sahasra

सहस्रम्

नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वस्वित्युत्तमया परिदधाति संवत्सरो वै समस्तः सहस्रवांस्तोकवान्पुष्टिमान्संवत्सरमेव तत्समस्तं कल्पयति संवत्सरं समस्तमप्येति। ऐ.ब्रा. २.४१

अथैषा सहस्रतमी, तां यद् दद्याद् रिच्येतानु गर्भाश् शुष्येयुर्, यन् न दद्याद् ऊनम् अस्य सहस्रं दत्तं स्यात्।…..तत् तत् कलां वानु सहस्रम् इयात्। कलावानु सहस्रं……ऊर्णासूत्रम् उ वै गोः किञ्चचिद् इव दत्तम् अस्य सहस्रं भवति, नात्मना रिच्यते। – जै २.२५७

द्विपाद्वा एष पशुर्यत्पुरुषस्तं मा हिंसीरित्येतत्सहस्राक्षो मेधाय चीयमान इति हिरण्यशकलैर्वा एष सहस्राक्षो मेधाय – माश ७.५.२.३२

सर्वम् वै तद् यत् सहस्रम् । सर्वम् प्रातर् अनुवाकः । तत् सर्वेण सर्वम् आप्नोति य एवम् वेद । तद् उ ह स्म आह कौषीतकिः । प्रजापतिर् वै प्रातर् अनुवाकः । अपरिमित उ वै प्रजापतिः । । कौ० ११ । ७

सर्वम् वै तद् यत् सहस्रम् । सर्वम् विश्वजित् । तत् सर्वेण सर्वम् आप्नोति य एवम् वेद । कौ २५ । १४

सहस्रे ग्रहीतव्यः । सर्वं वै सहस्रं सर्वमेष सर्ववेदसे ग्रहीतव्यः सर्वं वै सर्ववेदसं सर्वमेष विश्वजिति सर्वपृष्ठे ग्रहीतव्यः सर्वं वै विश्वजित्सर्वपृष्ठः सर्वमेष वाजपेये राजसूये ग्रहीतव्यः सर्वं हि तत्सत्त्रे ग्रहीतव्यः सर्वं वै सत्त्रं सर्वमेष एतानि ग्रहणानि – माश. ४.६.१.[१५]

सहस्रम्भरः शुचिजिह्वो अग्निरिति सर्वं वै सहस्रं सर्वम्भरः॥ माश ६।४।२। ७ ॥ ,

तेन परमः पशुः सहस्रपोषम्पुषेयमित्याशिषमेवैतदाशास्ते भूमा वै सहस्रं भूमानं गच्छानीत्येवैतदाह। श० ३।३।३। ८ ।।

अथैष सर्वज्योतिः सर्वस्याप्तिः सर्वस्य जितिः सर्वमेवैतेनाप्नोति सर्वं जयति

परमो वा एष यज्ञः परमं सहस्रं परमतां गच्छति य एवं वेद । तां० १६।९।२

सोऽब्रवीदिन्द्रो यावदेवायं विष्णुस्त्रिर्विक्रमते तावदस्माकमथ युष्माकमितरदिति स इमाँल्लोकान्विचक्रमेऽथो वेदानथो वाचं तदाहुः किं तत्सहस्रमितीमे लोका इमे वेदा अथो वागिति ब्रूयाद्। ऐ० ६॥ १५

शताय स्वाहेत्याह । शतायुर्वै पुरुषः शतवीर्यः । आयुरेव वीर्यमवरुन्धे । सहस्राय स्वाहेत्याह । आयुर्वै सहस्रम् ।। तै० ३।८। १५ । ३ ॥ ३॥ ८॥ १६॥ २ ॥

उक्थो भवति पशवो वा उक्थानि पशवः सहस्रं। तां० १६। १० । १२

सहस्रम्भरः

एषा ह वाऽ अस्य (अग्नेः ) सहस्रम्भरता यदेनमेकं सन्तं बहुधा विहरन्ति । ऐ० १ । २८ ॥

सहस्रयोजनम् ( यजु० १६ । ५४ ॥ ) अयमग्निः सहस्रयोजनम् । श०

९। १ । १।२९ ॥ ,,

एतद्ध परमं दूरं यत्सहस्रयोजनम् । श० ९ । १ ।१।२८॥ ।

सहस्रवर्तनि साम वै सहस्रवर्त्तनि ( सहस्रवर्त्मा सामवेदः-इति

पातञ्जलमहाभाष्यस्य अ० १ पा० १ प्रथमाह्निके ) ।

ष० १ ॥ ४ ॥

सहस्रवांस्तोकवान्पुष्टिमान् ( ऋ० ३। १३ । ७ ) संवत्सरो वै समस्तः

सहस्रवांस्तोकवान्पुष्टिमान् । ऐ० २। ४१ ॥

आत्मा वै समस्तः सहस्रवांस्तोकवान्पुष्टिमान् । ऐ० २। ४० ॥

सहस्रस्य प्रतिमां विश्वरूपमिति पुरुषो वै सहस्रस्य प्रतिमा पुरुषस्य ह्येव सहस्रं भवति श० ७।५।२। १७

सहस्रियो वाजः ( यजु० १२ । ४७ ) आपो वै सहस्रियो वाजः । श०

७।१।१।२२॥