सरयू

सरयू

बृहद्देवता २.१० कथयति यत् या पुरोदयात् उषा अस्ति, सा सायंकाले वृषाकपायि, सरण्यू अस्ति। पुराणेषु सरयू पश्चिमवाहिनी अस्ति(पश्चिमदिशायाः अधिपतिः वरुणः भवति)। ब्रह्माण्डपुराणे २.३.५१.६५ उल्लेखः अस्ति यत् असमंजसः अयोध्यानिवासिबालकान् सरय्वां, सरयूमध्ये निमज्जति। अयं संकेतमस्ति यत् व्यवहारे यत्किंचित् संशयात्मकं अस्ति, तत् सर्वं सरयूमध्ये निमज्जनीयमस्ति। तत् संस्काराणां सृजनं करोति। वर्तमानकाले तस्याः संज्ञा अवचेतनं अस्ति। केन कारणेन अयोध्यायाः स्थितिः सरयूतीरे अस्ति। अ-योध्या अर्थात् कोपि ग्रन्थिः यस्याः विस्रंसनं , विग्रथनं युद्धतः, क्षत्रियबलतः संभवं नास्ति। अत्र शरण्युः, कृपायाः आवश्यकता अस्ति।

अथर्ववेदे १०.२.३१ अयोध्यायाः प्रतिनिधिमन्त्राः एते सन्ति –

अष्टाचक्रा नवद्वारा देवानां पूरयोध्या ।

तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥३१॥

तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते ।

तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥३२॥

प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् ।

पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥३३॥

पुराणेषु यत्र यत्र सरयोः नद्योः उल्लेखाः सन्ति, तेषां केन्द्रबिन्दवः एते मन्त्राः एव सन्ति, प्रायः अयोध्या प्रत्यक्षरूपेण न दृष्टिगोचरा भवति। पुराणेषु कथनमस्ति यत् कोपि त्रैककुदांजनं पर्वतं अस्ति यस्य पादे मानसरोवरः अस्ति। तस्मात् सरोवरात् सरयू नदी प्रभवति। सरयोः तीरे यक्षाणां विभ्राजवनं अस्ति यस्य अधिपतिः कुबेरः अस्ति इत्यादि।

डा. फतहसिंहः कथयति यत् तुलसीदासकृत रामचरितमानसे अयोध्यायाः संज्ञा अवधः अस्ति। यदा रामः रावणस्य वधः करोति, तदनन्तरं एव अयोध्यायाः संज्ञा अयोध्या अस्ति।

संदर्भाः

उत त्या तुर्वशायदू अस्नातारा शचीपतिः ।

इन्द्रो विद्वाँ अपारयत् ॥४.३०.१७

उत त्या सद्य आर्या सरयोरिन्द्र पारतः ।

अर्णाचित्ररथावधीः ॥४.३०.१८

मा वो रसानितभा कुभा क्रुमुर्मा वः सिन्धुर्नि रीरमत्।

मा वः परि ष्ठात्सरयुः पुरीषिण्यस्मे इत्सुम्नमस्तु वः॥ ५.०५३.०९

सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तु वक्षणीः ।

देवीरापो मातरः सूदयित्न्वो घृतवत्पयो मधुमन्नो अर्चत ॥१०.६४.९

पुरोदयात्तामुषसं सूर्यां मध्यंदिने स्थिते ।। ९ । ।

वृषाकपायीं सूर्यस्य तामेवाहुस्तु निम्रुचि ।

तस्याश्रये सरण्यूश्च भगः पूषा वृषाकपिः ।। बृहद्देवता २.१० ।।

स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः ।

सरण्युभिः फलिगमिन्द्र शक्र वलं रवेण दरयो दशग्वैः ॥ १.६२.४

सरण्युभिः सरणं शोभनां गतिमिच्छद्भिः

फलिगम् । प्रतिफलं प्रतिबिम्बम् । तदस्मिन्नस्तीति फलि स्वच्छमुदकम् । तद्गच्छति आधारत्वेनेति फलिगः ।