सङ्कल्प
प्रतिज्ञासंकल्प-
दाहिने हाथ में त्रिकुश, तिल, जल लेकर पूर्वाभिमुख हो निम्न रीति से संकल्प करे-
ॐविष्णुर्विष्णुर्विष्णुः नमः परमात्मने पुरुषोत्तमाय ॐ तत्सत् अद्यैतस्य विष्णोराज्ञया जगत्सृष्टिकर्मणि प्रवर्तमानस्य ब्रह्मणो द्वितीयपरार्द्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे तत्प्रथमचरणे जम्बूद्वीपे भारतवर्षे भरतखण्डे ...क्षेत्रे ( यदि काशी हो तो अविमुक्तवाराणसीक्षेत्रे गौरीमुखे त्रिकण्टकविराजिते महाश्मशाने भगवत्या उत्तरवाहिन्या भागीरथ्या वामभागे) बौद्धावतारे...संवत्सरे उत्तरायणे/दक्षिणायने...ऋतौ ...मासे...पक्षे...तिथौ...वासरे ...गोत्रः ...शर्मा/वर्मा/गुप्तोऽहम् ...गोत्रस्य मम पितुः ...शर्मणः/वर्मण:/गुप्तस्य शास्त्रोक्तफलप्राप्त्यर्थं सांवत्सरिकैकोद्दिष्टश्राद्धं करिष्ये। - अन्त्येष्टिकर्म श्राद्धप्रकाश (गीताप्रेस, गोरखपुर)
वर्तमानकाले संकल्पग्रहणं, यथा देशसेवासंकल्पः, सामान्य आचारः अस्ति। किन्तु कर्मकाण्डे एवं नास्ति। संकल्पस्य उपरोक्त वचनस्य पुनरावृत्तिः कर्मकाण्डस्य आरम्भे क्रियमाणा अस्ति। अत्र आरम्भे विष्णुशब्दस्य त्रिरावृत्तिः अस्ति, तत्पश्चात् कल्प, संवत्सर, ऋतु आदि कालस्य अवयवानां उल्लेखः अस्ति। विष्णुशब्दस्य या त्रिरावृत्तिः अस्ति, तस्य उदाहरणं अन्यत्र न लभ्यते। वैदिकवाङ्मये त्रिभिः पदेभिः विष्णोः चंक्रमणं प्रसिद्धः अस्ति ( इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम्। समूढमस्य पांसुरे ॥ त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः। अतो धर्माणि धारयन्॥ - ऋ. १.२२.१८)। अन्यत्र कथनमस्ति यत् मर्त्यस्तरे विष्णोः द्वे क्रमणे ज्ञातौ स्तः, तृतीयः क्रमणं गुह्यः अस्ति (द्वे इदस्य क्रमणे स्वर्दृशोऽभिख्याय मर्त्यो भुरण्यति। तृतीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः॥ ऋ. १.१५५.०५)। पुराणेषु बलिनिग्रह आख्याने प्रसिद्धमस्ति यत् वामनः विष्णुः एकेन पदेन पृथिवीलोकं मापयति, द्वितीयेन अन्तरिक्षं। तृतीयेन पदेन सः बलेः ब्रह्मरन्ध्रस्य स्फोटं करोति येन विष्णोः पदाङ्गुष्ठेन गंगायाः प्रादुर्भावं भवति(नारदपुराणम् १.११.१७९ , देवीभागवतपुराणम् ८.७.१२)। अयं संकेतमस्ति यत् साधनाकाले पदाङ्गुष्ठतः ब्रह्मरन्ध्रपर्यन्तं गङ्गायाः प्रवाहः अपेक्षितमस्ति। तृतीयस्य पदस्य या व्याख्या पुराणेषु उपलब्धा अस्ति, तत् वैदिकवाङ्मये अन्यत्र नास्ति। मैत्रायणी संहितायां व्याख्या अस्ति - यदोदनपचने ऽधिश्रित्याथ गार्हपत्ये ऽथाहवनीये ऽधिश्रयत्येतद्वाव तत् त्रिर्विष्णुर्विक्रमते । मै ४, १, १२॥
संकल्पस्य आरंभे विष्णोः शब्दस्य उल्लेखं संकेतः अस्ति यत् संकल्पस्य पूर्तिः तदैव संभवमस्ति यदा विष्णोः गुणानां अवतरणं व्यवहारे भवेत्। विष्णोः कानि गुणानि सन्ति। विष्णुः ३२ लक्षणेभिः युक्तः अस्ति। एते एव ३२ लक्षणानि चक्रवर्ती राज्ञः लक्षणानि अपि भवन्ति( लोके ये बुद्धाः अवतरन्ति, न ते समग्र ३२ लक्षणेभिः युक्ताः भवन्ति)। विष्णुः चतुर्हस्तेषु शंख, चक्र, गदा, पद्मं धारयति।
संकल्पमन्त्रे विष्णोः शब्दस्य आवृत्यानन्तरं कालस्य अवयवानां उल्लेखः अस्ति।अयं प्रतीयते यत् अयं मन्त्रः देशकालस्य प्रतीकः अस्ति। आधुनिक भौतिकविज्ञाने देशकालः(स्पेस – टाइम) लोकप्रियः अस्ति, किन्तु तस्य आध्यात्मिकप्रतीकः नास्ति। संकल्पमन्त्रे प्रथमतः देशस्य सिद्धिः अस्ति, तदनन्तरं कालस्य। कालस्य देवता रुद्रः अस्ति। विष्णुपुराणे १.२.१८ कथनमस्ति - व्यक्तं विष्णुस्तथाव्यक्तं पुरुषः काल एव च ।...अव्यक्तं कारणं यत्तत्प्रधानमृषिसत्तमैः । अर्थात् यत् व्यक्तमस्ति, तत् विष्णुः अस्ति। यः अव्यक्तमस्ति, तत् कालः अस्ति। साधारणशब्देषु, यः विष्णुः अस्ति, तत् क्षेत्रः अस्ति। तस्मिन् क्षेत्रे बीजवपनस्य यः कृत्यमस्ति, तत् रुद्रस्य अथवा कालस्य अथवा अव्यक्तपुरुषस्य अस्ति। एवंप्रकारेण, संकल्पस्य पूर्तिः भवति। कालस्य अवयवानां यः उल्लेखः अस्ति, तस्य साम्यं आधुनिक विज्ञाने टेलीफोन उपरि संदेशप्रेषणतः अस्ति। टेलीफोन उपरि यः संदेशः प्रेषितः भवति, तत् स्वगन्तव्यं जनं एव प्राप्यति, न अन्यं। प्रश्नमस्ति – ईश्वरतः यः संदेशः प्रेषितः भवति, तत् व्यक्तिकेन्द्रितः भवति अथवा समष्टिकेन्द्रितः। अनुमानमस्ति यत् प्रकृत्यां अयं प्रेषणं समष्टिकेन्द्रितः भवति। व्यष्टिकरणाय विशिष्ट साधनायाः आवश्यकता भवति। अस्य पूर्तिः संकल्पमन्त्रेण क्रियमाणा अस्ति।
ब्रह्माण्डे यः दिक् अथवा देशः अस्ति, पृथिवी तस्य एकः अंशः अस्ति। जौन गोवान अनुसारेण पृथिव्याः यः गुरुत्वाकर्षणबलमस्ति, तत् सूर्यस्य रश्मीनां अपि आकर्षणं करोति, तेषां रश्मीनां ब्रह्माण्डे निर्बाधप्रसरणं बाधितं करोति। रश्मीनां प्रसरणतः ब्रह्माण्डे एण्ट्राप्यां, अव्यवस्थायां वृद्धिः भवति। अयं संकेतमस्ति यत् पृथिवीतः, देशतः अपेक्षा अस्ति यत् सा गौरूपा भवेत्, रश्मीनां आकर्षणे शतप्रतिशत सक्षमा भवेत्।
स्कन्दपुराणे ३.१.४९.३० नीलः रामेश्वरस्य स्तुतिं एवंप्रकारेण करोति - यद्देशकालदिग्भेदैरभिन्नं सर्वदा द्वयम् ।। तस्मै रामेश्वरायास्मै नमोऽभिन्नस्व रूपिणे ।।
अत्र देश एवं कालतः व्यतिरिक्तं दिक् शब्दः अपि अस्ति।
संदर्भाः
आकूत्यै प्रयुजे ऽग्नये स्वाहा मेधायै मनसे ऽग्नये स्वाहा... वा.सं. ४.७
यज्ञं करिष्यामीत्येवंविधो मानसः संकल्प आकूतिः तस्यै तत्संपूर्त्यै ।- महीधरभाष्यम्
सङ्कल्पो वाव मनसो भूयान्यदा वै सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥
तानि ह वा एतानि सङ्कल्पैकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि समकॢपतां द्यावापृथिवी समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च तेजश्च तेषाँ सङ्कॢप्त्यै वर्षँ सङ्कल्पते वर्षस्य सङ्कॢप्त्या अन्नँ सङ्कल्पतेऽन्नस्य सङ्कॢप्त्यै प्राणाः सङ्कल्पन्ते प्राणानाँ सङ्कॢप्त्यै मन्त्राः सङ्कल्पन्ते मन्त्राणाँ सङ्कॢप्त्यै कर्माणि सङ्कल्पन्ते कर्मणां सङ्कॢप्त्यै लोकः सङ्कल्पते लोकस्य सङ्कॢप्त्यै सर्वँ सङ्कल्पते स एष सङ्कल्पः सङ्कल्पमुपास्स्वेति ॥ २ ॥
स यः सङ्कल्पं ब्रह्मेत्युपास्ते सङ्कॢप्तान्वै स लोकान्ध्रुवान्ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावत्सङ्कल्पस्य गतं तत्रास्य यथाकामचारो भवति यः सङ्कल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः सङ्कल्पाद्भूय इति सङ्कल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ छा.उ. ७.४.३ ॥
स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ १ ॥
अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ २ ॥
अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ३ ॥
अथ यदि स्वसृलोककामो भवति सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ४ ॥
अथ यदि सखिलोककामो भवति सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ५ ॥
अथ यदि गन्धमाल्यलोककामो भवति सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ॥ ६ ॥
अथ यद्यन्नपानलोककामो भवति सङ्कल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ७ ॥
अथ यदि गीतवादित्रलोककामो भवति सङ्कल्पादेवास्य गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो महीयते ॥ ८ ॥
अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ९ ॥
यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ छाउ ८.२.१० ॥
अस्य संसारवृक्षस्य मनोमूलमिदं स्थितम् ।
संकल्प एव तन्मन्ये संकल्पोपशमेन तत् ॥ ३७॥
शोषयाशु यथा शोषमेति संसारपादपः ।
उपाय एक एवास्ति मनसः स्वस्य निग्रहे ॥ ३८॥
मनसोऽभ्युदयो नाशो मनोनाशो महोदयः ।
ज्ञमनो नाशमभ्येति मनो ज्ञस्य हि शृङ्खला ॥ मुक्तिकोपनिषत् ३९॥
संकल्पमात्रकलनेन जगत्समग्रं
संकल्पमात्रकलने हि जगद्विलासः ।
संकल्पमात्रमिदमुत्सृज निर्विकल्पमाश्रित्य मामकपदं हृदि भावयस्व ॥वराहोपनिषत् २.४५॥
प्रस्तुतिर्वां धाम न प्रयुक्तिरयामि मित्रावरुणा सुवृक्तिः । अनक्ति यद्वां विदथेषु होता सुम्नं वां सूरिर्वृषणावियक्षन् ॥ ऋ. १.१५३.२
प्रस्तुतिः – संकल्पः – सायणभाष्य
कन्या स्नानाचमने कृत्वा देशकालौ संकीर्त्य वैधव्यहरं महाविष्णुमूर्तिदानं करिष्य इति संकल्प्य गणेशं संपूज्य..संस्काररत्नमाला १.१२.
संकल्पो वैष्णवो योऽयं मणीन् सूत्रमिवास्थितः ।। तदनन्तारमव्यक्तं महच्चक्रं सुदर्शनम्। भावितं स्मृतिमात्रेण भावयत्यखिला गतीः ।। अहिर्बुध्न संहिता 9.35 ।।
यो जिहीर्षामयो नित्यः संकल्पो वैष्णवः परः। अनन्तारमपर्यन्तं तत्संहृतिसुदर्शनम् ।। एक एव तु संकल्पो रूपैर्नानोपगीयते। अनन्तमपरिच्छेद्यमप्रमेयमनूपमम् ।। अहिर्बुध्नसंहिता 9.37 ।।
प्रभवे चाप्यये वापि स्थितौ वापि महामुने।
चलत्तापूर्वरूपं यः संकल्पस्तत्र वर्तते ।। 9.41 ।।
चलनं नाम तच्चक्रं सुदर्शनमयं महत्। - अहिर्बुध्न संहिता ९.४२
शुक्तिशङ्खाश्महस्तैश्च कांस्यरूप्यादिभिस्तथा ।
सङ्कल्पो नैव कर्त्तव्यो मृण्मयेन कदाचन ।
गृहीत्वौदुम्बरं पात्रं वारिपूर्णं गुणान्वितम् ।
दर्भत्रयं साग्रमूलं फलपुष्पतिलान्वितम् ।
जलाशयारामकूपे सङ्कल्पे पूर्वदिङ्मुखः ।
साधारणे चोत्तरास्य ऐशान्यां निक्षिपेज्जलम्
भविष्यपु० २.२.१७.४२