सरस्वती२

।। श्रीगणेशाय नमः।। अथ ताराभेदेन वागीश्वरी (सरस्वती) महाकल्पः ।। नारद उवाच ।। केनोपायेन देवेश विद्योत्पत्तिर्भवेन्नृणाम् ।। वेदविद्याप्रकाशश्च तन्मे ब्रूहि जगत्प्रभो ।। १ ।। ब्रह्मोवाच ।। साधु साधु त्वया पृष्टं लोकानां हितकारकम् ।। एतदेव पुरा पृष्टं कल्पादौ विष्णवे मया ।। २ ।। ब्रह्मशब्दस्वरूपेण प्रसन्नेनांतरात्मना ।। यत्प्रोक्तं तेन मे ब्रह्मंन्तत्ते वक्ष्यामि यत्नतः ।। ३ ।। विष्णु रुवाच ।। शृणु ब्रह्मन्परं गुह्यं कल्पं सारस्वतं महत् ।। यस्य विज्ञानमात्रेण जाड्यापहरणं भवेत् ।। ४ ।। सर्वशास्त्रप्रवक्ता च सर्वज्ञो जायते ऽचिरात् ।। अभ्यासाच्च भवेत्सिद्धिर्वाचश्चित्रा भवंति हि ।। ५ ।। अवापुस्त्रिदशाः स्वर्गं वागीशत्वं बृहस्पतिः ।। द्वैपायनोऽपि यं ज्ञात्वा वेदव्यासोऽभवन्मुनिः ।। ६ ।। मंत्रोद्धारं प्रवक्ष्यामि सांगावरणपूजनैः ।। अनंतं बिंदुना युक्तं वामगंडांतभूषितम् ।। ७ ।। मंत्रो यथा- आँ लृं इति द्व्यक्षरो मंत्रः ।। अस्य विधानम्-पुरश्चरणात् प्राक् तृतीयदिवसे क्षीरादिकं विधाय ततः प्रायश्चित्तांगतया विष्णुपूजा विष्णुतर्पण विष्णुश्राद्धहोम चांद्रायणादिव्रतं सर्वदेवोपयोगिपद्धतिमार्गेण कुर्यात् । व्रताशक्तौ गोदानं द्रव्यदानं च कुर्यात् । यदि सर्वकर्मणामशक्तिः ततः प्रायश्चित्तांगभूत पंचगव्यप्राशनं कुर्यात् ततः पुरश्चरणात् पूर्वदिने स्वदेहशुद्ध्यर्थं पुरश्चरणाधिकारप्राप्त्यर्थं चायुतगायत्रीजपं कुर्यात् ।। तथा च-देशकालौ संकीर्त्य ज्ञाताज्ञातपापक्षयार्थं करिष्यमाण श्रीसरस्वतीदेवी पुरश्चरणाधिकारार्थ-ममुकमंत्रसिद्ध्यर्थं च गायत्र्ययुतजपमहं करिष्ये । इति संकल्प्य गायत्र्ययुतं जपेत् ।। ततः चन्द्रतारादिबलान्विते सुमुहूर्ते विविक्ते देशे जपस्थानं प्रकल्प्य कूर्म शोधनं च कृत्वा कुशासने प्राङ्मुख उदङ्मुखो वा उपविश्य मूलेन शिखां बद्ध्वा आचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीसरस्वती देवीप्रीतये अमुकमंत्रसिद्ध्यर्थे अमुकसंख्यात्मकजपरूपपुरश्चरणमहं करिष्ये । इति संकल्प्य ततो भूतशुद्धिप्राणप्रतिष्ठांतर्मातृकाबहि र्मातृकासृष्टिस्थितिसंहारमातृकान्यासं च सर्वदेवोपयोगिपद्धतिमार्गेण कुर्यात् ।। यदि सर्वन्यासाशक्तस्ततः प्रयोगोक्तन्यासादिकं कुर्यात्।। । तथा च- आँ अंगुष्ठाभ्यां नमः १ । आँ तर्जनीभ्यां नमः २ । आँ मध्यमाभ्यां नमः ३ । आँ अनामिकाभ्यां नमः ४ । आँ कनिष्ठिकाभ्यां नमः ५। आँ करतलकरपृष्ठाभ्यां नमः ६। इति करन्यासः ।। आँ हृदयाय नमः १। आँ शिरसे स्वाहा २। आँ शिखायै वषट् ३ । आँ कवचाय हुँ ४ । आँ नेत्रत्रयाय वौषट् ५ । आँ अस्त्राय फट् ६ ।। इति हृदयादिषडंगन्यासः ।। आँ भ्रुवोः १ । आँ नाभौ २ । आँ गुह्ये ३ । आँ बस्तौ ४ ।। इति विन्यसेत् ।। एवं न्यासविधिं कृत्वा ध्यायेत् ।। अथ ध्यानम् ।। ॐ रत्नकांतिनिभां देवीं ज्योत्स्नाजालविकाशिनीम् ।। मुक्ताहारयुतां शुभ्रां शशिखंडाविभूषिताम् ।।१ ।। बिभ्रतीं दशहस्तैश्च व्याख्यां वर्णस्य मालिकाम् ।। अमृतेन तथा पूर्णं घटं च दिव्यपुस्तकम् ।। २ ।। दधतीं वामहस्तेन पीनस्तनभरान्विताम् ।। मध्ये क्षीणां तथा स्वच्छां नानारत्नविभूषिताम् ।। ३।। एवं ध्यात्वा सर्वतोभद्रमडले मं मंडूकादिपरतत्त्वांतपीठदेवताभ्यो नमः' इति पीठदेवताः संपूज्य नवपीठशक्तीः पूजयेत् । तत्र क्रमः- पूर्वादिक्रमेण ॐ मेधायै नमः १ । ॐ प्रज्ञायै नमः २ । ॐ प्रभायै नमः ३ । ॐ विद्यायै नमः ४ । ॐ ज्ञानायै नमः ५ । ॐ धृत्यै नमः ६ । ॐ स्मृत्यै नमः ७ । ॐ बुद्धयै नमः ८ । मध्ये ॐ विद्येश्वर्यै नमः ९ । इति पीठशक्तीः पूजयेत् । ततः स्वर्णादिपात्रे षट्कोणाष्टदलभूपुरं यंत्रं निर्माय अत्युत्तारणं कृत्वा ॐ वर्णाब्जपद्मासनाय नमः । ' इति मंत्रेणासनं दत्त्वा पीठमध्ये संस्थाप्य प्राणप्रतिष्ठां कृत्वा मूलेन मूर्तिं प्रकल्प्य पुनर्ध्यात्वा आवाहनादिपुष्पांतैरुपचारैः संपूज्य देव्याज्ञां गृहीत्वा आवरणपूजां कुर्यात्।। तत्र क्रमः- षट्कोणकेसरेषु अग्निकोणे ॐ आं हृदयाय नमः(१) १ । निर्ऋति० ॐ आं शिरसे स्वाहा(२) २। वायव्ये ॐ आं शिखायै वषट्(३) ३ । ऐशान्ये ॐ आं कवचाय हुं(४) ४ । पूज्यपूजकयोर्मध्ये ॐ आं नेत्रत्रयाय वौषट्(५) ५ । देवीपश्चिमे ॐ आं अस्त्राय फट्(६) ६ ।। इति षडंगानि पूजयेत् ।। ततः पुष्पांजलिमादाय मूलमुच्चार्य्य ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।। भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ।। १ ।। इति पठित्वा पुष्पांजलिं च दत्त्वा पूजितास्तर्पिताः संतु इति वदेत् ।। इति प्रथमावरणम् ।। १ ।। ततोऽष्टदले पूज्यपूज कयोर्मध्ये प्राची तदनुसारेण अन्याः दिशः प्रकल्प्य प्राचीक्रमेण वामावर्तेन च ॐ ब्राह्म्यै नमः(७) १ । ॐ माहेश्वर्यै नमः(८) २ । ॐ कौमार्ये नमः(९) ३ । ॐ वैष्णव्यै नमः(१०) ४ । ॐ वाराह्यै नमः(११) ५ । ॐ इन्द्राण्यै नमः(१२) ६ । ॐ चामुंडायै नमः(१३) ७ । ॐ महालक्ष्म्यै नमः(१४) ८ । इत्यष्टौ मातृकाः पूजयित्वा षुष्पांजलिं च दद्यात् ।। इति द्वितीयावरणम् ।। २ ।। ततो भूपुरे पूर्वादिक्रमेण ॐ लं इन्द्राय नमः(१५) १ । ॐ रं अग्नये नमः(१६) २ । ॐ मं यमाय नमः(१७) ३ । ॐ क्षं निर्ऋतये नमः(१८) ४ । ॐ वं वरुणाय नमः(१९) ५ । ॐ यं वायवे नमः(२०) ६ । ॐ कुं कुबेराय नमः(२१) ७ । ॐ हं ईशानाय नमः(२२) ८ । ईशानपूर्वयोर्मध्ये ॐ आँ ब्रह्मणे नमः(२३) ९ । निर्ऋतिपश्चिमयोर्मध्ये ॐ ह्रीं अनंताय नमः(२४) १० ।। इति दश दिक्पालान् पूजयित्वा पुष्पांजलिं च दद्यात् ।। इति तृतीयावरणम ।। ३ ।। ततो भूपुरे इंद्रादिसमीपे ॐ वं वज्राय नमः(२५) १ । ॐ शं शक्तये नमः(२६) २ । ॐ दं दंडाय नमः(२७) ३ । ॐ खं खङ्गाय नमः(२८) ४ । ॐ पां पाशाय नमः(२९) ५ । ॐ अं अंकुशाय नमः(३०) ६ । ॐ गं गदायै नमः(३१) ७ । ॐ त्रिं त्रिशूलाय नमः(३२) ८ । ॐ पं पद्माय नमः ९ । ॐ चं चक्राय नमः(३४) १० । इति वज्राद्यायुधानि पूजयित्वा पुष्पांजलिं दद्यात् ।। इति चतुर्थावरणम्।।४।। इत्यावरणपूजां कृत्वा धूपादिनमस्कारांतं संपूज्य स्तोत्रेण स्तुत्वा जपं कुर्यात् ।। अस्य पुरश्चरणं द्वादशलक्षजपः । पायसान्नेन दशां शतो होमः । तत्तद्दशांशेन तर्पणमाजर्नब्राह्मणभोजनानि च कुर्यात् ।। एवं कृते मंत्रः सिद्धो भवति । सिद्धे मंत्रे मंत्री प्रयोगान् साधयेत् । तथा च-

जपेद्द्वादशलक्षाणि मूकोऽपि वाक्पतिर्भवेत् ।। कवित्वं लभते वाग्ग्मी लक्षैर्द्वादशभिर्ध्रुवम् ।। प्रातर्जप्त्वा सहस्रं तु पिबेद्ब्राह्मीं वचान्विताम् ।। न विस्मरति मेधावी श्रुताम्षेदागमानपि ।। इति प्रथमप्रयोगः ।। १ ।। कंठमात्रोदके स्थित्वा ध्यायेन्मार्तण्डमंडले ।। ज्योतिःपुंजनिभां देवीं परिवारसमन्विताम् ।। वराभय युतां हस्ते मुद्रापुस्तकधारिणीम् ।। इति ध्यात्वा सहस्रेण षण्मासं विजितेंद्रियः ।। मीमांसां प्राप्य वाक्सिद्धिं कवीनामग्रणीर्भवेत् ।। इति द्वितीयप्रयोगः ।। २ ।। अथ योगं प्रवक्ष्यामि जाड्यनाशकरं परम् ।। रात्रिशेषे समुत्थाय शुचिर्भूत्वा समाहितः ।। शुद्धभावेन चात्मानं द्रव्यं च परिकल्पयेत् ।। ततः परशिवे नीत्वा सौधीं च प्रापयेत्ततः ।। ऊर्द्ध्वग्रंथिं विनिर्भिद्य जिह्वां दीपस्वरूपिणीम् ।। जीवस्वरूपशक्त्या तु प्रेरयंतीं परात्मिकाम् ।। शब्दब्रह्मस्वरूपां च तां देवीं चिंतयाम्यहम् ।। इति ध्यात्वा सहस्रेण जपेत्संवत्सरं यदि ।। ततः संजायते मंत्री वाचस्पति रिवापरः ।।छंदोऽलंकारतर्कादि नानाशास्त्रार्थविद्भवेत् ।। कवित्वे ज्ञानशक्त्या तु पांडित्यमधिकं भवेत् ।। इति तृतीयप्रयोगः ।। ३ ।। अथापरं प्रवक्ष्यामि प्रयोगं भुवि दुर्ल्लभम् ।। नाभिचक्रे स्थितां सौम्यां रक्ताकारां विचिंतयेत् ।। क्षौमाबद्धनितंबां च रक्ताभरण

भूषिताम् ।। पाशांकुशधरां दिव्यां वराभययुतां पुनः ।। दृष्ट्या चामृतवर्षिण्यां पूरयंतीं मनोरथान् ।। एवं ध्यात्वा जपेल्लक्षं मनुं यो विहितं ततः ।। होमं कुर्यात्त्रिमध्वक्तरक्तोत्पलायुतैर्द्विज ।। ततः संतर्पयेद्देवीं दुग्धयुक्तेन सर्पिषा ।। पायसेन बलिं दद्याद्दधिपिष्टमधुप्लुतैः ।। एवं ध्यात्वा विधानं तु साक्षाद्वैश्रवणो भवेत् ।। सिद्धार्थैर्मधुरोपेतैर्हुत्वा विश्वं वशं नयेत् ।। पद्महोमेन महती प्राप्नुयाच्छ्रियमूर्ज्जिताम् ।। देवीहृदयविद्याया नास्ति किंचित्सुदुर्ल्लभम् ।। स्नेहभावेन संप्रोक्तं न देयं यस्य कस्यचित् ।। एतत्ते कथितं गुह्यं विद्योत्पत्तेश्च कारणम् ।। विष्णुना दत्तमस्मभ्यं मया तुभ्यं द्विजोत्तम ।। सिद्धमंत्रो यदा मंत्री वालिशस्यापि मूर्द्धनि ।। हस्तं दत्त्वा दिशेत्सोऽपि सौधीं वाचमनर्गलाम् ।। इति स्वायंभुवमातृकामन्त्रे सारस्वतकल्पः समाप्तः ।।

अथ सरस्वतीदशाक्षरमंत्रप्रयोगः ।। मंत्रो यथा-वद वद वाग्वादिनि स्वाहा । इति दशाक्षरो मंत्रः । अस्य मंत्रस्य कण्वऋषिः । विराट्छंदः । वाग्वादिनी देवता । मम सर्वेष्टसिद्धये जपे विनियोगः । ॐ कण्वऋषये नमः शिरसि १ । विराट्छंदसे नमः मुखे २ । वागीश्वर्य्यै देवतायै नमः हृदि ३ । ।।विनियोगाय नमः सर्वाङ्गे ४ ।। इति ऋष्यादिन्यासः ।। ॐ वं नमः शिरसि १ । ॐ दं नमः दक्षश्रवणे २ । ॐ वं नमः वामश्रवणे ३ । ॐ दं नमः दक्षनेत्रे ४। ॐ वां नमः वामनेत्रे ५। ॐ वां नमः दक्षिणनासापुटे ६ । ॐ दिं नमः वामनासापुटे ७। ॐ निं नमः वदने ८ । ॐ स्वां नमः लिंगे ९ । ॐ हाँ नमः गुदे १० ।। इति मंत्रवर्णन्यासः । ॐ आं अंगुष्ठाभ्यां नमः १ । ॐ आं तर्जनीभ्यां नमः २ । ॐ आं मध्यमाभ्यां नमः ३ । ॐ आं अनामिकाभ्यां नमः ४ । ॐ आं कनिष्ठिकाभ्यां नमः ५ । ॐ आं करतलकरपृष्ठाभ्यां नमः ६ । इति करन्यासः ।। ॐ आं हृदयाय नमः १ । ॐ आं शिरसे स्वाहा २ । ॐ आं शिखायै वषट् ३ । ॐ आं कवचाय हुँ ४ । ॐ आं नेत्रत्रयाय वौषट् ५ । ॐ ां अस्त्राय फट् ६ ।। इति हृदयादिषडंगन्यासः ।। एवं न्यासविधिं कृत्वा ध्यायेत् ।। ॐ तरुणशकल मिन्दोर्बिभ्रती शुभ्रकांतिः कुचभरनमितांगी सन्निषण्णा सिताब्जे।। निजकरकमलोद्यल्लेखनीपुस्तकश्रीः सकलविभवसिद्ध्यै पातु वाग्देवता नः।।१।।। इति ध्यायेत्। ततः सर्वतोभद्रमंडले मंडूकादि परतत्त्वांतपीठदेवताः संस्थाप्य ॐ मं मंडूकादिपरततत्त्वांतपीठदेवताभ्यो नमः' इति पीठदेवताः संपूज्य नवपीठशक्तीः पूजयेत् । तद्यथा-पूर्वाद्यष्टसु दिक्षु ॐ मेधायै नमः १ । ॐ प्रज्ञायै नमः २ । ॐ प्रभायै नमः ३ । ॐ विद्यायै नमः ४ । ॐ ज्ञानायै नमः ५ । ॐ धृत्यै नमः ६ । ॐ स्मृत्यै नमः ७ । ॐ बुद्ध्यै नमः ८ । पीठमध्ये ॐ विद्येश्वर्यै नमः ९ । इति पीठशक्तीः संपूजयेत् । ततः स्वर्णादिनिर्मितं यंत्रमग्न्युत्तारणपूवर्कम् ' ॐ वर्णपद्मासनाय नमः ' इति मंत्रेण पुष्पाद्यासनं दत्त्वा पीठमध्ये संस्थाप्य प्राणप्रतिष्ठां कृत्वा मूलेन मूर्तिं प्रकल्प्य पुनर्ध्यानावाहनादि पुष्पांतैरुपचारैः संपूज्य देव्याज्ञां गृहीत्वा आवरणपूजां कुर्यात् । तत्र क्रमः-षट्काणे केसरेषु आग्नेय्यादिचतुर्दिक्षु मध्ये दिक्षु च ॐ आं हृदयाय नमः(१) १। ॐ आं शिरसे स्वाहा(२) २ ॐ आं शिखायै वषट्(३) ३ । ॐ आं कवचाय हुम्(४) ४ । ॐ आं नेत्रत्रयाय वौषट्(५) ५ । ॐ आं अस्त्राय फट्(६) ६ ।। इति षडंगानि पूजयेत्। ततः पुष्पांजलिमादाय मूलमुच्चार्य्य् - ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।। भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ।। १ ।। इति पठित्वा पुष्पांजलिं च दत्त्वा पूजितास्तर्पिताः संतु इति वदेत् ।। इति प्रथमावरणम् ।। ततोऽष्टदले पृज्यपूजकयोर्मध्ये प्राचीं प्रकल्प्य पूर्वादिक्रमेण ॐ योगायै नमः(७) १ । ॐ सत्यायै नमः(८) २ । ॐ विमलायै नमः(९) ३ । ॐ ज्ञानायै नमः(१०) ४ । ॐ बुद्ध्यै नमः(११) ५ । ॐ स्मृत्यै नमः(१२) ६ । ॐ मेधायै नमः(१३) ७ । ॐ प्रज्ञायै नमः(१४) ८ । इत्यष्टौ शक्तीः पूजयित्वा पुष्पांजलिं दद्यात् ।। इति द्वितीयावरणम् ।। २ ।। ततोऽष्ट दलाग्रेषु ॐ ब्राह्म्यै नमः(१५) १ । ॐ माहेश्वर्यै नमः(१६) २ । ॐ कौमार्यै नमः(१७) ३ । ॐ वैष्णव्यै नमः(१८) ४ । ॐ वाराह्यै नमः(१९) ५ । ॐ इन्द्राण्यै नमः(२०) ६ । ॐ चामुण्डायै नमः(२१) ७ । ॐ महालक्ष्म्यै नमः(२२) ८ ।। इत्यष्टौ मातॄः पूजयित्वा पुष्पांजलिं दद्यात् ।। इति तृतीयावरणम्।।३।। ततो भूपुरे पूर्वादिक्रमेण इन्द्रादिदशदिक्पालान् वज्राद्यायुधानि च संपूज्य पुष्पांजलिं दद्यात् । इत्यावरणपूजां कृत्वा धूपादिनीराजनांतं संपूज्य जपं कुर्य्यात् । अस्य पुरश्चरणं दशलक्षजपः तद्दशांशेन होमः । तत्तद्दशांशेन तपर्णमार्जनब्राह्मणभोजनानि कुर्य्यात् । एवं कृते मंत्रः सिद्धो भवति । सिद्धे मंत्रे मंत्री प्रयोगान् साधयेत् ।। तथा च-दशलक्षं जपेन्मंत्रं दशांशं जुहुयात्ततः ।। पुंडरीकैः पयोऽभ्यक्तैस्तिलैर्वा मधुराप्लुतैः ।। १ ।। ब्रह्मचर्यरतः शुद्धः शुद्ध दंतनखादिकः ।। संस्मरन्सर्ववनिताः सततं देवता धिया ।। २ ।। कवित्वं लभते श्रीमान् मासैर्द्वादशभिर्ध्रुवम् ।। कृत्वा तु मंत्रितं तोयं सहस्रं प्रत्यहं पिबेत् ।। महाकविर्भवेन्मंत्री वत्सरेण न संशयः ।। उरोमात्रे जले स्थित्वा ध्यायेन्मार्तडमंडले ।। ३ ।। स्थितां देवीं प्रति दिनं त्रिसहस्रं जपेन्मनुम् ।। लभते मंडलात्सिद्धिं वाचामप्रतिमां भुवि ।। ४ ।। पलाशविल्वकुसुमैर्जुहुयान्मधुरोक्षितैः ।। ५ ।। समिद्भिर्वा तदुत्थाभियर्शः प्राप्नोति वाक्पतेः ।। होमोऽयं सर्वसौभाग्यलक्ष्मीवश्यप्रदो भवेत्।।६।।राजवृक्षसमुद्भूतैः प्रसूनैर्मधुराप्लुतैः ।। तत्समिद्भिश्च जुहुयात्कवित्वमतुलं भवेत् ।। इत्थं दशाक्षरा प्रोक्ता सिद्धये वाचमिच्छताम् ।। ७ ।। इति शारदातिलके सरस्वतीदशाक्षरमंत्रप्रयोगः

।। अथ एकादशाक्षरसरस्वतीमंत्रप्रयोगः ।। उक्तं च शारदातिलके ।। मंत्रो यथा हीं ऐं ह्रीं ॐ सरस्वत्यै नमः'' इत्येकादशाक्षरो मंत्रः । ॐ ॐ नमः ब्रह्मरंध्रे १ । ॐ ह्रीं नमः भ्रूमध्ये २ । ॐ ऐं नमः दक्षनेत्रे ३ । ॐ ह्लीं नमः वामनेत्रे ४ । ॐ ॐ नमः दक्षिण नासापुटे ५ । ॐ सं नमः वामनासापुटे ६ । ॐ रं नमः दक्षिणकर्णे ७ । ॐ स्वं नमः वामकर्णे ८ । ॐ त्यैं नमः मुखे ९ । ॐ नं नमः लिंगे १० । ॐ मं नमः गुदे ।। ९१ ।। इति मंत्राक्षरन्यासः ।। ॐ ऐं अंगुष्ठाभ्यां नमः १ । ॐ ऐं तर्जनीभ्यां नमः २ । ॐ ऐं मध्यमाभ्यां नमः ३। ॐ ऐं अनामिकाभ्यां नमः ४ । ॐ ऐं कनिष्ठिकाभ्यां नमः ५। ॐ ऐं करतलकरपृष्ठाभ्यां नमः ६ ।। इति करन्यासः ।। ॐ ऐं हृदयाय नमः १ । ॐ ऐं शिरसे स्वाहा २ । ॐ ऐं शिखायै वषट् ३ । ॐ ऐं कवचाय हुम् ४ । ॐ ऐं नेत्रत्रयाय वौषट् ५ । ॐ ऐं अस्त्राय फट् ६ ।। इति हृदयादिषडंगन्यासः ।। एवं न्यासविधिं कृत्वा ध्यायेत् ।। ॐ वाणीं पूर्णनिशाकरोज्ज्वलमुखीं कर्पूरकुंदप्रभां चन्द्रार्धांकितमस्तकां निजकरैः संविभ्रतीमादरात् ।। वीणामक्षगुणां सुधाढ्यकलशं विद्यां च तुंगस्तनीं दिव्यैराभरणै र्विभूषिततनुं हंसाधिरूढां भजे ।। १ ।। इति ध्यात्वा सर्वतोभद्रमंडले पीठपूजां विधाय पूर्वोक्तपीठशक्तीः संपूज्य स्वर्णादिनिर्मितं यंत्र मग्न्युत्तारणपूर्वकमासनमंत्रेणासनं दत्त्वा पीठमध्ये संस्थाप्य प्राणप्रतिष्ठां कृत्वा मूलेन मूर्तिं प्रकल्प्य पुनर्ध्यानावाहनादिपुष्पांतैरुपचारै संपूज्य देव्याज्ञां गृहीत्वा आवरणपूजां कुर्यात् ।। तत्र क्रमः-देव्या दक्षिणे ॐ संस्कृतायै नमः १ । ॐ वाङ्मय्यै नमः २ । वामे ॐ प्राकृताये नमः १ । ॐ वाग्गिमन्यै नमः २ । इति संपूज्य ततः षट्कोणकेसरेष्वग्न्यादिक्रमेण अग्निकोणे ॐ ऐं हृदयाय नमः १ नैर्ऋत्ये ॐ ऐं शिरसे स्वाहा २ । वायव्ये ॐ ऐं शिखायै वषट् ३ । ऐशान्ये ॐ ऐं कवचाय हुम् ४ । पूज्यपूजकयोर्मध्ये ॐ ऐं नेत्र त्रयाय वौषट ५ । देवीपश्चिमे ॐ ऐं अस्त्राय फट् ६ ।। इति षडंगानि पूजयेत् ।। ततः पुष्पांजलिमादाय मूलमुच्चार्य्य-ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।। भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ।। इति पठित्वा पुष्पांजलिं च दत्त्वा पूजितास्तर्पिताः संतु इति वदेत् ।। इति प्रथमावरणम् ।। १ ।। ततोऽष्टदले पूज्यपूजकयोरंतरालं प्राची तदनुसारेण अन्याः दिशः प्रकल्प्य प्राचीक्रमेण ॐ प्रज्ञायै नमः १ । ॐ मेधायै नमः २ । ॐ श्रुत्यै नमः ३ । ॐ शक्त्यै नमः ४ । ॐ स्मृत्यै नमः ५ । ॐ वागीश्वर्य्यै नमः ६ । ॐ मत्यै नमः ७ । ॐ स्वस्त्यै नमः ८ ।। इत्यष्टौ पूजयित्वा पुष्पांजलिं च दद्यात् ।। इति द्वितीयावरणम् ।। २ ।। ततोऽष्टदलाग्रेषु ॐ ब्राह्म्यै नमः १ । ॐ माहेश्वर्य्यै नमः २ । ॐ कौमार्य्यै नमः ३ । ॐ वैष्णव्यै नमः ४ । ॐ वाराह्यै नमः ५ । ॐ इन्द्राण्यै नमः ६ । ॐ चामुंडायै नमः ७ । ॐ महालक्ष्म्यै नमः ८ ।। इत्यष्टौ मातॄः पूजयित्वा पुष्पांजलिं दद्यात् ।।इति तृतीयावरणम्।।३।।ततो भूपुरे पूर्वादि क्रमेण इन्द्रादीन्वज्रादींश्च पूर्वोक्तविधिना पूजयेत् ।। इत्यावरणपूजां कृत्वा धूपादिनीराजनांतं संपूज्य जपं कुर्यात्।।अस्य पुरश्चरणं द्वादश लक्षजपः । जपशतांशेन सितांबुजैर्नागचंपकपुष्पैर्वा जुहुयात् । तत्तद्दशांशेन तर्पणमार्जनब्राह्मणभोजनानि कुर्यात् । एवं कृते मंत्रः सिद्धो भवति । सिद्धे मंत्रे मंत्री प्रयोगान् साधयेत् ।। तथा च- जपेद्द्वादशलक्षाणि तत्सहस्रं सितांबुजैः ।। नागचंपकपुष्पैर्वा जुहुयात्साधकोत्तमः ।। १ ।। इति संपूजयेद्देवीं साक्षाद्वाग्वल्लभो भवेत् ।। दशाक्षरीसमुक्तानि कर्माण्यत्रापि साधकः ।। २ ।। इत्येकादशाक्षरः सरस्वतीमंत्रप्रयोगः ।। अथैकादशाक्षरद्वितीयसरस्वतीमंत्रप्रयोगः ।।शारदायाम्।। मंत्रो यथा- ऐं वाचस्पतेऽमृते प्लवः प्लवः।'' इत्येकादशाक्षरो द्वितीयो मंत्रः । ॐ ऐं अगुष्ठाभ्यां नमः १ । ॐ वाचस्पते तर्जनीभ्यां नमः २ । ॐ अमृते मध्यमाभ्यां नमः ३ । ॐ प्लव अनामिकाभ्यां नमः ४ । ॐ प्लवः कनिष्ठिकाभ्यां नमः ५ । इति करन्यासः ।। ॐ ऐं हृदयाय नमः १ । ॐ वाचस्पते शिरसे स्वाहा २ । ॐ अमृते शिखायै वषट् ३ । ॐ प्लवः कवचाय हुं ४ । ॐ प्लव अस्त्राय फट् ५ ।। इति नेत्रहीनपंचागन्यासः ।। एवं न्यासविधिं कृत्वा ध्यायेत् । ॐ आसीना कमले करैर्जपवटीं पद्मद्वयं पुस्तकं बिभ्राणा तरुणेन्दुबद्धमुकुटा मुक्तेन्दुकुंदप्रभा ।। भालोन्मीलित लोचना कुचभराक्रांता भवद्भूतये भूयाद्वागधिदेवता मुनिगणैरासेव्यमानाऽनिशम् ।। १ ।। इति ध्यायेत् । अस्य पूजादिकं सर्वं पूर्ववत् ।

अस्य पुरश्चरणमेकादशलक्षजपः । तथा च - रुद्रलक्षं जपेन्मंत्रं दशांशं जुहुयाद्घृतैः ।। पलाशकुसुमैर्हुत्वा परां सिद्धिमवाप्नुयात् ।। १ ।। कदंबकुसुमैस्तद्वत्फलैः श्रीवृक्षसंभवैः ।। अचिराच्छ्रियमाप्नोति वाचां कुंदसमुद्भवैः ।। २ ।। नद्यावर्तप्रसूनैर्वा हुत्वा वाग्वल्लभो भवेत् ।।। ब्राह्मीरसे वचाकल्के कपिलाज्यं पिबेज्जपन ।। ३ ।। पिबेद्दिनादौ तन्नित्यं सर्वशास्त्रार्थविद्भवेत् ।। अनया विद्यया जप्तब्राह्मीपत्रप्रभक्ष णात् ।। ४ ।। न विस्मरति मेधावी श्रुत्वा वेदागमान्पुनः ।। बहुना किमियं विद्या जपतां कामदो मणिः ।। ५ ।। इत्येकादशाक्षरद्वितीय सरस्वतीमंत्रप्रयोगः ।। अथ सरस्वतीमंत्रः ।। प्राकृतग्रंथे '' ॐ ह्रीं श्रीं ऐं वाग्वादिनि भगवति अर्हन्मुखनिवासिनि सरस्वति ममास्ये प्रकाशं कुरु कुरु स्वाहा ऐं नमः ' इति अस्य प्रयोगः ।। दीपमालिकारात्रौ स्नानं कृत्वा श्वेतवस्त्रे परिधाय उदङ्मुख उपविश्य सर स्वत्याः श्वेतमूर्तिं तंडुलोपरि संस्थाप्य पंचोपचारैः संपूज्य श्वेतस्फटिकमालामादाय द्वादशसहस्रजपं कुर्यात् तेन देवी प्रसन्ना भवति, जाड्यं नाशयति विद्यां ददातीति ।। अथ एकाक्षरसरस्वतीमंत्रविधानम् ।। मंत्रो यथा, (ऐं) इति स्वरूपम् ।। अस्य विधानम्-सूर्यग्रहे मधुना कुशमूलेन जिह्वायां ( ऐं) इति बीजं विलिख्य तदवलिह्य स्पर्शादारभ्य मोक्षपर्यतं जपं कुर्यात् । पुनः प्रति दिनमब्दपर्यंतं तदेकादशशतजपात् देवी प्रसन्ना भवति जाड्यं नाशयति विद्यामवश्यमेव ददातीति ।।