सप्तर्षि saptarshi

सप्तर्षि

*विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत संदृक् ।

तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऋषीन्पर एकमाहुः ॥ऋ. १०.८२.२

*देवा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसे ये निषेदुः ।

भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥ऋ.१०.१०९.४॥

*यो वेदानडुहो दोहान्त्सप्तानुपदस्वतः ।

प्रजां च लोकं चाप्नोति तथा सप्तऋषयो विदुः ॥शौ.सं. ४.११.९

*देवा वा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसा ये निषेदुः ।

भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन् ॥शौ. ५.१७.६

*अभयं द्यावापृथिवी इहास्तु नोऽभयं सोमः सविता नः कृणोतु ।

अभयं नोऽस्तूर्वन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु ॥शौ. ६.४०.१

*सोदक्रामत्सा सप्तऋषीन् आगच्छत्तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति ।

तस्याः सोमो राजा वत्स आसीच्छन्दः पात्रम् ।

तां बृहस्पतिराङ्गिरसोऽधोक्तां ब्रह्म च तपश्चाधोक्।

तद्ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद ॥२५॥ {२८} – शौ. ८.१३.१३

*सप्तऋषीन् अभ्यावर्ते ।

ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥शौ. १०.५.३९

*अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा ।

सप्तऋषयो भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह ॥शौ. ११.१.१॥

*अग्नेऽजनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः ।

सप्तऋषयो भूतकृतस्ते त्वाजीजनन्न् अस्यै रयिं सर्ववीरं नि यच्छ ॥शौ. ११.१.३

*अदितेर्हस्तां स्रुचमेतां द्वितीयां सप्तऋषयो भूतकृतो यामकृण्वन् ।

सा गात्राणि विदुष्योदनस्य दर्विर्वेद्यामध्येनं चिनोतु ॥शौ. ११.१.२४

*तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥१॥

द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्तऋषयः प्राणापानाः ॥२॥

चक्षुर्मुसलं काम उलूखलम् ॥३॥ - शौ. ११.३.२

*सप्तऋषीन् वा इदं ब्रूमोऽपो देवीः प्रजापतिम् ।

पितॄन् यमश्रेष्ठान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ।शौ. ११.८.११

*स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत्। [२१]

तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् । [२२]

श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति।।

श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति भवति य एवं वेद । [२४]

तस्योदीच्यां दिशि विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं

श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । [२६२७]

ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥४॥ [२८] – शौ. १५.२.२२

*ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः ।

तैर्मे कृतं स्वस्त्ययनमिन्द्रो मे शर्म यच्छतु ब्रह्मा मे शर्म यच्छतु ।

विश्वे मे देवाः शर्म यच्छन्तु सर्वे मे देवाः शर्म यच्छन्तु ॥१२॥

यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः ।

सर्वाणि शं भवन्तु मे शं मे अस्त्वभयं मे अस्तु ॥शौ. १९.९.१३

*विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।

स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥शौ.१९.१७.७

*विश्वकर्माणं ते सप्तऋषिवन्तमृच्छन्तु ।

ये माघायव उदीच्या दिशोऽभिदासान् ॥शौ. १९.१८.७

*सप्त वै पुरुषे महिमानस्ते वा एनेनेड्यास्ते वै ते सप्तऋषय एव, प्राणा वै सप्तऋषयः, प्राणान् वा एतदीट्टा, ईट्टे ह वै स्वान् प्राणान्, वृङ्क्ते भ्रातृव्यस्य प्राणान् – मै.सं. 1.5.11

*सप्तभिरस्तुवत, सप्तऋषयोसृज्यन्त, धाताधिपतिरासीत् – मै.सं. 2.8.6

इन्द्रः पपात प्रथम: शतौदनां सप्तऋषिभ्यः सुमनस्यमान: ।

तयासुराणां बलमोज आ ददे तया रुरोह विष्टपो देवलोकान्।।२।।

विश्वामित्रोऽयं जमदग्निरत्रिर्भरद्वाजो गोतमोऽयं वसिष्ठः ।।

इदं पक्वं कश्यपसप्तमा: प्राश्नन्तु प्रथमाः शतौदनाम् ।।३।। पैप्पलाद संहिता 14.7.3

यदुदङ्ग् आसीनो निर्वपति सोमाय च राज्ञे सप्तऋषिभ्यश्चा वृश्चते।। पै.सं. 16.118.४ ।।

*वशिष्ठः काश्यपोऽथात्रिर्जमदग्निः सगोतमः ।१५०.००९

विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥अग्नि १५०.००९

*ॐ अत्रये नमः ॥

ॐ वसिष्ठाय नमः ॥

ॐ कश्यपाय नमः ॥

ॐ भरद्वाजाय नमः ॥

ॐ गौतमाय नमः ॥

ॐ कौशिकाय नमः ॥

ॐ जमदग्नये नमः ॥

ॐ अरुंधत्यै नमः ॥

॥ पूजामंत्रः ॥ ॥- स्कन्द पु. ६.३२.५

*सावर्णस्य प्रवक्ष्यामि मनोर्वैवस्वतस्य ह।

भविष्यस्य भविष्यं तु समासात्तन्निबोधत॥३,१.९॥

अनागताश्च सप्तैव स्मृतास्त्विह महर्षयः।

कौशिको गालवश्चैव जामदग्न्यश्च भार्गवः॥३,१.१०॥

द्वैपायनो वशिष्टश्च कृपः शारद्वतस्तथा।

आत्रेयो दीप्तिमांश्चैव ऋषयशृङ्गस्तु काश्यपः॥३,१.११॥

भरद्वाजस्तथा द्रौणिरश्वत्थामा महायशाः।

एते सप्त महात्मानो भविष्याः परमर्षयः। ब्रह्माण्ड 3.4.1.11

*स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम्

ऋषीणां मण्डले सोऽभूत्सप्तमो रामपूजितः भागवत 9.16.२४

*मरीचये तु संभूतिं स्मृतिमङ्गिरसे ददौ।

प्रीतिं चैव पुलस्त्याय क्षमां वै पुलहाय च॥१,९.५५॥

क्रतवे संततिं नाम अनसूयां तथात्रये।

ऊर्जां ददौ वसिष्ठाय स्वाहां चैवाग्नये ददौ॥ब्रह्माण्ड १.२.९.५६

प्राणात् स्वादसृजद्दक्षञ्चक्षुर्भ्याञ्च मरीचिकम् ।।९२।।

भृगुस्तु हृदयाज्जज्ञे ऋषिः सलिलजन्मनः।

शिरसोऽङ्गिरसञ्चैव श्रोत्रादत्रिन्तथैव च ।।९३।

पुलस्त्यञ्च तथोदानाद्य्वानाच्च पुलहं पुनः।

समानजं वसिष्ठन्तु अपानान्निर्ममे क्रतुम् ।।९४।।

अभिमानात्मकं भद्रं निर्ममे नीललोहितम्।

इत्येते ब्रह्मणः पुत्राः प्राणजा द्वादश स्मृताः ।।वायु १.९.९५ ।।

स्वधां चैव पितृभ्यस्तु तास्वपत्यानि मे शृणु।

*षट्‌कृत्यस्तु पुनः शुक्रे ब्रह्मणा लोककारिणा ।

हुते समभवंस्तत्र षड्ब्रह्माण इति श्रुतिः ॥43॥

मरीचिः प्रथमस्तत्र मरीचिभ्यः समुत्थितः ।

क्रतौ तस्मिन् सुतो जज्ञे यतस्तस्मात्स वै क्रतुः ॥44॥

अहं तृतीय इत्यर्थस्तस्मादत्रिः स कीर्त्त्यते ।

केशैश्च निशितैर्भूतः पुलस्त्यस्तेन स स्मृतः ॥45॥

केशैर्लम्बैः समुद्भूतस्तस्मात्तु पुलहः स्मृतः ।

वसुमध्यात्समुत्पन्नो वसुमान् वसुधाश्रयः ॥46॥

वसिष्ठ इति तत्त्वज्ञैः प्रोच्यते व्रह्मवादिभिः ।

इत्येते ब्रह्मणः पुत्रा मानसाः षण्महर्षयः ॥वायु 2.4.47

*अथैत ऋषिष्टोमाः। ऋषयो ह वै स्वर्गं लोकं जिग्युः श्रमेण तपसा व्रतचर्येण. ते ऽकामयन्त - प्रजा अस्मिन् लोके विदाय स्वर्गं लोकं गच्छेमेति। स वसिष्ठो ऽकामयत अग्र्या मे मुख्या प्रजा स्याद् इति। स एतं त्रिवृतं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। अग्रं वै मुखं त्रिवृत् स्तोमानाम्। ततो वै तस्याग्र्या मुख्या प्रजाभवत्। त एते अप्य् एतर्हि वसिष्ठाः कुरुष्व अग्र्याश् चैव मुख्याश् च मन्यन्ते। अग्र्यो मुख्यो भवति य एवं वेद। अथाकामयत भरद्वाज - ओजिष्ठा मे बलिष्ठा प्रजा स्याद् इति। स एतं पञ्चदशं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। ओजो वै बलं पञ्चदश स्तोमानाम्। ततो वै तस्यौजिष्ठा बलिष्ठा प्रजाभवत्। अपि ह स्म तेन पथा पुरा कुरवो न यन्ति येन भरद्वाजा ययुः। अथो ह स्मोत्क्रोशन्ति भारद्वाजबलम् इति। तस्माद् उ भारद्वाज एवानुज्ञातः सभायां दण्ड्यं प्रहरेत्। ओजिष्ठो बलिष्ठो भवति य एवं वेद॥ 2.217

अथाकामयत जमदग्निर् भूमानं प्रजया पशुभिर् गच्छेयम् इति। स एतं सप्तदशं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। भूमा वै प्रजापतिः सप्तदश स्तोमानाम्। ततो वै स भूमानं प्रजया पशुभिर् अगच्छत्। भूमानम् एव प्रजया पशुभिर् गच्छति य एवं वेद। अथाकामयत गौतम - श्रद्धानीया मे प्रजा ब्रह्मवर्चसिनी स्याद् इति। स एतम् एकविंशंस्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। श्रद्धा वै ब्रह्मवर्चसम् एकविंश स्तोमानाम्। असौ हि स आदित्यः। ततो वै तस्य श्रद्धानीया ब्रह्मवर्चसिनी प्रजाभवत्। त इमे ऽप्य् एतर्हि गौतमा श्रद्धानीयाश् चैव ब्रह्मवर्चसिनश् च । श्रद्धानीयो ब्रह्मवर्चसी भवति य एवं वेद॥2.218॥

अथाकामयतात्रिर् भूयिष्ठा म ऋषयः प्रजायाम् आजायेरन्न् इति। स एतं त्रिणवं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। तेजो वै त्रिणव स्तोमानाम्। ततो वै तस्य भूयिष्ठा ऋषयः प्रजायाम् आजायन्त - परस्सहस्रा हास्य प्रजायां मन्त्रकृत आसुर्, अपि हास्य स्त्रियो मन्त्रकृत आसुः। तस्माद् यो ऽप्य् आत्रेयीं स्त्रियं हन्ति, तं पर्य् एव चक्षते। तेजस्वी भवति य एवं वेद। अथाकामयत विश्वामित्रो - राज्यं मे प्रजा गच्छेद् इति। स एतं त्रयस्त्रिंशं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। क्षत्रं वै त्रयस्त्रिंश स्तोमानाम्. ततो वै तस्य राज्यं प्रजागच्छत्। अष्टको हास्य प्रजायाम् अभिषिषिचे। गच्छति राज्यं य एवं वेद। ततो वै ते प्रजा अस्मिन् लोके विदाय स्वर्गं लोकम् अगच्छन्। प्रजाम् एवास्मिन् लोके विधाय स्वर्गं लोकं गच्छति य एवं वेद॥2.219॥

तद् उ वावागस्त्यः पश्चेवानुबुबुध - ऋषयो ह वा इमे प्रजा अस्मिन् लोके विधाय स्वर्गं लोकम् अग्मन्न् इति। सो ऽकामयताहम् अपि प्रजा अस्मिन् लोके विधाय स्वर्गं लोकम् अनुगच्छेयम् इति। स एतं षोडशं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। स्वर्गो लोकष् षोडश स्तोमानाम्। ततो वै स प्रजा अस्मिन् लोके विधाय स्वर्गं लोकम् अन्वगच्छत्। प्रजाम् एवास्मिन् लोके विधाय स्वर्गं लोकम् अनुगच्छति य एवं वेद। तस्माद् यद् आगस्त्यो ब्राह्मणान् प्राप्नोत्य् अनुचर इवैव भवति। अनुचर इव ह्य् एष स्तोमानां यत् षोडशः। तस्माद् व् अगस्तयो बहिर्धेव कुरुपाञ्चालेभ्यः। बहिर्धेव ह्य् एष स्तोमेभ्यो यत् षोडशः॥जै.ब्रा. 2.220

*तदेष श्लोको भवति

अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् ।

तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति ।

अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति ।

इदं तच्छरीर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः ।

तस्मिन् यशो निहितं विश्वरूपमिति ।

प्राणा वै यशो विश्वरूपम् ।

प्राणानेतदाह ।

तस्यासत ऋषयः सप्त तीर इति ।

प्राणा वा ऋषयः ।

प्राणानेतदाह ।

वागष्टमी ब्रह्मणा संविदानेति ।

वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ बृह. २,२.३, श.ब्रा. १४.५.२.५

*इमावेव गोतमभरद्वाजौ ।

अयमेव गोतमोऽयं भरद्वाजः ।

इमावेव विश्वामित्रजमदग्नी ।

अयमेव विश्वामित्रोऽयं जमदग्निः ।

इमावेव वसिष्ठकश्यपौ ।

अयमेव वसिष्ठोऽयं कश्यपः ।

वागेवात्रिः ।

वाचा ह्यन्नमद्यते ।

अत्तिर्ह वै नामैतद्यदत्रिरिति ।

सर्वस्यात्ता भवति ।

सर्वमस्यान्नं भवति य एवं वेद ॥ २,२.४ ॥