सालङ्कायन

शालङ्कायन – मूषिका कथा (काकोलूकीयम्, कथा 11)

कथानुसारेण शालङ्कायन ऋषिः सूर्योपस्थान हेतु जाह्नवीतटे गच्छति एवं तत्र श्येनः मूषिकां पादबद्धं करोति। ऋषिः मूषिकां श्येनात् विमुञ्चति एवं मूषिकां कन्यारूपे कृत्वा स्वगृहे पालयति। कालान्तरेण यौवनप्राप्ते कन्यायाः विवाहहेतु ऋषिः सूर्यं आह्वयति। कन्या सूर्यस्य तेजतः त्रस्त भूत्वा तं पतिं न करोति। तदा सूर्यः पति हेतु मेघस्य प्रस्तावं करोति। मेघस्य कृष्णत्वं जडत्वं च दृष्ट्वा कन्या तमपि अस्वीकरोति। तत्पश्चात् मेघोप्युत्कृष्टतरः वायुः आगच्छति, तत्पश्चात् वायुतोपि उत्कृष्टतरः पर्वतः आगच्छति, ततः पर्वतोपि उत्कृष्टतरः मूषकः आगच्छति यः पर्वतेषु भेदनं करोति। मूषिका तेन सह विवाह कर्तुं स्वस्य पूर्वरूपं मूषिकारूपं करोति।

सूर्योपस्थान कृत्यस्य एवं जाह्नव्या उल्लेखं कृत्वा कथाकारेण सर्वाणि सूत्राणि प्रदत्तानि सन्ति। शालङ्कायन ऋषिः विश्वामित्र कुलोद्भवमस्ति –

कतानाम् वैश्वामित्र कात्य आत्कील इति । अघमर्षणानाम् वैश्वामित्र आघमर्षण कौशिक इति । रेणूनाम् वैश्वामित्र गाथिन रैणव इति । वेणूनाम् वैश्वामित्र गाथिन वैणवइति । शालङ्कायन शालाक्ष लोहित अक्ष लोहित जह्नूनाम् वैश्वामित्र शालङ्कायन कौशिक इति । - आश्वलायन श्रौत सूत्र 12.14.6

विश्वामित्रस्य कार्यं चतुर्दिक प्रगति अस्ति, न वसिष्ठ सदृशं ऊर्ध्वमुखी प्रगति।

शुक्लयजुर्वेदानुसारेण सूर्योपस्थाने ये मन्त्राः सन्ति, ते एवं सन्ति -

ॐ उद्वयन्तमसस्प्परि स्वः पश्श्यन्तऽ उत्तरम् ॥ देवन्देवत्र

सूर्य्य्मगन्न्मज्ज्योतिरुत्तमम् ॥

उदुत्त्यञ्जातवेदसन्देवं व्वहन्ति केतवः ॥ दृशेव्विश्श्वायसूर्य्यम् ॥

ॐ चित्रन्देवानामुदगादनीकं चक्षुर्म्मित्रस्य व्वरुणस्याग्ग्नेः ॥

आप्प्रा द्यावापृथिवीऽ अन्तरिक्षं सूर्य्यऽआत्मा

जगतस्तस्थुषश्च ॥

ॐ तच्चक्षुर्द्देवहितम्पुरस्ताच्छुक्रमुच्चरत् ॥

पश्श्येम शरदः शतञ्जीवेम शरदः

शतं शृणुयाम शरदः शतम्प्रब्ब्रवाम शरदः शतमदीनाः

स्याम शरदः शतम्भूयश्श्च्च शरदः शतात् ॥

उपरोक्त यजुर्वेदस्य प्रथम उपस्थान मन्त्रस्य सामवेद रूपः अयं(आरण्यक गानं) प्रतीयते –

कथायाः अभिगमने सूर्योपस्थान कृत्यस्य वैदिक स्रोतं विचारणीयं अस्ति। सोमयागे यदा सर्वे प्रवर्ग्याः समाप्तानि भवन्ति, तदोपरि प्राग्वंश स्थित आहवनीये उपस्थानं कुर्वन्ति। अयं कृत्यः शालामुखीयोपस्थानं इति संज्ञा धार्यते। अत्र प्रथमतः गार्हपत्ये उदु त्यं जातवेदसं इति एवं चित्रं देवानामुदगादनीकं इति मन्त्राणां उच्चारणं भवति।तदनन्तरं शालामुखीय संज्ञा धारक आहवनीये उपतिष्ठन्ति। तत्पश्चात् उत्तरवेद्याः मापनं आरम्भं भवति। अथान्नतरं उत्तरवेदी हेतु शालामुखीय संज्ञक आहवनीय अग्नेः संज्ञा गार्हपत्यः भविष्यति। अस्मिन् खरे स्थितस्य रुद्रस्य संज्ञा अज एकपात् भवति। अत्र अयं उल्लेखनीयः यत् शाला शब्दस्य किं प्रयोजनमस्ति। पुराणानुसारेण शाला कल्पवृक्षस्य रूपं भवितुं अर्हति। वयं यं यं कामयन्ते, तत् – तत् शालातः प्राप्तव्यः।

पंचतन्त्रस्य कथामध्ये श्येन – मूषिका कथनस्य किं प्रयोजनमस्ति। सूर्योपस्थानात् पूर्वं रात्रिकाले सर्वं पृथिवीव्यापारं, देहव्यापारं च अग्न्योपरि आधारितं भवति। यदा सूर्यस्योदयनं भवति, तदा देहव्यापाराः सूर्यानुसारेण वर्तिष्यन्ति। वास्तविक सूर्योदयः बुद्धत्व प्राप्ति पूर्वं संभवं नास्ति। यदा सूर्योदयः भवति, तदा देहस्य पूर्व व्यापाराः, ये अग्न्याधारिताः भवन्ति, किं ते त्याजनीयाः अथवा सूर्यस्य एवं अग्नेः व्यापाराः सहैव घटिष्यन्ति। ये अग्नेः व्यापाराः, तेषां प्रकृति मूषक प्रकारस्य अस्ति। मूषकः पृथिव्याः अग्नि रूपी रसं जानाति, तं आस्वादयति, किन्तु तस्मिन् कृत्ये न तस्य दक्षता एवं भवति यत् व्यवस्थायाः संरक्षणमपि भवेत्। वयं दैनिक जीवने यानि रसानि आस्वादयामः, सा चौर्यमेव भवति। न वयं रसानां उत्पादकाः। ये रसाः पूर्वमेव उपलब्धाः सन्ति, तेषां आस्वादनेन वयं आनन्दं अनुभवामः। कथानुसारेण यदा सूर्यस्य उदयं भविष्यति, तदोपरि काले अपि अयं मूलभूत वृत्तिः त्याज्यं न भवति।

प्रवर्ग्य – उपसद कृत्ये यथा – यथा प्रवर्ग्यानां संख्या वर्धयति, तथा – तथा अग्नेः प्रकृति अपि परिवर्तनं करोति। आरम्भिक उपसदेषु मन्त्रं भवति – या ते अग्ने अयः शया। तदोपरि रजःशया, तदोपरि हरःशया।

या ते अग्ने ऽयाशया रजाशया हराशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।

उग्रं वचो अपावधीं त्वेषं वचो अपावधीम्̇ स्वाहा ॥ - तै.सं. 1.2.11.2

यदा शालामुखीयोपस्थान कृत्यं भवति, तदानीं अग्नेः प्रकृति हरिः प्रकारस्य भवति।

काशकृत्स्न धातुपाठे(भ्वादिगण, संख्या 494) शालकि धातु चलने अर्थे अस्ति। चल अर्थात् न स्थिरम्। अयं स्थितिः अव्यवस्था उत्पादक स्थितिः, एण्ट्रोपेः वर्धन स्थितिः अस्ति। अतएव, सामान्य रूपेण नायं वांछित स्थितिः अस्ति। शालङ्कायन शब्दस्य मूलं अयं शालकि धातुरस्ति। पंचतन्त्रस्य कथायां शालंकायनः मूषिकायाः पालकः, तस्य वर्धनकर्ता अस्ति। यदा श्येनः मूषिकां खादितुं इच्छति, तदा शालङ्कायनः तस्य निषेधं करोति। श्येनः अर्थात् व्यवस्था प्रति उन्मुख प्रवृत्तिः। वराह पुराणस्य कथायाम् शालङ्कायन ऋषिः शिलामध्ये विष्णु, शिवस्य अवतारणं हेतु तपः करोति। अपि च, तस्य अवतरणस्य प्रसारणम् प्रत्येक दिशायां करोति। शब्दकल्पद्रुम कोशे हेमचन्द्रस्य उद्धरणं वर्तते यत्र शालङ्कायनजीवसूः अर्थं व्यासमाता सत्यवती क्रियते। अर्थात् शालङ्कायनः परोक्षरूपेण व्यासः भवति। शालङ्कायनस्य कः प्रवृत्तिः पठ्यते। सः दुर्गुणानां रूपान्तरणस्य विरोधी भवति। सः किं वांछति। यः दुर्गुणं अस्ति, यथा मूषकस्य प्रवृत्तिः मोषणस्य, चोरीकरणस्य भवति, तस्य रूपान्तरणम् न वांछनीयम्। अपितु तस्य दुर्गुण हेतु उपयुक्त कार्यं अन्वेषणीयम्। अयं सिद्धान्तः केषांचित् वैष्णव सम्प्रदायानां, यथा राधावल्लभ सम्प्रदायस्य आधारः भवति। न किमपि परिवर्तनीयं, केवलं दुर्गुणस्य सम्यक् उपयोगं करणीयं अपेक्षितं अस्ति। वसुधारा होमे यदा शिवस्य नाम्नां स्तेनाय नमः, स्तेनपतये नमः उच्चारणं भवति, तदा वयं विस्मिताः भवामः। पंचतन्त्रस्य कथायाम् मूषिका कन्या न दिवाकर सह विवाहं करोति, सा पर्वतस्य भेदनसमर्थस्य मूषक सह विवाहं करोति। पर्वतः अर्थात् शिला। मूषक प्रवृत्ति कथं शिलायाः भेदनं कर्तुं समर्थः, अयं अन्वेषणीयम्। यज्ञेषु आखुकरीषस्य उपयोगं भवति। कथनं अस्ति, यत् आखुः पृथिव्याः रसं जानाति। सः तं रसं मृदारूपेण पृथिव्याः उपरि स्थापितं करोति।

पुराणेषु लङ्का शब्दस्य का व्युत्पत्तिरस्ति, अयं न स्पष्टः भवति। एकः संभावना अस्ति यत् शालंक शब्दतः श वर्णस्य लोपात् लङ्का शब्दः भविष्यति।

कतानाम् वैश्वामित्र कात्य आत्कील इति । अघमर्षणानाम् वैश्वामित्र आघमर्षण कौशिक इति । रेणूनाम् वैश्वामित्र गाथिन रैणव इति । वेणूनाम् वैश्वामित्र गाथिन वैणवइति । शालङ्कायन शालाक्ष लोहित अक्ष लोहित जह्नूनाम् वैश्वामित्र शालङ्कायन कौशिक इति । - आश्वलायन श्रौत सूत्र 12.14.6

ऊनपूर्णानावृत्ताञ्छालंकायनिनः – द्राह्यायण श्रौतसूत्र 8.4.24

सालङ्कायन वराह १४४(सालङ्कायन ऋषि द्वारा तप, शिव को पुत्र रूप में प्राप्त करना, आमुष्यायण - गुरु), १४५(सालङ्कायन द्वारा शालग्राम में तप, शिव की पुत्र रूप में प्राप्ति), स्कन्द ७.१.२३.९८( चन्द्रमा के यज्ञ में शालङ्कायन के प्रतिप्रस्थाता होने का उल्लेख ), लक्ष्मीनारायण १.३४०( ), १.५५९.८८(अयोध्यापति सालङ्कायन के राज्य में अनावृष्टि, ७ चाण्डालों का तप से वर्जन, यज्ञ आदि), शालङ्कायनजीवसूः, स्त्री, व्यासमाता । यथा, -- “व्यासस्याम्बा सत्यवती वासवी गन्धकालिका । योजनगन्धा दासेयी शालङ्कायनजीवसूः ॥” इति हेमचन्द्रः ॥ saalankaayana/ salankayana

शालङ्कायन – मूषिका कथा (काकोलूकीयम्, कथा 11)

कथा के अनुसार शालङ्कायन ऋषि सूर्योपस्थान हेतु जाह्नवीतट पर जाते हैं और वहां देखते हैं कि एक श्येन मूषिका को अपने पदों में बांधकर ले जाना चाहता है। ऋषि ने उस मूषिका को श्येन से मुक्त कराया एवं मूषिका को कन्या बनाकर अपने घर में पालन किया। कालान्तर में कन्या के युवा होने पर उसके विवाह हेतु ऋषि सूर्य का आह्वान करते हैं। कन्या सूर्य के तेज से त्रस्त होकर सूर्य को अपना पति नहीं बनाती। तब सूर्य पति हेतु अपने से उत्कृष्टतर मेघ के नाम का प्रस्ताव करता है। मेघ के कृषणत्व व जडत्व को देखकर कन्या उसे भी अस्वीकार कर देती है। उसके पश्चात् मेघ से भी उत्कृष्टतर वायु आती है, उसके पश्चात् पर्वत, उसके पश्चात् पर्वत से भी उत्कृष्ट मूषक आता है जो पर्वत का भी भेदन कर देता है। मूषिका उसके साथ विवाह को राजी हो जाती है और अपना मूषिका का पूर्व रूप धारण करके उसके साथ विवाह कर लेती है।

सूर्योपस्थान कृत्य एवं जाह्नवी का उल्लेख करके कथाकार ने सब सूत्र प्रदान कर दिए हैं। शालंकायन ऋषि विश्वामित्र के कुल का है –

कतानाम् वैश्वामित्र कात्य आत्कील इति । अघमर्षणानाम् वैश्वामित्र आघमर्षण कौशिक इति । रेणूनाम् वैश्वामित्र गाथिन रैणव इति । वेणूनाम् वैश्वामित्र गाथिन वैणवइति । शालङ्कायन शालाक्ष लोहित अक्ष लोहित जह्नूनाम् वैश्वामित्र शालङ्कायन कौशिक इति । - आश्वलायन श्रौत सूत्र 12.14.6

विश्वामित्र का कार्य चतुर्दिक प्रगति करना है, वसिष्ठ की भांति ऊर्ध्वमुखी प्रगति करना नहीं।

शुक्लयजुर्वेदानुसारेण सूर्योपस्थाने जो मन्त्र हैं, वह यह हैं –

ॐ उद्वयन्तमसस्प्परि स्वः पश्श्यन्तऽ उत्तरम् ॥ देवन्देवत्र

सूर्य्य्मगन्न्मज्ज्योतिरुत्तमम् ॥

उदुत्त्यञ्जातवेदसन्देवं व्वहन्ति केतवः ॥ दृशेव्विश्श्वायसूर्य्यम् ॥

ॐ चित्रन्देवानामुदगादनीकं चक्षुर्म्मित्रस्य व्वरुणस्याग्ग्नेः ॥

आप्प्रा द्यावापृथिवीऽ अन्तरिक्षं सूर्य्यऽआत्मा

जगतस्तस्थुषश्च ॥

ॐ तच्चक्षुर्द्देवहितम्पुरस्ताच्छुक्रमुच्चरत् ॥

पश्श्येम शरदः शतञ्जीवेम शरदः

शतं शृणुयाम शरदः शतम्प्रब्ब्रवाम शरदः शतमदीनाः

स्याम शरदः शतम्भूयश्श्च्च शरदः शतात् ॥

यजुर्वेद के उपरोक्त उपस्थान के प्रथम मन्त्र का सामवेद का रूप निम्नलिखित हो सकता है(आरण्यक गान) –

कथा को समझने के लिए सूर्योपस्थान कृत्य का वैदिक स्रोत समझना उपयोगी होगा। सोमयाग में जब सब प्रवर्ग्य समाप्त हो जाते हैं तो उसके पश्चात् प्राग्वंश में स्थित आहवनीय पर उपस्थान करते हैं। यह कृत्य शालामुखीयोपस्थान कहलाता है। यहां प्रथमतः गार्हपत्य में उदु त्यं जातवेदसं इति एवं चित्रंदेवानामुदगादनीकं इति मन्त्रों का उच्चारण किया जाता है। तदनन्तर शालामुखीय संज्ञक आहवनीय पर उपस्थान करते हैं। तत्पश्चात् उत्तरवेदी का मापन आरम्भ होता है। उसके पश्चात् उत्तरवेदी हेतु शालामुखीय संज्ञक आहवनीय अग्नि की संज्ञा गार्हपत्य होगी। इस खर में स्थित रुद्र की संज्ञा अज एकपात् है। यहां यह उल्लेखनीय है कि शाला शब्द का क्या प्रयोजन है। पुराणों के अनुसार शाला कल्पवृक्ष का रूप होना चाहिए। हमारी जो जो भी कामना हो, वह सब शाला से पूरी होनी चाहिए।

पंचतन्त्र की कथा में श्येन –मूषिका कथन से क्या तात्पर्य हो सकता है। सूर्योपस्थान सेपूर्व रात्रिकालके सारे पृथिवीव्यापार, देहव्यापार अग्नि के ऊपर आधारित होते हैं। जब सूर्योदय होता है, तब देहव्यापार सूर्य के अनुसार होंगे। वास्तविक सूर्योदय तो बुद्धत्व प्राप्ति पर ही संभव है। जब सूर्योदय होगा, तब देह के सारे पूर्व व्यापार, जो अग्नि पर आधारित थे, क्या उनको त्याग दिया जाना चाहिए अथवा सूर्य एवं अग्नि दोनों के व्यापारों को सहयोगी रूप में घटित होना चाहिए। जो अग्नि के व्यापार हैं, वह मूषक प्रकृति के हैं। मूषक पृथिवी का अग्नि रूपी रस जानता है, उसका आस्वादन करता है,किन्तु उस कृत्य में उसकी इतनी दक्षता नहीं होती कि व्यवस्था, एण्ट्रांपी का संरक्षण भी हो जाए। हम अपने दैनिक जीवन में जिन रसों का आस्वादन करते हैं, वह चौर्य कर्म ही है। हम रसों के उत्पादक नहीं हैं। जो रस पूर्व ही उपलब्ध होते हैं, उनका आस्वादन कर हम आनन्द का अनुभव करतेहैं।कथा के अनुसार,जब सूर्य का उदय होगा, तो यह मूलभूत वृत्ति भी त्याज्य नहीं होनी चाहिए।

प्रवर्ग्य – उपसद कृत्य में जैसे – जैसे प्रवर्ग्यों की संख्या बढती है, वैसे वैसे ही अग्नि की प्रकृति में भी परिवर्तन होता जाता है। आरम्भिक उपसद का मन्त्र है – या ते अग्ने अयःशया। इसके पश्चात् रजःशया, फिर हरःशया।

या ते अग्ने ऽयाशया रजाशया हराशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।

उग्रं वचो अपावधीं त्वेषं वचो अपावधीम्̇ स्वाहा ॥ - तै.सं. 1.2.11.2

जब शालामुखीय उपस्थान कृत्य होताहै,उस समय अग्नि कीप्रकृति हरि प्रकार की होती है।

काशकृत्स्न धातु पाठ(भ्वादिगण, संख्या 494) में शालकिधातु चलने अर्थ मेंहै। चल अर्थात् स्थिर नहीं। यह स्थिति अव्यवस्थाउत्पन्न करनेवाली स्थितिहै, एण्ट्रांपी में वर्धन की स्थिति है। अतएव सामान्य रूप से यह वांछित स्थिति नहीं है। शालङ्कायन शब्द का मूल यह शालकि धातु है। श्येन अर्थात् व्यवस्थाके प्रति उन्मुख प्रवृत्ति। वराह पुराण की कथा में शालङ्कायन ऋषि शिला मध्य में विष्णु,शिव के अवतारण हेतु तप करता है। तथा उस अवतारण का प्रसार प्रत्येक दिशा में करता है। शब्दकल्पद्रुम कोश में हेमचन्द्र का उद्धरण है जहां शालङ्कायनजीवसूः का अर्थ व्यास –माता सत्यवती किया गया है। अर्थात् शालङ्कायन परोक्ष रूप में व्यास है।