सविता savitaa

सवितृ

१. अजा मल्हा गर्भिणी सवित्रे प्रसवित्रे । मै २,६,१३ ।

२. अथ यत्र ह तत् सविता सूर्याम् प्रायच्छत् सोमाय राज्ञे । यदि वा प्रजापतेः । तत् सहस्रम् अन्वाकरोद् दुहित्र ऊह्यमानायै ।कौ १८,१

३.असावादित्यो देवः सविता। माश ६,३,१,१८।।

४. असौ वै सविता यो ऽसौ (सूर्य्यः) तपति । कौ ७, ६; गो २,१,२० ।

५. आ सवꣳ सवितुः (हुवे )। काठ ४०,१४ ।

किं स्विद् आहुर् भोः सवितुर् वरेण्यं भर्गो देवस्य कवयः किम् आहुः। धियो विचक्ष्व यदि ताः प्रवेत्थ प्रचोदयात् सविता याभिर् एतीति। तस्मा एतत् प्रोवाच -- वेदांश् छन्दांसि सवितुर् वरेण्यम् भर्गो देवस्य कवयो ऽन्नम् आहुः। कर्माणि धियस् तद् उ ते प्रब्रवीमि प्रचोदयात् सविता याभिर् एतीति। गो० १।१ । ३२

६. उष्णमेव सविता। गो १.१.३३

मन एव सविता वाक् सावित्री यत्र ह्य् एव मनस् तद् वाग् यत्र वै वाक् तन् मन इति एते द्वे योनी एकं मिथुनम् अग्निर् एव सविता पृथिवी सावित्री यत्र ह्य् एवाग्निस् तत् पृथिवी यत्र वै पृथिवी तद् अग्निर् इति एते द्वे योनी एकं मिथुनम् वायुर् एव सवितान्तरिक्षं सावित्री यत्र ह्य् एव वायुस् तद् अन्तरिक्षं यत्र वा अन्तरिक्षं तद् वायुर् इति एते द्वे योनी एकं मिथुनम् आदित्य एव सविता द्यौः सावित्री यत्र ह्य् एवादित्यस् तद् द्यौर् यत्र वै द्यौस् तद् आदित्य इति एते द्वे योनी एकं मिथुनम् चन्द्रमा एव सविता नक्षत्राणि सावित्री यत्र ह्य् एव चन्द्रमास् तन् नक्षत्राणि यत्र वै नक्षत्राणि तच् चन्द्रमा इति एते द्वे योनी एकं मिथुनम् अहर् एव सविता रात्रिः सावित्री यत्र ह्य् एवाहस् तद् रात्रिर् यत्र वै रात्रिस् तद् अहर् इति एते द्वे योनी एक मिथुनम् उष्णम् एव सविता शीतं सावित्री यत्र ह्य् एवोष्णं तच् छीतं यत्र वै शीतं तद् उष्णम् इति एते द्वे योनी एकं मिथुनम् अभ्रम् एव सविता वर्षं सावित्री यत्र ह्य् एवाभ्रं तद् वर्षं यत्र वै वर्षं तद् अभ्रम् इति एते द्वे योनी एकं मिथुनम् विद्युद् एव सविता स्तनयित्नुः सावित्री यत्र ह्य् एव विद्युत् तत् स्तनयित्नुर् यत्र वै स्तनयित्नुस् तद् विद्युद् इति एते द्वे योनी एकं मिथुनम् प्राण एव सवितान्नं सावित्री यत्र ह्य् एव प्राणस् तद् अन्नं यत्र वा अन्नं तत् प्राण इति एते द्वे योनी एकं मिथुनम् वेदा एव सविता छन्दांसि सावित्री यत्र ह्य् एव वेदास् तच् छन्दांसि यत्र वै छन्दांसि तद् वेदा इति एते द्वे योनी एकं मिथुनम् यज्ञ एक सविता दक्षिणाः सावित्री यत्र ह्य् एव यज्ञस् तद् दक्षिणा यत्र वै दक्षिणास् तद् यज्ञ इति एते द्वे योनी एकं मिथुनम् – गो १.१.३३

७. एकचक्रेण सविता रथेनोर्जोभागं पृथिव्या यात्यापृणन् । मै २,७,१२

८. एताभिर्वं (रात्रिभिः) सविता सर्वस्य प्रसवमगच्छत् । तां २४,१५,२ ।

९. एष वै सविता य एष (सूर्यः) तपति । माश ३,२,३,१८, ४,४,१,३, ५,३,१,७ ।

१०. तत्सवितुर्वरेण्यमित्याह प्रसूत्यै । तैसं १,५,८,४

११. तद्वै सुपूतं यं देवः सवितापुनात् । माश ३,१,३,२२ ।

१२. तस्मात् ( सविता ) हिरण्यपाणिरिति स्तुतः । कौ ६,१३; गो २,१,२।

१३. तस्य ( सवितुः ) पाणी प्रचिच्छेद ( रुद्रः )। (देवाः) तस्मै हिरण्मयौ ( पाणी ) प्रत्यदधुः (प्रतिदधुः कौ.)। कौ ६,१३; गो २,१,२।

१४. वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे ।

विश्वं ह्यस्यां भुवनं आविवेश तस्यां देवः सविता धर्मं साविषत् ॥ मै १,११,१

१५. दातारमद्य सविता विदेय यो नो हस्ताय (नक्षत्राय) प्रसुवाति यज्ञम् । तै ३,१,१,९

१६. देवस्य सवितुर्हस्तः (नक्षत्रम्)। प्रसवः परस्तात्सनिरवस्तात् । तै १,५,१,३

१७. देवो वः सविता (+उत् [काठ.1) पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । काठ १, ५; क १,५।

१८. देवो वः सविता हिरण्यपाणिः प्रतिगृह्णातु । तैसं १,१,५,३ ।

१९. वायुरसि प्राणो नाम सवितुराधिपत्येऽपानं मे दाः। तैसं ३,३,५,१ ।

२०. संवत्सरस्य सवितुः, आदित्यस्य स्थाने स्वतेजसा भानि । तैआ १,१५,९ ।

२१. स ( सविता) एतꣳ सवित्रे हस्ताय पुरोडाशं द्वादशकपालं निरवपद् आशूनां ( षष्टिदिनैः शीघ्रं पच्यमानानां ) व्रीहीणाम् । ततो वै तस्मै ( सवित्रे) श्रद्देवा अदधत। सविताभवत् । तै ३,१,४,११

२२. आ विश्वदेवꣳ सत्पतिꣳ सूक्तैर् अद्या वृणीमहे । सत्यसवꣳ सवितारम् ।। तैसं ३,४,११,२

२३. स यदात्मना कुर्यान्न तन्मन्येताहमिदं करोमीति, सविता मेऽसावीदित्येव तन्मन्येत, यद्धि वै कल्याणं तदस्मै सविता प्रसवति नास्मै पापं सविता प्रसुवते यमेवं विद्वानुपनयते । काठसंक ४८-४९ : १,२ ।

२४. सविताऽघशꣳसात् (पातु)। तैसं १,६,३,१ ।

२५. सविता प्राजनयत् । तै १,६,२,२।

२६. सविता प्रासुवत् प्रजननाय । मै १,१०,५ ।

२७. सविता भृत्याम् ( अभिध्यातः ) । तैसं ४,४,९,१; काठ ३४,१४ ।

२८. सवितारं पुच्छेन ( प्रीणामि )। तैसं ५,७,१५,१; काठ ५३,५ ।

२९. सविता ( श्रियः ) राष्ट्रम् ( आदत्त )। माश ११,४,३,३ ।

३०. सविता वै देवानां प्रसविता। जै २,३७१; जैउ ३,४,४,३; माश १,१,२,१७ ।

३१. सविता वै प्रसविता। कौ ६,१४ ।

३२. सविता ऽसि सत्यसवः। तैसं १,८,१६,१; मै २,६,१२, ४,४,६ ।

३३. सविता सुमेधाः । तैसं २,४,५,२।।

३४. सविता स्तोमैः ( सहागच्छतु )। मै १,९,२,८; काठ ९,१०; क ४८,३; तैआ ३,८,१। ३५. सविता हिरण्यपाणिः। मै १,१,७ ।

३६. सवितुः पञ्चमी। तैसं ५,७,२२,१; काठ ५३,१२ ।

३७. सवित्रे त्वर्भुमते विभूमते वाजवते बृहस्पतिवते विश्वदेव्यावते स्वाहा । मै ४,९,८

३८. सवित्रे द्वादशकपालः (चरुः)। काठ १५,९ ।

३९. सवित्रे प्रसवित्रे सतीनानामष्टाकपालं (निर्वपेत् )। मै २,६,६ ।

४०. सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालं तिसृधन्वꣳ शुष्कदृतिर्दक्षिणा । तैसं १,८,१९,१ ।

४१. सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालमाशूनां व्रीहीणाम् । तैसं १,८,१०,१।

५६. स्तनयित्नुरेव सविता । जैउ ४, १२,१,९ ।

अग्निरेव सविता पृथिवी सावित्री १ स यत्राग्निस्तत्पृथिवी यत्र वा पृथिवी तदग्निः ते द्वे योनी तदेकम्मिथुनम् २ कस्सविता का सावित्री वरुण एव सविता आपस्सावित्री ३ स यत्र वरुणस्तदापो यत्र वापस्तद्वरुणः ते द्वे योनी तदेकम्मिथुनम् ४ कस्सविता का सावित्री वायुरेव सविता आकाशस्सावित्री ५ स यत्र वायुस्तदाकाशो यत्र वाकाशस्तद्वायुः ते द्वे योनी तदेकम्मिथुनम् ६ कस्सविता का सावित्री यज्ञ एव सविता छन्दांसि सावित्री ७ स यत्र यज्ञस्तच्छन्दांसि यत्र वा छन्दांसि तद्यज्ञः ते द्वे योनी तदेकम्मिथुनम् ८ कस्सविता का सावित्री स्तनयित्नुरेव सविता विद्युत्सावित्री ९ स यत्र स्तनयित्नुस्तद्विद्युद्यत्र वा विद्युत्तत्स्तनयित्नुः ते द्वे योनी तदेकम्मिथुनम् १० कस्सविता का सावित्री आदित्य एव सविता द्यौस्सावित्री ११ स यत्रादित्यस्तद्द्यौर्यत्र वा द्यौस्तदादित्यः ते द्वे योनी तदेकम्मिथुनम् १२ कस्सविता का सावित्री चन्द्र एव सविता नक्षत्राणि सावित्री १३ स यत्र चन्द्र स्तन्नक्षत्राणि यत्र वा नक्षत्राणि तच्चन्द्रः ते द्वे योनी तदेकम्मिथुनम् १४ कस्सविता का सावित्री मन एव सविता वाक्सावित्री १५ स यत्र मनस्तद्वाग्यत्र वा वाक्तन्मनः ते द्वे योनी तदेकम्मिथुनम् १६ कस्सविता का सावित्री पुरुष एव सविता स्त्री सावित्री स यत्र पुरुषस्तत्स्त्री यत्र वा स्त्री तत्पुरुषः ते द्वे योनी तदेकम्मिथुनम् १७ जैउ ४, १२,१

५७. फल्गुनी नक्षत्रम् भगो देवता हस्तो नक्षत्रꣳ सविता देवता - तैसं ४, ४, १०, २; मै २, १३, २० ॥

तृ अग्नि- ११२; अभ्र- ३; अहन्- ३; आतिछन्दस- १; आदित्य- ३४; ८६; ३७७; आहुति- १४; उत्तरतस् ८; १४; उत्तरात् २; ८; ११; उदीची २९, ३०; उपभृत्- ६; ऋभुमत्-; काम- २३; गायत्र- ९,२४,४५, चक्षुस्- ७२; चन्द्र ४; दिश्- ७१; दीक्षा- ८; देव- २६४; ध्रुवा- ९; पङ्क्ति - ३२, पशु- १९१; पुच्छ २; पुरुष-- ५४; पृथिवी- ६९; प्रजापति- १६५; १८१; २३४; २८८; प्रतीची- ११; १२; ३१; प्रसव- २, ३; प्रसूति-; प्राण- ९५, २०२; ३०९; बृहस्पति- ५,२१,४२; ब्रह्मन्- ८४; मनस्- ३२,५८; यकृत्-; यज्ञ- ९६; रश्मि- १७; राष्ट्र- १५ वरुण- २८; वायु- १५,६६; विद्युत्- १३; १वेद- १९; वैराज- ८; वैरूप- ९; श्री- २१; संवत्सर- ८३ द्र.] ।

सविता

सविता वै देवानां प्रसविता । श० १ । १ । २ । १७ ॥ जै० उ० ३।१८। ३॥

सविता वै प्रसविता । कौ० ६ । १४ ॥ ,

सविता वै प्रसवानामीशे । ऐ० १ । ३०॥ ७ । १६॥

सविता प्रसवानामीशे । कौ० ५। २ ॥

एताभिर्वे (रात्रिभिः) सविता सर्वस्य प्रसवमगच्छत् । तां० २४ । १५ । २

आदित्य एव सविता । गो० पू० १ । ३३ ॥ जै० उ० ४।२७॥११॥

असावादित्यो देवः सविता । श०६।३।१ । १८॥

असौ वै सविता यो ऽसौ ( सूर्यः) तपति । कौ० ७।६॥ गो० उ० १ । २०॥

एष वै सविता य एष (सूर्यः ) तपति । श०३।२।३।१८॥ ४।४।१।३॥ ५।३

अग्निरेव सविता । जै० उ०४ । २७ । १ ॥ गो० पू० १॥३३॥

यो ह्येव सविता स प्रजापतिः । श० १२ । ३।५ । १॥ गो० पू०५। २२ ॥

प्रजापतिर्वै सविता । तां० १६ । ५ । १७ ॥

प्रजापतिः सविता भूत्वा प्रजा असृजत । तै०१।६।४।१॥

सविता प्राजनयत् । तै० १।६।२।२॥

वरुण एव सविता । जै० उ० ४ । २७ । ३॥

विद्युदेव सविता । गो० पू० १ । ३३॥

स्तनयित्नुरेव सविता । जै० उ० ४ । २७ । ९॥

वायुरेव सविता । गो० पू० १। ३३ ॥ जै० उ०४।२७ । ५ ॥

(यजु० ३८ । ८) अयं वै सविता यो ऽयं (वायुः ) पवते । श०१४।२।२।९॥

चन्द्रमा एव सविता । गो० पू० १ । ३३ ॥

चन्द्र एव सविता । जै० उ० ४ । २७ । १३॥

यज्ञ एव सविता । गो० पू० १ ३३ ॥ जै० उ०४ । २७ ! ७ ॥

इयं (पृथिवी) वै सविता । श० १३ । १ । ४ । २॥ तै०३। ९।१३।२॥

अब्भ्रमेव सविता । गो० पू० १ ॥ ३३॥

वेदा एव सविता । गो० पू० १ । ३३ ॥ ,

अहरेव सविता । गो० पू० १ । ३३ ॥

पुरुष एव सविता । जै० उ० ४ । २७ । १७ ॥

पशवो वै सविता । श०३।२।३।११॥

प्राणो वै सविता । ऐ० १ । १९ ॥

प्राण एव सविता श० १२ । ९ । १।१६॥ गो० पू०१॥ ३३॥

प्राणो ह वाऽ अस्य सविता । श०४।४।१।५ ।।

मनो वै सविता । श०६।३।१ । १३, १५ ॥

मन एव सविता । गो० पू०१ । ३३॥ जै० उ०४।२७।१५ ॥

मनो ह वाऽ अस्य सविता । श०४।४।१।७॥

मनः सावित्रम् । कौ० १६ । ४॥

हृदयमेवास्यैन्द्रः पुरोडाशः। यकृत् सावित्रः। क्लोमा वारुणः। श० १२ । ९ । १ । ३

पूर्ववयसमैन्द्रेण। मध्यमवयसं सावित्रेण। उत्तमवयसं वारुणेन। - श० १२ । ९ । १ । ८

हृदयमेवेन्द्रः। यकृत् सविता। क्लोमा वरुणः । श० १२ । ९ । १ । १५

सविता ( श्रियः) राष्ट्रम् (आदत्त)। श० ११ । ४ । ३।३॥ ,

सविता राष्ट्रं राष्ट्रपतिः । तै० २।५ । ७।४॥ श० ११ ।४।३।१४॥ ,

तस्मात् (सविता) हिरण्यपाणिरिति स्तुतः। कौ०६॥ १३ ॥ गो० उ०१।२॥ ,

उष्णमेव सविता । गो० पू० १ । ३३ ॥

( सविता) रश्मिभिर्वर्षं ( समदधात् )। गो० पू० १ । ३६ ॥

तद्वै सुपूतं यं देवः सवितापुनात् । श०३।१ । ३ । २२॥

देवस्य सवितुर्हस्तः ( नक्षत्रम् ) । तै० १ । ५ ।१।३॥

दातारमद्य सविता विदेय यो नो हस्ताय ( नक्षत्राय ) प्रसुवाति यज्ञम् । तै० ३।१।१।९॥

स ( सविता) एतं सवित्रे हस्ताय पुरोडाशं द्वादशकपालं निरवपदाशूनां (=षष्टिदिनैः शीघ्रं पच्यमानानां ) व्रीहीणाम्। ततो वै तस्मै ( सवित्रे) श्रद्देवा अदधत । सविताभवत् । तै०३।१।४।११॥

सावित्रं द्वादशकपालं वाष्टाकपालं वा पुरोडाशं निर्वपति । श० । ५। ३।१।७॥ ।

अथ सावित्रः । द्वादशकपालो वाष्टाकपालो वा पुरोडाशो भवति । श०२।५।१।१०॥

सावित्रः पञ्चकपालः (पुरोडाशः )। तां० २१ । १० । २३ ॥

(वायुः ) यदुत्तरतो वाति । सवितैव भूत्वोत्तरतो वाति । तै०२।३।।। ७॥ ,

(हे देवा यूयं ) सवित्रोदीचीं (दिशं प्रजानाथ)! ऐ० १।७॥ .

तस्मादुत्तरतः पश्चादयं भूयिष्ठं पवमानः (वायुः ) पवते सवितृप्रसूतो ह्येष एतत्पवते । ऐ० १ । ७॥

उदीचीमेव दिशम् पथ्यया स्वस्त्या ....प्राचीमेव दिशम् । अग्निना ....दक्षिणामेव दिशम् सोमेन ....प्रतीचीमेव दिशम् सवित्रा प्राजानन्नेष वै सविता य एष तपति तस्मादेष प्रत्यङ्ङेति प्रतीचीं ह्येतेन दिशं प्राजानन्प्रतीची ह्येतस्य दिक्। ऊर्ध्वामेव दिशम् । अदित्या प्राजानन्नियं – श ३.२.३.[१८]

प्रतीचीमेव दिशं सवित्रा प्रजानन् । श०३।२।३।१८ ॥

स ( सविता ) प्रतीची दिशं प्राजानात् । कौ० ७॥ ६॥

सवितृप्रसूतं वा इदमन्नमद्यते । कौ० १२॥ ८॥ ,

सावित्र्युपभृत् । तै० ३ । ३।७।६॥

अथ यत्र ह तत्सविता सूर्यां प्रायच्छत्सोमाय राज्ञे । कौ० १८.१

प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत्सूर्यां सावित्रीम् । ऐ०४।७॥

सवित-नेत्र- पश्चात्सदः ( देवाः ) सवितृनेत्राः। तैसं १,८,७,१ ।

सवितृ-प्रसूत

१. सवितृप्रसूतं वा इदमन्नमद्यते। कौ १२,८ ॥

२. सवितृप्रसूताः पशवः प्रजायन्ते । क ४४,७ ॥

[°त- प्रजा- १०३; वायु-२८ द्र.]।

सवितृ-मुख- त्रयस्त्रिंश- १४ द्र.।

सावित्र

१. अथ सावित्रः द्वादशकपालो वाष्टाकपालो वा पुरोडाशो भवति । माश २,५,१,१० । २. अधोरामः (श्वेतकृष्णोदरः पशुः) सावित्रः। मै ४,७,८; काठ ४८,१।

३. एष वाव स सावित्रः । य एष ( सूर्य्यः ) तपति। तै ३,१०,९,१५ ।

४. शितिरन्ध्रोऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस्ते सावित्राः । मै ३,१३,३ ।

५. स यदेते देवते अन्तरेण तत्सर्वꣳ सीव्यति । तस्मात् सावित्रः (वायुरूपोऽग्निः )।

तै ३,१०,११,७।।

६. सावित्रः पञ्चकपालः ( पुरोडाशः )। तां २१,१०,२३ ।

७. सावित्रं द्वादशकपालम् (पुरोडाशं निर्वपति )। तैसं १,८,२,१;४,२ ।

८. सावित्रं द्वादशकपालं वाष्टाकपालं वा पुरोडाशं निर्वपति ...तस्य श्येतोऽनड्वान् दक्षिणा...श्येत इव ह्येष ( सविता ) उद्यंश्चास्तं च यन् भवति । माश ५,३,१,७ । ९. सावित्रमष्टाकपालं ( पुरोडाशं निर्वपेत् )। काठ ११,२ ।

१०. सावित्रं ( पयः ) प्रणीयमानम् । मै १,८,१० ।

११. सावित्रो द्वादशकपालः ( पुरोडाशः)। मै १,१०,१; २,६,१३; काठ ९,४; क ८,७ । १२. सावित्रोऽष्टाकपालः ( पुरोडाशः )। मै १,१०,१; काठ ९,४; १५,२; क ८,७ ।

१३. सावित्रोऽष्टाकपालो, गायत्रो हि देवानाꣳ सविता । काठ ३६, ५।

[ - आदित्य- २०१ कृकवाकु-; क्षत्तृ- १,३,४; प्रसव- १; मनस्- ४१; श्येत- द्र.] । सावित्र-ग्रह- तृतीयसवन- ४८; प्राण- २०४ द्र. ।

सावित्री ( ऋच-)

१. एतां गायत्रीमेव सावित्रीम ( ऋचम् ) अनुब्रूयात् ( उपनीयमानाय ब्रह्मचारिणे )। माश ११, ५, ४, १३

२. नक्षत्राणि सावित्री। गो १,१,३३; जैउ ४,१२,१,१३ ।

३. यो वा एतां सावित्रीमेवं वेदा३ ऽपमृत्युं तरति सावित्र्या एव सलोकतां जयति। जैउ

४,१२, २, ६।

४ शीतं सावित्री । गो १,१,३३ ।

५. स्तनयित्नुः सावित्री । गो १, १, ३३ ।

६. स्त्री सावित्री। जैउ ४, १२, १, १७ ।

[त्री- अन्तरिक्ष- ३७; अन्न- ६०; अप्- ७४; आकाश- १; उपभृत्- १२; छन्दस्- ५०; २दक्षिणा- १७; दिव्- १०९; पृथिवी- १३७; प्रजापति- १६६; ब्रह्मचारिन्- २; रात्रि- ३१; लोक- ३७; वर्ष, - १; वाच- ५९; विद्युत्९, १वेद- २६; सर्ववेदछन्दस्- द्र.] ।