सत्राजित् Satrajit

पुराणेषु सार्वत्रिकरूपेण कथनमस्ति यत् प्रसेनः एवं सत्राजितः निघ्नस्य पुत्रौ स्तः। हरिवंशपुराणे १.३८.१३ कथनमस्ति यत् प्रसेनः समुद्रतः स्यमन्तकमणेः प्राप्तिं करोति एवं सत्राजितः सूर्यतः। अयं प्रतीयते यत् प्रसेनः प्र श्येनस्य स्थितिः अस्ति। सः समुद्रतः स्यमन्तकस्य प्राप्तिं करोति। लोके समुद्रः पृथिवीं आवृणोति। वाजसनेयि संहितायां ५.३३ कथनमस्ति - स॒मु॒द्रो॒ऽसि वि॒श्वव्य॑चाअस्य उव्वटभाष्ये कथनमस्ति -

ब्रह्मासनम् ।

समुद्रोसि विश्वव्यचाः समुद्र इव त्वमसि सर्वव्यधनः तत्र हि समुद्र इवाऽगाधो ज्ञानेन ब्रह्मणि तिष्ठति । विश्वं च यज्ञं च व्यञ्चति कृताकृतप्रत्यवेक्षणेन । अतएव, ज्ञानादिरूपेण यः सर्वस्य देहस्य आवरकः अस्ति, तत् समुद्रः अस्ति। प्रसेनः (प्रश्येनः) श्येनइव तीव्रगत्या समुद्रस्य साधनां कर्तुं शक्यते। किन्तु कथनमस्ति यत् सिंहः प्रसेनस्य वधं करोति। अयं सिंहः अहंकारः प्रतीयते। सत्राजितः तीव्रगत्याः साधना नास्ति, अपितु क्रमिकरूपेण प्रगत्याः साधना अस्ति।

सत्र-

१. आत्मदक्षिणं ह खलु वै सत्रम्, लोमैव प्रथमाभ्यामुपसद्भयां स्पृण्वते त्वचं द्वितीयाभ्यां, मांसं तृतीयाभ्याम् अस्थि चतुर्थीभ्यां, मज्जानं पञ्चमीभ्यां यदेवैषां तत्र किं चास्पृतं भवति, तदेव षष्ठीभ्यां स्पृण्वते, शुद्धाः पूता मेध्याः शुचयो भूत्वा देवलोकमपियन्ति । जै २, ३७४ । [ तु. तैसं ७,४,९,१; कौ १५, १; तां ९,४, १९ २१ ।

२. एतं वा एते गच्छन्ति य एष ( आदित्यः) तपति ये सत्रमासते । काश ५,७,३,१ ।

३. एष ह वै कुणपमत्ति यः सत्रे प्रतिगृह्णाति । तैसं ७, २, १०, २ ।

४. तद् यत् सद् अत्रायत तत् सत्रस्य सत्रत्वम् । जै ३, ३११ ।

५. प्रजापतिर्वावैष सन्त्सद्ध वै सत्रेण स्पृणोति प्राणा वै सत्, प्राणानेव स्पृणोति । तैसं ७,२, ९, ३ ।

६. श्वस्तनं नो ऽसदिति वै सत्रमासते । जै ३,१७ ।

७. सद्वै सविणस्स्पृण्वन्ति, तत् सत्रस्य सत्रत्वं, प्राणा वै सत्, प्राणानेव तत् स्पृण्वन्ति, सर्वासां

वा एते प्रजानां प्राणैरासते ये सत्रमासते । काठ ३४,८ ।

८. सर्वं वै सत्रम् । माश ४, ६, १, १५ ।

९. सर्वान् लोकानहीनेन । अथो सत्रेण ( अभिजयति) । तै ३, १२,५,७ ।

१०. सुवर्गं वा एते लोकं यन्ति ये सत्रमुपयन्ति । तैसं ७,४,९, १ ।।

[ ऽ- द्वादशाह- ११ श्रद्धा- ४ ।

सत्रिन्- शिखा- १ द्र. ।

सत्रिय-

कमग्निं चिनुते । सत्रियमग्निं चिन्वानः । संवत्सरं प्रत्यक्षेण । तैआ १, २२, १० ।

सत्राजित्-विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते।

अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम्॥ २.०२१.०१

उदु त्ये मधुमत्तमा गिरः स्तोमास ईरते।

सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव॥ ८.००३.१५

एन्द्र नो गधि प्रियः सत्राजिदगोह्यः।

गिरिर्न विश्वतस्पृथुः पतिर्दिवः॥ ८.०९८.०४

एष गव्युरचिक्रदत्पवमानो हिरण्ययुः।

इन्दुः सत्राजिदस्तृतः॥ ९.०२७.०४

यत् ( देवा असुरान्) सत्राजयंस् तत् सत्राजितस् सत्राजित्त्वम् । जै २,९२


सत्राराज्- रक्षोहन्- ३ द्र. ।

सत्रासाहीय ( सामन्-)-

१. तद्यद् (इन्द्रः) सत्रा सर्वानसुरानसहत तत् सत्रासाहीयस्य सत्रासाहीयत्वम् । जै १, १८२ ।

२. यद्वा असुराणामसोढमासीत्तद्देवाः सत्रासाहीयेनासहन्त सत्रैनानसक्ष्महीति तत्सत्रासाही -

यस्य सत्रासाहीयत्वम् । तां १२,९,२१ ।

३. सत्रा भ्रातृव्यँ सहते सत्रासाहीयेन तुष्टुवानः । तां १२,९, १२ ।। [ य- जराबोधीय- ५ द्र. ।