साम

सामवेदपरिचयः


वायुपुराण १.२६ अनुसारेण ऋग्वेदस्य आरम्भिक ऋचा अग्निमीळे पुरोहितमिति भवति यः एकमात्रात्मकं अस्ति एवं वर्णं श्वेतमस्ति। यजुर्वेदस्य आरम्भिक यजुः इषे त्वा ऊर्जे त्वा अस्ति यः द्विमात्रात्मकमस्ति एवं वर्णं रक्तं अस्ति, क्षत्रियस्य वर्णम्। सामवेदस्य प्रथम साम अग्न आयाहीति भवति यः त्र्यक्षरः, त्रिमात्रात्मकं ओंकारं अस्ति, पीतवर्णमस्ति। अतः ओंकारस्य पूर्णा अभिव्यक्तिः साम्नैव भवति यत्र ऊर्जायाः पूरणं, धारणं एवं विसर्जनं सम्भवमस्ति। साम्नि ऊर्जायाः धारणस्य विशेषगुणं अस्ति। न केवलं धारणं, अपितु गुणस्य प्रसारणमपि भवति यस्य कारणेन साम्नि नि होता सत्सि बर्हिषि कथनं भवति। बर्हि शब्दोपरि टिप्पणी द्रष्टव्यः अस्ति।

अयं सार्वत्रिक रूपेण कथ्यन्ते यत् ऋग्वेदस्य सम्बन्धं पृथिवीतः अस्ति, यजुर्वेदस्य अन्तरिक्षतः, सामवेदस्य सूर्यतः एवं अथर्ववेदस्य चन्द्रतः। एतेषां मन्त्रेषु अग्नेः स्वरूपं केन प्रकारेण परिवर्तनं करोति, अयं अधो द्रष्टव्यः।

ऋग्वेदस्य प्रथम ऋचा अयमस्ति –

अग्निमीळे पुरोहितं यज्ञस्य देवं ऋत्विजम्। होतारं रत्नधातमम्।

अग्निः अर्थात् पृथिव्याः सारभूतम्। अयं अग्निः पुरोहितं भवितुं शक्नोति। पुरोहितं अर्थात् पुरः – हितम्। कस्यापि घटनायाः पूर्वकथनं अयं पुरोहित अग्निः करिष्यति। संसारे न कोपि घटना दयूतरूपे, आकस्मिक रूपे भविष्यति। यज्ञस्य देवं – अयं अग्निः यज्ञस्य, जीवनव्यापारस्य देवं, दैवं अपि भविष्यति। दैवस्य, भाग्यस्य पूर्वनिर्धारित रूपं अधुना निष्क्रियं भविष्यति। अयं अग्निः रत्नधातमम् अस्ति। रत्नस्य रक्षाहेतु सर्वश्रेष्ठतमम् अस्ति। स्कन्द पुराणे ४.१.३३.१६४ कथनमस्ति यत् पुरुषार्थस्य महारत्नं निर्वाणमस्ति। अयं स्वाभाविकं अस्ति यत् दैवस्य उल्लेखनोपरि पुरुषार्थस्य उल्लेखमस्ति। रत्नसम्बन्धे ऋग्वेदस्य अयं ऋचा आधारभूतं प्रतीयते -

अनु तन्नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः ।

भगमुग्रोऽवसे जोहवीति भगमनुग्रो अध याति रत्नम् ॥ - ऋ. ७.३८.६

इयानः अस्माभिर्याच्यमानः जास्पतिः प्रजानां पालकः सविता देवः सवितुः देवस्य स्वस्य सम्बन्धि रत्नं रमणीयं तत् प्रसिद्धं धनं नः अस्माकम् अनु मंसीष्ट अनुमन्यताम्। - सायण भाष्य

वैदिक निघण्टु मध्ये रत्न शब्दस्य वर्गीकरणं धन नामेषु अस्ति। अर्थात् यदा तन्त्रस्य स्थितिः धनात्मकं भविष्यति, तदैव रत्नस्य उत्पत्तिः भविष्यति। न ऋणात्मकस्य तन्त्रात्। उपरोक्तऋचानुसारेण, यः भगः(भाग्यः) उग्रमस्ति, तत् शत्रुनाशकारकं भवितुमर्हति। यः भगः अनुग्रमस्ति, तत् रत्नरूपे परिवर्तितुं अर्हति। अत्र उग्रं – अनुग्रं शब्दाः आधुनिक भौतिक विज्ञानस्य एण्ट्रांपी, अव्यवस्था आधारेण संजानीयाः। यदा कोपि तन्त्रः व्यवस्थां प्रति अग्रेसरं भविष्यति, तन्त्रः शान्त स्थितिं प्रति गमिष्यति, तदा रत्नस्य उत्पत्तिः भविष्यति।

सामवेदस्य प्रथमं साममस्ति –

अग्न आ याहि वीतये गृणानो हव्यदातये। नि होता सत्सि बर्हिषि।।

अत्र अग्नेः स्वरूपं सूर्यात्मकं भविष्यति। वेञ् धातु तन्तुसन्ताने अर्थे भवति। वीतये – व्याप्तये। यदा स्वचेतना देहमध्ये सीमितं न भवति, अपितु परेषां चेतनाभिः सम्मिलने शक्तं भवति, परेषां सुख-दुःखस्य अनुभव करणे शक्तं भवति, तदा अयं सामवेदस्य अग्निः, चेतना भवति।

द्वितीयपादे गृणानः किं भवति। साधारण रूपे स्तुतिकरणं गृणन् कर्मणे भवति। ऋग्वेदे गृणन् शब्दस्य प्रचुरता अस्ति। पुराणेषु गृणन् शब्दं विरलतया एव प्रकटयति – एके पुराणे एकवारमेव। किन्तु भागवतपुराणे अयं शब्दः प्रचुरतया प्रकटयति –

म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् ।

अजामिलोऽप्यगाद्धाम किमुत श्रद्धया गृणन् ॥ भागवत ६.२.४९

ऋग्वेदस्य प्रथमाया ऋचायाः प्रथमः पादः अस्ति – अग्निमीळे पुरोहितम्। सामवेदस्य प्रथमसाम्नः प्रथमः पादः अस्ति – अग्न आ याहि वीतये। किं पादे – पादे कोपि साम्यमस्ति, अन्वेषणीयः। एवमेव, ऋग्वेदे द्वितीयः पादः यज्ञस्य देवं ऋत्विजं अस्ति। यः पुरोहितः अग्निः अस्ति, तत् दैवस्य, भाग्यस्य प्रभावस्य निराकरणे, देवं भवितुं समर्थः अस्ति। एवं ग्रामगेयस्य द्वितीयः पादः गृणानो हव्यदातये अस्ति। अतः गृणनस्य प्रभावं देवस्थानीयं भवितुं शक्यते।

सामस्य तृतीयपादे (नि होता सत्सि बर्हिषि) होता अग्निः बर्हिषि निषीदति। बर्हिः किं भवति। बर्हि अर्थात् बहिः, व्यावहारिकं, सामाजिकं जीवनम्। एकः समाधिरस्ति। द्वितीयं समाधितः व्युत्थानं कृत्वा नामरूपात्मकं स्थित्यां प्रवेशमस्ति। अथवा एकः एकान्तिका, घोर तपसः स्थितिरस्ति। द्वितीया स्थितिः नामरूपात्मकं अस्ति। यथा, भागवत पुराणादिषु षष्ठम स्कन्ध पर्यन्तं घोर तपसः वर्णनमस्ति। सप्तम स्कन्धे प्रह्लादस्य नामगृणनस्य महिमायाः कथनमस्ति। अष्टम स्कन्धे मोहिनी अवताररूपेण रूपस्य महिमायाः वर्णनमस्ति। बर्हिषः स्थित्यां तन्त्रस्य उग्रत्वस्य संभावना अधिकमस्ति। ऋग्वेदस्य ऋचासु अभीप्सा अस्ति यत् विभिन्नाः देवाः आगच्छन्तु एवं बर्हिषि सीदन्तु। अनेन प्रकारेण बर्हिषः उग्रत्वं अनुग्रं भविष्यति। भागवत पुराणे ३.२२.२९ बर्हिष्मती शब्दस्य व्याख्या उपलब्धमस्ति। अनेनानुसारेण बर्हिष्मतीं पुरीं स्थित्वा यद्यपि बाह्य संसारे व्यवहारं भवति, किन्तु भगवन्नामस्य विस्मृति न भवति। अनेन कारणेन संसारस्य भोगाः भ्रंशयितुं न शक्यन्ते। मयूरस्य अपि बर्हिण संज्ञा अस्ति। मयूरस्य कार्यं श्रुतस्य प्रतिध्वनिकरणं अस्ति। ऋग्वेदस्य निम्नलिखित ऋचा ध्यातव्यमस्ति -

हरिः सृजानः पथ्यामृतस्येयर्ति वाचमरितेव नावम् ।

देवो देवानां गुह्यानि नामाविष्कृणोति बर्हिषि प्रवाचे ॥ - ऋ. ९,०९५.०२

गर्गसंहितायां ४.१५.३ बर्हिष्मतीपुर्याः गोप्यायाः विशेषता जातिस्मरत्वमस्ति।

अपर दृष्ट्या बर्हिषः परिभाषा अनेन प्रकारेण अपि कर्तुं शक्यन्ते – अनुभवस्य अनुभूतिः स्थूलतम स्तरे अपि भवतु। यदि जिह्वा रसास्वादनं करोति, तदा कृत्स्नं अपि शरीरं रोमांचितं भवेत्।

ओंकारस्य तृतीया मात्रा म – विसर्जनं भवति एवं तस्य देवता शिवः अस्ति। आधुनिक विज्ञानानुसारेण कस्मिन्नपि तन्त्रे ऊर्जायाः धारणं पश्चात् तस्याः शतप्रतिशत उपयोगं संभवं नास्ति। यस्याः ऊर्जायाः अव्यव्यवस्थायां वृद्धिः भवति, तस्याः निष्कासनं, विसर्जनं अनिवार्यमस्ति। बर्हिः, बहिः अनेन निष्कासनेन सम्बद्धमस्ति, अयं प्रतीयते। होतुरग्नेः बर्हिषि प्रतिष्ठापनानन्तरं अव्यवस्थित ऊर्जायां कः परिवर्तनं भविष्यति, अयं अन्वेषणीयः।

शतपथ ब्राह्मणे १.४.१.२२ अग्न आयाहि इति तृचायाः(साम ६६०) व्याख्या उपलब्धमस्ति। अस्यानुसारेण वीतये शब्दः ये लोकाः समन्तिकाः सन्ति, यथा द्यौः, तेषां अविदूरीकरणाय वीतये शब्दस्य निर्देशमस्ति। नि होता सत्सि बर्हिषि इति अयं लोको बर्हि अस्मिन्नेवैतल्लोके अग्निं दधाति।



अस्य साम्नः त्रयः भागाः सन्ति। प्रथम साम्नः संज्ञा पर्कः अस्ति एवं ऋषिः गौतमः अस्ति। पर्कः अर्थात् पृञ्चनं, तर्पणम्। यथा मधुपर्कं। द्वितीयसाम्नः संज्ञा बर्हिः अस्ति एवं ऋषिः कश्यपः अस्ति। तृतीय साम्नः संज्ञा पर्कः अस्ति एवं ऋषिः गौतमः अस्ति। ऋग्वेदे १.७४ – १.९३ सूक्तानां ऋषिः गोतमो राहूगणः, अर्थात् रहूगणस्य – पुत्रः गोतमः अस्ति। अस्मिन् संदर्भे रहूगणोपरि टिप्पणी द्रष्टव्यमस्ति। संक्षेपरूपेण, गोतमः शुष्कसाधनायाः स्थितिं पारयित्वा आनन्दपूर्ण स्थित्याः अवस्था अस्ति। पुराणेषु गौतमः दुर्भिक्षकाले कूपं खनति यस्य जलेन सः सर्वान् तर्पयति। तस्य आश्रमे सस्यः त्वरितगत्या पाकं गच्छति येन सः सर्वान् मुनीन् तर्पयति। अत्र दुर्भिक्षं दुःखपूर्णस्य साधनायाः प्रतीकमस्ति, इति प्रतीयते। गौतम ऋषेः कामना अस्ति यत् सः ब्रह्मवर्चस्वी भवेत् एवं तस्य प्रजा श्रद्धावान् भूयात् (जैमिनीयं ब्राह्मणम् २.२१८)। पुराणेषु गौतम ऋषिः दुर्भिक्ष काले सर्वेषां मुनीनां हेतु भोजनं प्रस्तुतं करोति। तस्य वैशिष्ट्यं सस्यस्य त्वरितगत्या पाकमस्ति। अयं पाकं श्रद्धया एव अस्ति, एवं कथितुं शक्यन्ते। आध्यात्मिक दृष्ट्या, यदा सर्वेषां संशयानां छेदनं भविष्यति, अज्ञानस्य छेदनं भविष्यति, तदा श्रद्धायाः पोषणं भविष्यति। प्रस्तुत संदर्भस्य साम्ना अयं केन प्रकारेण भविष्यति, अयं अन्वेषणीयः।

अग्न आयाहीति सामवेदस्य आरम्भिक साममस्ति। सामस्य गानम् यूट्यूबोपरि

अस्य व्याख्या जैमिनीय ब्राह्मण १.१९ आख्यानस्य माध्यमे कर्तुं शक्यते। आख्यानः यजमान द्वारा यज्ञ हेतु गोदोहनस्य अस्ति। यदा गौ प्रसन्ना भवति, तदा सा वत्स हेतु पयःस्रावं करोति। प्रथम साम्ना वत्सः पयः पानार्थं मातरं प्रति धावति, अयं कथितुं शक्यते। आख्यानानुसारेण वाक् अग्निहोत्री गौ अस्ति एवं मनः वत्समस्ति। गौ स्ववत्स हेतुरेव पयः स्रावणं करोति। द्वितीय साम्ना यजमानः यज्ञकार्य हेतु गोदोहनं करोति, अयं प्रतीयते। अत्र हृदयं मेथी अर्थात् गौस्तम्भनार्थं स्तम्भः भवति एवं प्राणः रज्जुः अस्ति। द्वितीय सामस्य संज्ञा बर्हिः अस्ति। बर्हिः अर्थात् बहिः, निर्विकल्प समाधितः व्युत्थानस्य स्थितिः। डा. फतहसिंह अनुसारेण कश्यपः समाधितः व्युत्थानस्य प्रतीकमस्ति। समाधिं प्रति गमनस्य प्रतीकं पश्यकः भवति। तृतीय साम्नः किं प्रतीकार्थं अस्ति, अयं अन्वेषणीयः। सम्भवतः अत्र वाक् पूर्वं भवति, मनः पश्चात्।

अग्निमीळे पुरोहितं(ऋग्वेद) – एकमात्रात्मकं

इषे त्वा ऊर्जे त्वा(यजुर्वेद) – द्विमात्रात्मकं

अग्न आयाहि(सामवेद) – ओंकारस्य त्रिमात्रात्मकम्

७,०५७.०२ निचेतारो हि मरुतो गृणन्तं प्रणेतारो यजमानस्य मन्म ।

७,०५७.०२ अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ॥

छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रा यमः स्नेहकला द्विजानि ।

हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः ॥भागवत 02.01.031 ॥

हरेर्नाम गृणन् पुत्रोपचारितम् ।

अजामिलोऽप्यगाद्धाम किमुत श्रद्धया गृणन् ॥ 06.02.049 ॥

तत्र श्रद्धा मनोः पत्नी होतारं समयाचत ।

दुहित्रर्थमुपागम्य प्रणिपत्य पयोव्रता ॥ 09.01.014 ॥

प्रेषितोऽध्वर्युणा होता व्यचरत्तत्समाहितः ।

गृहीते हविषि वाचा वषट्कारं गृणन् द्विजः ॥ 09.01.015 ॥

होतुस्तद्व्यभिचारेण कन्येला नाम साभवत् ।

५,०५१.०५ वायवा याहि वीतये जुषाणो हव्यदातये ।

५,०५१.०५ पिबा सुतस्यान्धसो अभि प्रयः ॥

८,०२३.२६ महो विश्वां अभि षतोऽभि हव्यानि मानुषा ।

८,०२३.२६ अग्ने नि षत्सि नमसाधि बर्हिषि ॥

८,०४४.१४ स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा ।

८,०४४.१४ देवैरा सत्सि बर्हिषि ॥


आग्नीध्रमण्डपोपस्थानं प्रकृतया ' अग्न आ याहि वीतये ' इत्याग्नेय्या ऋचैव कर्तव्यम् । न दाशतयीस्थया कया चित् । वि. ३।२।८.

आग्नीध्रीयाग्नेः शालामुखीयादेव प्रणयनं नौत्तरवेदिकात् । ३।२।१४. - मीमांसाकोशः

यः शालामुखीयाग्निः अस्ति, तस्याः संज्ञा सभ्यः (?) अस्ति एवं देवता अजैकपादः अस्ति। अजैकपादः अर्थात् अञ्जीनां, विस्फुलिङ्गानां एकीकरणं। अजैकपादतः अपेक्षा अस्ति यत् अस्य प्रथनं भवेत्, द्यूततः निर्गमनं भवेत्। यदा अस्याग्नेः आग्नीध्रीयं प्रति प्रणयनं भवति, तदा प्रथनस्य लक्ष्यं पूर्णं भवति। आग्नीध्रः ऋत्विक् रुद्रस्य रूपं अस्ति। रुद्रस्य एकं कार्यं दैवस्य, भाग्यस्य अवरोधनं अस्ति। अनेनोद्देश्येन रुद्रः दक्षयज्ञस्य भञ्जनं करोति।


ऽग्न आयाहि वीतय । इत्यग्निना वै देवा इदमग्रे व्यायन् वीत्यै प्रच्युतो वा एष एतर्ह्यायतनादगतः प्रतिष्ठाँ स यजमानं चैवाध्वर्युं च ध्यायत्यृतँ सत्यमृतँ सत्यमितीयं वा ऋतमसौ सत्यमनयोरेवैनं प्रतिष्ठापयति – काठ.सं १९.५

यस्य गार्हपत्याहवनीयौ मिथः संसृज्येयातां का तत्र प्रायश्चित्तिरिति सोऽग्नये वीतयेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अग्न आ याहि वीतये यो अग्निं देववीतय इत्याहुतिं वाहवनीये जुहुयादग्नये वीतये स्वाहेति – ऐब्रा ७.६.२

विभक्तिभिः प्रयाज अनुयाजान् यजति । ऋतवो वै प्रयाज अनुयाजाः । ऋतुभ्य एनम् तत् समाहरन्ति । अग्न आयाहि वीतये अग्निम् दूतम् वृणीमहे अग्निना अग्निः समिध्यते अग्निर् वृत्राणि जङ्घनद् अग्नेः स्तोमम् मनामहे अग्ना यो मर्त्यो दुव इत्य् एताम् ऋचाम् प्रतीकानि विभक्तयः । ता वै षड् भवन्ति । षड् वा ऋतवः । - कौशी.ब्रा. १.४

अथ रासभस्य । ......अथापादत्ते । अग्न आयाहि वीतय इत्यवितव इत्येतत्तदेनं ब्रह्मणा यजुषैतस्माच्छौद्राद्वर्णादपादत्ते -माश ६.४.४.[९]

जगतीं होतुर् आज्ये। जागतो हि होता॥1.318॥ सैषा भवति अग्न आ याहि वीतये इति॥ जैब्रा १.३१९

अग्न आ याहि वीतये, आ नो मित्रावरुणा, आ याहि सुषुमा हि त, इन्द्राग्नी आ गतं सुतम् इत्य् आ याह्य् आ याहीत्य् आज्यानि भवन्ति। आ याह्य् आ याहीति युक्तानां पुरस्तात् प्रयन्ति। यथा युक्तानां पुरस्ताद् आ याह्य् आ याहीति प्रेयात् तादृक् तत्। - जैब्रा ३.१२

अग्न आ याहि वीतय इत्य् आह तस्मात् प्रतीचीः प्रजा जायन्ते - तैसं २.५.७.३

अग्न आ याहि वीतय इत्य् आह राथंतरस्यैष वर्णस् - तैसं २.५.८.१

संभृतमृदो यज्ञभूमौ समाहरणम् -- अग्न आ याहि वीतय इति वा इमौ लोकौ व्यैताम् अग्न आ याहि वीतय इति यद् आह । अनयोर् लोकयोर् वीत्यै प्रच्युतो वा एष आयतनाद् अगतः प्रतिष्ठाम् । स एतर्ह्य् अध्वर्युं च यजमानं च ध्यायति । - तैसं ५.१.५.८

चरणावग्निमीळे तु इषेत्वो गुल्फयोः स्थिताः ।।

अग्न आयाहि जङ्घे द्वे शन्नोदेवीति जानुनी ।।गरुडपु. १.४८.८७

इषेत्वेति च मन्त्रेण उत्तमांगं सदार्चयेत् ॥

अग्निमीळेति मन्त्रेण पूजयेद्दक्षिणं करम् ॥ ८३ ॥

अग्न आयाहि मन्त्रेण पादौ देवस्य पूजयेत् ॥ स्कन्दपु. ७.१.१७.८४