तत् दक्षिणमस्ति। प्रकृत्यां यत्र – यत्र द्यूतस्य साम्राज्यं अस्ति, तत्र – तत्र सव्यः स्थितिरस्ति। किंबहुना, सर्वा प्रकृतिरेव द्यूतमस्ति। तै.ब्रा. १.७.१०.१ कथनमस्ति यत् मित्रः दक्षिणः अस्ति, वरुणः सव्यः। पद्म ६.५.५३ कथनमस्ति यत् युद्धभूम्यां सर्वेषां देवानां प्रवेशं सव्यतः अभवत्, मेषोपरि स्थितस्य अग्नेः दक्षिणतः। अयं कथनं विलक्षणं अस्ति। कारणं, देवाः द्यूततः मुक्ताः सन्ति।

वैदिककर्मकाण्डे आहवनीयअग्नेः खरस्य पार्श्वे द्वौ खरौ भवतः – सभ्य अग्निः एवं आवसथ्य अग्निः। सभ्याग्नेः प्रकृतिः द्यूतपूर्णा भवति। आवसथ्यस्य कृतप्रकारा। आवसथ्योपरि टिप्पणी द्रष्टव्यमस्ति।

सव्यः

युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो ।

तेन जायामुप प्रियां मन्दानो याह्यन्धसो योजा न्विन्द्र ते हरी ॥ऋ. १.८२.५

न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः ।ऋषिः- सव्यः - अ. २०.२१.१

अन्तर्वेदि दक्षिणः पादो भवति । बहिर्वेदि सव्यः आप.श्रौ.सू. २४.११.४

मित्रोऽसि वरुणोऽसीत्याह । मैत्रो वै दक्षिणः । वारुणः सव्यः । - तै.ब्रा. १.७.१०.१

अथातः पशोर्विभक्तिस्तस्य विभागं वक्ष्यामो ....र्दक्षिणा श्रोणिर्होतुः सव्य ब्रह्मणो दक्षिणं सक्थि मैत्रावरुणस्य सव्यम्ब्राह्मणाच्छंसिनो दक्षिणम्पार्श्वं सांसमध्वर्योः सव्यमुपगातॄणां सव्योंऽसः प्रतिप्रस्थातुर्दक्षिणं दोर्नेष्टुः सव्यम्पोतुर्दक्षिण ऊरुरच्छावाकस्य सव्य आग्नीध्रस्य दक्षिणो बाहुरात्रेयस्य सव्यः सदस्यस्य सदं चानूकं च गृहपतेर्दक्षिणौ पादौ गृहपतेर्व्रतप्रदस्य सव्यौ पादौ गृहपतेर्भार्यायै – ऐ.ब्रा. ७.१

वामतस्त्रिदशाः सर्वे सव्यतश्च समाययौ

स्वाहाप्रियो दक्षिणतः स च मेषं समास्थितः।। - पद्म ६.५.५३

अथ ते ददृशुस्तत्र लोमशं च निराश्रयम् ॥ ३१३ ॥

स्वाध्यायनिरतं दांतं जपहोमपरायणम् ॥

सव्य हस्ते तृणौघेन छायार्थं विधृतेन च ॥ ३१४ ॥

दधतं चाक्षमालां च दक्षिणेन करेण हि ॥ - स्कन्द ६.२७१.३१४

अदित्यास्त्वगसीति प्रति त्वादितिर्वेत्त्विति प्रति हि स्वः सं जानीते तत्संज्ञामेवैतत्कृष्णाजिनाय च वदति नेदन्योऽन्यं हिनसात इत्यभिनिहितमेव सव्येन पाणिना भवति - १.१.४.[५] अथ दक्षिणेनोलूखलमाहरति । नेदिह पुरा नाष्ट्रा रक्षांस्याविशानिति ब्राह्मणो हि रक्षसामपहन्ता तस्मादभिनिहितमेव सव्येन पाणिना भवति – श १.१.४.[६]

जुहूं घृतेन पूर्णां दक्षिणे पाणावादधाति। सव्य उपभृतम्। उरसि ध्रुवाम्। - श १२.५.२.७

कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।

गोजिद्भूयासमश्वजिद्धनंजयो हिरण्यजित्॥अ. ७.५२.८

तस्य व्रात्यस्य ॥१॥

यदस्य दक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः ॥२॥

योऽस्य दक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः ॥अ. १५.१८.३