सर्व-
नद्भ्यो ह वा अग्रेऽश्वः सम्बभूव सोऽद्भ्यः सम्भवन्न सर्वः समभवदसर्वो हि वै समभवत्तस्मान्न सर्वैः पद्भिः प्रतितिष्ठत्ये – माश. ५.१.४.५
*तस्माद्यावज्जायां न विन्दते नैव तावत् प्रजायते। असर्वो हि तावद्भवति। - मा.श. ५.२.१.१०
*आपो वै सर्वो ( शर्वः) ऽद्भ्यो हीदं सर्वं जायते । माश ६,१, ३, ११ ।
*एतद् ( ओमिति) ध वा इदं सर्वमक्षरम् । जै २,१० ।
*एतावद्वाऽ इदं सर्वं यावदिमे च लोका दिशश्च । माश ६.५.२.२२ ।
*एतावद्वाऽ इदं सर्वं यावद्ब्रह्म क्षत्रं विट् । माश ४,२,२.१४ ।
*एतावद्वाऽ इदं सर्वं यावद्रूपं चैव नाम च । माश ११.२.३, ६ ।
*गायत्र्यश्चानुष्टुभश्च. .विराजश्च त्रिष्टुभश्च, तानि चत्वारि सम्पद्यन्ते, चतुष्टयं वा इदं सर्वम् । शांआ १.२ ।
*गौरिदं सर्वम् । मै ४,२,३ ।
*चतुष्टयं वा इदं सर्वम् । कौ २.१; ३,२; ७; १९.४, २८.७ ।
*द्वयं वा इदं सर्वं स्नेहश्चैव तेजश्च, तदहोरात्राभ्यामाप्तं स्नेहतेजसोराप्त्यै । - गो २.५.३ ।
*वागेवेदं सर्वमिति । ऐआ ३.१.६ ।
*अथ संस्थिते संस्थिते सवने वाचयति मयि भर्गो मयि महो मयि यशो मयि सर्वम् इति
पृथिव्य् एव भर्गो ऽन्तरिक्ष एव महो द्यौर् एव यशो ऽप एव सर्वम्
अग्निर् एव भर्गो वायुर् एव मह आदित्य एव यशश् चन्द्रमा एव सर्वम्
वसव एव भर्गो रुद्रा एव मह आदित्या एव यशो विश्वेदेवा एव सर्वम्
गायत्र्य् एव भर्गस् त्रिष्टुब् एव महो जगत्य् एव यशो ऽनुष्टुब् एव सर्वम्
प्राच्य् एव भर्गः प्रतीच्य् एव मह उदीच्य् एव यशो दक्षिणैव सर्वम्
वसन्त एव भर्गो ग्रीष्म एव महो वर्षा एव यशः शरद् एव सर्वम्
त्रिवृद् एव भर्गः पञ्चदश एव महः सप्तदश एव यश एकविंश एव सर्वम्
ऋग्वेद एव भर्गो यजुर्वेद एव महः सामवेद एव यशो ब्रह्मवेद एव सर्वम्
होतैव भर्गो ऽध्वर्युर् एव मह उद्गातैव यशो ब्रह्मैव सर्वम्
वाग् एव भर्गः प्राण एव महश् चक्षुर् एव यशो मन एव सर्वम् ॥ १५ ॥ गो १.५.१५
*सप्तदशः सर्वो भवति । मै ४.४.७ ।
*सर्वं वाऽअक्षय्यम् । माश १.६, १, १९, ११. १.२.१२ ।
*प्रेति वै रेतः सिच्यत एति प्रजायते प्रेति पशवो वितिष्ठन्त एति समावर्तन्ते सर्वं वाऽइदम् 'एति च प्रेति च'(प्र वो वाजा अभिद्यव इति तन्नु प्रेति भवत्यग्न आयाहि वीतय इति तद्वेति भवति) । माश १.४.१. ६ ।
*सर्वं वै सहस्रम् । कौ ११.७, २५,१४; माश ४,६.१.१५, ६.४.२.७ ।
*सर्वं वै विश्वे देवाः । माश १.७.४.२२, ३,९,१,१३ ४,२,२,३, ५.५.२.१० ।
*सर्वं हि सोमः । माश ५.५.४,११ ।
*सर्वान्वो वृञ्जेऽनाप्तेन छन्दसा । मै ४,२.११ ।।
*सर्वं वाऽअनिरुक्तम् – मा.श. १.४.१.२१,
उपांशु देवतां यजत्यनिरुक्तं वा उपांशु सर्वं वा अनिरुक्तं – मा.श. १.३.५.१०
अथात्मानं विकृषति । तद्यदेव संवत्सरेऽन्नं तदस्मिन्नेतद्दधाति तूष्णीमनिरुक्तं वै तद्यत्तूष्णीं सर्वं वा अनिरुक्तं सर्वेणैवास्मिन्नेतदन्नं दधाति – मा.श. ७.२.२.१४
सर्वं वै पूर्णं सर्वेणैवैनमेतच्छमयति स्वाहाकारेण जुहोत्यनिरुक्तो वै स्वाहाकारः सर्वं वा अनिरुक्तं सर्वेणैवैनमेतच्छमयति – मा.श. २.२.१.३
पुरीषवतीं चितिं कृत्वोपतिष्ठेत तत्र हि सा सर्वा कृत्स्ना भवति – माश. १०.१.३.[११]
प्रातराहुत्यां हुतायां अध्वर्युः पूर्णाहुतिं जुहोति सर्वं वै पूर्णं सर्वमश्वमेधः – मा.श. १३.४.१.१०
*आपो वा ऽअस्य सर्वस्य प्रतिष्ठा – मा.श. ४.५.२.१४, ६.८.२.२, १२.५.२.१४
*सर्वं ह्यायुः – का.श. ५.२.४.२
*इडा वा इदं सर्वम् – मै. ४.२.२
*ओमिति ब्रह्म। ओमितीदं सर्वम्।– तै.आ. ७.८.१, तै.उ.ब्रा. १.८.१
*प्रजापतिर्वै दशहोता। स इदं सर्वम्। - तै.आ. ३.७.४
*पाङ्क्तं वा इदं सर्वम् – तै.आ. ७.७.१, तै.उ. १.७.१
*प्रेति च वा इदं सर्वम्, एति च – जै. १.१८०
*प्रजापतिरेव सर्वम् – कौ. ६.१५, २५.१२
*सर्वं वै मधु। सर्वे वै कामा मधु। - ऐ.आ. १.१.३
*सर्वं वै वरः। - मा.श. २.२.१.४
राजसूयः - पूर्णाहुतिं जुहोति । सर्वं वै पूर्णं सर्वं परिगृह्य सूया इति तस्यां वरं ददाति सर्वं वै वरः – मा.श. ५.२.३.१
वरेण वाचं विसृजते वरं ददामि ब्रह्मण इति सर्वं वै वरः सर्वमश्वमेधः – मा.श. १३.४.१.१०
*विश्वं हि रिप्रं प्रवहन्ति देवीरिति यद्वै विश्वं सर्वं तद्यदमेध्यं रिप्रं तत्सर्वं ह्यस्मादमेध्यं प्रवहन्ति – माश. ३.१.२.११
*सर्वमिदं विश्वे देवाः – माश. ३.९.१.१४, ४.४.१.९, १८,
*सर्वं वै विश्वे देवाः।– मा.श. १.७.४.२२, ३.९.१.१३, ४.२.२.३
*षोडशकलं वा इदं सर्वम् – कौ. ८.१, ११.४, १७.१, २२.९, माश. १३.२.२.१३
संवत्सरो वा इदं सर्वम् – जै. १.२७, माश. ८.७.१.१
सर्वं वा ऋतवः संवत्सरः – मा.श. ४.३.१.४
स वा एष न सर्वस्यैव ग्रहीतव्यः । आत्मा ह्यस्यैष यो न्वेव ज्ञातस्तस्य ग्रहीतव्यो यो वास्य प्रियः स्याद्यो वानूचानोऽनूक्तेनैनं प्राप्नुयात् –माश. ४.६.१.[१४]
सहस्रे ग्रहीतव्यः । सर्वं वै सहस्रं सर्वमेष सर्ववेदसे ग्रहीतव्यः सर्वं वै सर्ववेदसं सर्वमेष विश्वजिति सर्वपृष्ठे ग्रहीतव्यः सर्वं वै विश्वजित्सर्वपृष्ठः सर्वमेष वाजपेये राजसूये ग्रहीतव्यः सर्वं हि तत्सत्त्रे ग्रहीतव्यः सर्वं वै सत्त्रं सर्वमेष एतानि ग्रहणानि – माश. ४.६.१.[१५]
सर्वं वै संवत्सरः – माश. १.६.१.१९, १.७.२.२४, ४.२.२.७, १०.२.५.१६
मर्त्या ह वा अग्रे देवा आसुः। स यदैव ते संवत्सरमापुरथामृता आसुः सर्वं वै संवत्सरः सर्वं वा अक्षय्यमेतेनो हास्याक्षय्यं सुकृतं भवत्यक्षय्यो लोकः – माश. ११.१.२.[१२]
सर्वजित् (यज्ञ-)-
१. यो वै सर्वं जयति विजयते सः । सर्वजित् सर्वमेव जयति । जै १.९५ ।
२. सर्व्वजिता वै देवाः सर्वमजयन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति ।
तां १६.७.२ ( तु. तां २२.८.४) ।। [ -जित् इन्द्र- ४०० द्र ।
सर्ब्ब-ज्योतिस् (यज्ञ-)-
१. अथैष सर्वज्योतिः सर्वस्याप्ति सर्वस्य जितिः सर्वमेवैतेनाप्नोति सर्वञ्जयति । तां १६,९.१ ।
२. परमो वा एष यज्ञः (सर्वज्योतिः) । तां १६,९,२ ।
सर्व-पृष्ठा (इष्टि-)- इन्द्रियकाम- द्र. ।
सर्व-मेध-
१. परमो वाऽएष यज्ञक्रतूनां यत्सर्वमेधः । श १३.७.१.२ ।
२. पुरुषमेधात्सर्वमेधः । गो १.५.७ ।
सर्वराज्- स (प्रजापतिः) सर्वमेधेनेष्ट्वा सर्वराडिति नामाधत्त । गो १.५,८ ।
सर्व-रूप- यो विद्युति (पुरुषः) स सर्वरूपः । सर्वाणि ह्येतस्मिन् रूपाणि । जैउ १,८.३६ ।
सर्ववेदच्छन्दस- सावित्री सर्ववेदच्छन्दसेन छन्दसा । शांआ ११.७ ।
सर्ववेदसिन्- यो वै सर्वं विन्दमानस्सर्वं न ददाति स सर्ववरादायी । अथ यस्सर्वं विन्दमानस्सर्वं
ददाति स सर्ववेदसी । जै २.१०० ।
सर्व-स्तोम (अतिरात्र-)-
१. सर्वंस्तोमेनातिरात्रेण बुभूषन्यजेत सर्व्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति ।
तां २०.२.२ ।
२. सर्वं हि तद् यत् सर्वस्तोमः । जै २.२३४ ।
३. सर्वस्तोमोऽग्निष्टोमः । जै २.२७९ ।
सर्वस्वार- त्रिवृदग्निष्टोमः सर्वस्वारो, यः कामयेताऽनामयताऽमुं लोकमियामिति स एतेन
यजेत । तां १७.१२,१ ।
सर्वायुस् बृहत् ५३ द्र.