सर्प sarpa
यज्ञेषु सर्पाणां उल्लेखं कुत्र भवति। शतपथब्राह्मणे ४.४.५.३ ऋजीषस्य संदर्भे कथनमस्ति - माहिर्भूर्मा पृदाकुरिति । असौ वा ऋजीषस्य स्वगाकारो यदेनदपोऽभ्यवहरन्त्यथैष एवैतस्य स्वगाकारो रज्जुरिव हि सर्पाः कूपा इव हि सर्पाणामायतनान्यस्ति वै मनुष्याणां च सर्पाणां च विभ्रातृव्यमिव नेत्तदतःसम्भवदिति तस्मादाह माहिर्भूर्मा पृदाकुरिति। सोमवल्लीतः रसस्य निष्पीडनोपरि यः तुषः भवति, तस्य संज्ञा ऋजीषः अस्ति। शतपथकारस्य कथनमस्ति यत् नीरसस्य ऋजीषस्य परिणतिः सर्परूपे न भवेत्। सर्पस्य आलयं कूपः भवति। अस्य परिहाराय ऋजीषस्य प्रवाहं जले कुर्वन्ति, येन ऋजीषः जलरूपी रसं गृह्णाति। व्यवहारे, अयं संकेतमस्ति यत् यः कार्यः नीरसः अस्ति, तत्र सर्पः एव चरम परिणतिः अस्ति। किन्तु, अथर्ववेदे ४.६.६ कथनमस्ति - अरसस्त इषो शल्योऽथो ते अरसं विषम् । अत्र विषस्यापि अरसकरणेन किं तात्पर्यमस्ति, विचारणीयः। अपिच, उल्लेखमस्ति - सर्वे ते वध्रयः कृता वध्रिर्विषगिरिः कृतः ॥ आधुनिकचिकित्साविज्ञाने विषस्य वध्रीकरणं अश्वस्य देहे विषस्य प्रविष्टीकरणेन भवति। साधारणजीवेषु विषस्य वध्रीकरणं चिरकालेन भवति, अश्वस्य देहे त्वरितगत्या।
यागेषु एकः हस्ताकारः आयुधः उपवेशः भवति(मै ४.१.१३)। गार्हपत्याग्नितः अंगाराणां ग्रहणं उपवेशे कृत्वा तेषां मोचनं उत्करसंज्ञके गर्ते कुर्वन्ति। कथनमस्ति यत् अयं कार्यं अग्नेः सर्पणं अस्ति, एवं सर्पस्य आयतनं उत्करः एव अस्ति। यागे यत्किंचित् अनुपयोगी भवति, तस्य त्यागं उत्करे कुर्वन्ति। उत्करस्य चरमपरिणतिः वल्मीकः, वम्रीणां आयतनमस्ति। प्रसिद्धमस्ति यत् सर्पाणां आयतनं वल्मीकः अस्ति। परोक्षरूपेण, वर्मः कवचः भवति। भगवन्नामभिः देहोपरि कवचस्य निर्माणं भवति। व्यवहारे सर्पस्य परिणतिः कवचरूपे केन प्रकारेण भविष्यति, अन्वेषणीयः। उत्कलशब्दोपरि टिप्पणी पठनीयः अस्ति। उत्करस्य चरमपरिणतिः उत्कले, पुरुषोत्तमक्षेत्रे भवति।
पुराणेषु यः सर्पाणां राजा वासुकिः अस्ति, यज्ञेषु सः ग्रावस्तुत्संज्ञकः अर्बुदकाद्रवेयः सर्पः अस्ति(माश १३.४.३.९)। यागेषु सोमस्य अथवा अन्नस्य शोधनाय उलूखल-मुसलादि ग्रावाणः सन्ति, ते अस्य अर्बुदकाद्रवेयस्य विशःरूपाः सन्ति। अनुमानमस्ति यत् अर्बुदकाद्रवेयः मनसः रूपमस्ति, ग्रावाणः प्राणस्य। किन्तु यज्ञेषु ये उलूखलमुसलादयः ग्रावाणः भवन्ति, तेषां गतिः ऊर्ध्वाधोमुखी भवति, सर्पाणां गतिः तिर्यक् गतिः भवति। स्कन्दपुराणे ७.३.१ अर्बुदक्षेत्रस्य माहात्म्यं वर्णितमस्ति यस्यारम्भः उत्तंकऋषेः आख्यानतः भवति। तक्षकसर्पेण हृतयोः कुण्डलयोः प्राप्त्यै उत्तंकः भूम्यां विवरं करोति यस्मिन् वसिष्ठस्य नन्दिनी धेनुः पतति। तस्याः उद्धरणाय प्रथमतः सरस्वती तं विवरं स्वजलेन पूरयति। अनन्तरं नन्दिवर्धन एवं अर्बुदाचलौ तं पूरयतः। सोमयागे सत्रस्य आरम्भे एवं अवसाने उत्करे सुब्रह्मण्या आह्वानं कृत्यं भवति(षड्विंशब्राह्मणम् १.१)। अस्मिन् आह्वाने निहवः अस्ति – .. अहल्यायै जार। कौशिकब्राह्मण गौतमब्रुवाण। एवंप्रकारेण, अस्मिन् निहवे वसिष्ठस्य उल्लेखं नास्ति, कौशिकविश्वामित्रस्य अस्ति। सोमयागे माध्यन्दिनसवने यदा ग्रावस्तुत् ऋत्विक् आर्बुदीनां ऋचां (ऋ. १०.९४) उच्चारणं करोति, तदा तस्य अक्षिभ्यां विषस्य प्रसरणं भवति। यदा आर्बुदीनां ऋक्षु ऐरावतादि अन्यासां ऋचां मेलनं कुर्वन्ति, तदैव विषस्य प्रसरणस्य रोधं भवति। अस्मिन् प्रकरणे अयं उल्लेखनीयं अस्ति यत् सर्पविषस्य रोधनाय वसिष्ठः पर्याप्तं नास्ति, विश्वामित्रस्य अपि आवश्यकता भवति। वसिष्ठस्य तपः ऊर्ध्वायां दिशि अस्ति, विश्वामित्रस्य चतुर्दिक्षु।
कथासरित्सागरे ८.३.७७ कथनमस्ति यत् चक्रवर्तीसम्राट् सर्पस्य रूपान्तरं धनुष एवं इषुधीरूपे कर्तुं शक्नोति( तत्क्षणं प्रतिपेदे स भुजगस्तूणरत्नताम् । मूर्ध्निं सूर्यप्रभस्यापि पुष्पवृष्टिर्दिवोऽपतत् ।।)
पुराणेषु सार्वत्रिकआख्यानमस्ति यत् नहुषः शच्याः प्राप्त्यै सप्तर्षिवाहितशिबिकया गच्छति। सः अगस्त्यं पदा ताडयति एवं चोदयति – सृप, सृप। तदा शापवशात् सः सर्पः भवति। पर्वतस्य संज्ञा अगः भवति, न गच्छति इति। अगस्त्यः – अगस्य स्त्यानम्, विस्तारम्। अयं विस्तारः पापनाशाय भवति। नागशब्दस्य निरुक्तिः न-अगः रूपे संभवः अस्ति। नहुषः अस्य विस्तारस्य उपयोगं क्षुद्रलाभाय कर्तुं इच्छति। अतएव, सर्पस्य गतिः ऊर्ध्वमुखी न भवति, अपितु तिर्यक् भवति।
संदर्भाः -
सर्पानुसर्प पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥२.२४.४॥
शुचा विद्धा व्योषया शुष्कास्याभि सर्प मा ।
मृदुर्निमन्युः केवली प्रियवादिन्यनुव्रता ॥३.२५.४॥(कामस्येषुः)
यस्याञ्जन प्रसर्पस्यङ्गमङ्गं परुष्परुः ।
ततो यक्ष्मं वि बाधस उग्रो मध्यमशीरिव ॥४.९.४॥
उत यो द्यामतिसर्पात्परस्तान् न स मुच्यातै वरुणस्य राज्ञः ।
दिव स्पशः प्र चरन्तीदमस्य सहस्राक्षा अति पश्यन्ति भूमिम् ॥४.१६.४॥
कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्याः ।
वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ॥४.२०.७॥
यो अन्तरिक्षेण पतति दिवं यश्च अतिसर्पति ।
भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय ॥४.२०.९॥(ओषधि)
एकं रजस एना परो अन्यदस्त्येना पर एकेन दुर्णशं चिदर्वाक्।
तत्ते विद्वान् वरुण प्र ब्रवीम्यधोवचसः पणयो भवन्तु नीचैर्दासा उप सर्पन्तु भूमिम् ॥५.११.६॥
यो अक्ष्यौ परिसर्पति यो नासे परिसर्पति ।
दतां यो मध्यं गच्छति तं क्रिमिं जम्भयामसि ॥५.२३.३॥
अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः ।
विषं ह्यस्यादिष्यथो एनमजीजभम् ॥७.५८.५॥
मा सं वृतो मोप सृप ऊरू माव सृपोऽन्तरा ।
कृणोम्यस्यै भेषजं बजं दुर्णामचातनम् ॥८.६.३॥
द्व्यास्याच्चतुरक्षात्पञ्चपदादनङ्गुरेः ।
वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात्॥८.६.२२॥
ये सूर्यात्परिसर्पन्ति स्नुषेव श्वशुरादधि ।
बजश्च तेषां पिङ्गश्च हृदयेऽधि नि विध्यताम् ॥८.६.२४॥
वराहो वेद वीरुधं नकुलो वेद भेषजीम् ।
सर्पा गन्धर्वा या विदुस्ता अस्मा अवसे हुवे ॥८.७.२३॥
गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।
दृष्टान् अदृष्टान् इष्णामि यथा सेनाममूं हनन् ॥८.८.१५॥
सोदक्रामत्सा सर्पान् आगच्छत्तां सर्पा उपाह्वयन्त विषवत्येहीति ।
तस्यास्तक्षको वैशालेयो वत्स आसीदलाबुपात्रं पात्रम् ।
तां धृतराष्ट्र ऐरावतोऽधोक्तां विषमेवाधोक्।
तद्विषं सर्वा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२९॥ {२९}
तद्यस्मा एवं विदुषेऽलाबुनाभिषिञ्चेत्प्रत्याहन्यात्॥८.१४.३०॥
य ऊरू अनुसर्पत्यथो एति गवीनिके ।
यक्ष्मं ते अन्तरङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥९.१३.७॥
या गुदा अनुसर्पन्त्यान्त्राणि मोहयन्ति च ।
अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥९.१३.१७॥
ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः ।
येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥१०.४.२३॥
शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः ।
अदुः प्रजां बहुलां पशून् नः पक्तौदनस्य सुकृतामेतु लोकम् ॥११.१.१७॥
ततश्चैनमन्याभ्यां प्रपदाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
सर्पस्त्वा हनिष्यतीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
सवितुः प्रपदाभ्याम् । ११.४.४७
अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनान् पितॄन् ।
मृत्यून् एकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥११.८.१६॥
य उदारा अन्तर्हिता गन्धर्वाप्सरसश्च ये ।
सर्पा इतरजना रक्षांसि ॥११.११.१६॥
गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।
सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥११.११.२४॥
उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह ।
सर्पा इतरजना रक्षांस्यमित्रान् अनु धावत ॥११.१२.१॥
यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये ।
क्रिमिर्जिन्वत्पृथिवि यद्यदेजति प्रावृषि तन् नः सर्पन् मोप सृपद्यच्छिवं तेन नो मृड ॥१२.१.४६॥
अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् ।
अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥१८.१.५५॥
उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् ।
ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु प्रपथे पुरस्तात्॥१८.३.४९॥
उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा ।
माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥१८.३.५०॥ {१७}
यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः ।
अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणामाविवेश ॥१८.३.५५॥
वीदं मध्यमवासृपद्रक्षोहामीवचातनः ।
अमीवाः सर्वाश्चातयन् नाशयदभिभा इतः ॥१९.४४.७॥
यत्किं चेदं पतयति यत्किं चेदं सरीसृपम् ।
यत्किं च पर्वतायासत्वं तस्मात्त्वं रात्रि पाहि नः ॥१९.४८.३॥
अयमु त्वा विचर्षणे जनीरिवाभि संवृतः ।
प्र सोम इन्द्र सर्पतु ॥२०.५.१॥
यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् ।
जातं यस्ते जिघांसति तमितो नाशयामसि ॥२०.९६.१३॥
ककुभम् अभ्यक्रन्दत्। ततस् सर्पान् असृजताङ्गिरसोमुखान्। उष्णिहम् अभ्यक्रन्दत् । ततो ऽङ्गिरसो ऽसृजताथर्वमुखान्।- जै ३.३८१
तं सर्पा अन्वैच्छन्न् अङ्गिरोमुखाः। ते ऽन्वविन्दन् यन् मधुनो रूपं तत्। - जैब्रा ३.३८२
देवासुराः संयत्ता आसन्न् । ते देवाः सर्पेभ्य आश्रेषाभ्य आज्ये करम्भं निरवपन्न् । तानेताभिरेव देवताभिरुपानयन् । एताभिर्ह वै देवताभिर्द्विषन्तं भ्रातृव्यमुपनयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । सर्पेभ्यः स्वाहा श्रेषाभ्यः स्वाहा । दन्दशूकेभ्यः स्वाहेति - तै ३.१.४.७
एण्यह्नो , मण्डूको मूषिका तित्तिरस्ते सर्पाणां - मै ३.१४.१७
माहिर्भूर्मा पृदाकुरिति । असौ वा ऋजीषस्य स्वगाकारो यदेनदपोऽभ्यवहरन्त्यथैष एवैतस्य स्वगाकारो रज्जुरिव हि सर्पाः कूपा इव हि सर्पाणामायतनान्यस्ति वै मनुष्याणां च सर्पाणां च विभ्रातृव्यमिव नेत्तदतःसम्भवदिति तस्मादाह माहिर्भूर्मा पृदाकुरिति - माश ४.४.५.३
सर्पाँल्लोहितगन्धेन वयाꣳसि पक्वगन्धेन- तैसं ५.७.२३.१, काठ ५३.१३
रुद्रस्य षष्ठी सर्पाणाꣳ सप्तमी । अर्यम्णो ऽष्टमी - तैसं ५.७.२२.१ मै ३.१५.५,
सर्पांल्लोहितगन्धेन वयाँसि पक्वगन्धेन - काठ ५३.१२
मा २५.७, मै ३.१५.९,
पूष्णो वनिष्ठुरान्धाहेस्स्थूरगुदा सर्पान् गुदाभिर्ऋतून् पृष्टिभि- काठ ५३.७
अथ पञ्चमेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युरर्बुदः काद्रवेयो राजेत्याह तस्य सर्पा विशस्त इम आसत इति सर्पाश्च सर्पविदश्चोपसमेता भवन्ति– माश १३.४.३.९
अथ सर्पा अदुह्रालापुना विषं , दुहे भ्रातृव्याय विषं य एवं वेद – मै ४.२.१३
अलाबुपात्रेण सर्पा अदुहुर्विषम्। - काठसंक १४०.१०
ऽऽश्रेषा नक्षत्रꣳ सर्पा देवता– तैसं ४.४.१०.१, मै २.१३.२०
सर्पाणामाश्रेषाः । अभ्यागच्छन्तः परस्तादभ्यानृत्यन्तोऽवस्तात् । - तै १.५.१.२ (
इदꣳ सर्पेभ्यो हविरस्तु जुष्टम् । आश्रेषा येषामनुयन्ति चेतः। ये अन्तरिक्षं पृथिवीं क्षियन्ति । ते नः सर्पासो हवमागमिष्ठाः । ये रोचने सूर्यस्यापि सर्पाः । ये दिवं देवीमनु संचरन्ति । येषामाश्रेषा अनुयन्ति कामम् । तेभ्यः सर्पेभ्यो मधुमज्जुहोमि ।तै ३.१.१.५
काठ ३९.१३
वनस्पतीनां वा एष परिवेष्टा यदुपवेष , ऋद्धा अस्य वेशा भवन्ति य एवं वेद,...सर्पो वा उपवेषो , वल्मीक उत्करो , यदुपवेषं उत्कर उपहन्ति तस्मात्सर्पाणां वल्मीको गृहाः– मै ४.१.१३, काठ ३१.१२
दशमेऽहनि होत्रमन्त्राः - देवा वै सर्पाः । तेषामियꣳ राज्ञी ।यत्सर्पराज्ञिया ऋग्भिः स्तुवन्ति । अस्यामेव प्रतितिष्ठन्ति – तै २.२.६.२
प्राची हि देवानां दिक्पुरस्ताद्वै देवाः प्रत्यञ्चो मनुष्यानुपावृत्तास्तस्मात्तेभ्यः प्राङ्तिष्ठञ्जुहोति ।
तस्मादु ह न प्रतीचीनशिराः शयीत । नेद्देवानभिप्रसार्य शया इति या दक्षिणा दिक्सा पितॄणां या प्रतीची सा सर्पाणां यतो देवा उच्चक्रमुः सैषाहीना योदीची दिक्सा मनुष्याणां तस्मान्मानुष उदीचीनवंशामेव शालां वा विमितं वा मिन्वन्त्युदीची हि मनुष्याणां दिग्दीक्षितस्यैव प्राचीनवंशा नादीक्षितस्य – माश ३.१.१.७
अथ सर्पनामैरुपतिष्ठते । इमे वै लोकाः सर्पास्ते हानेन सर्वेण सर्पन्ति यदिदं किं च सर्वेषामु हैष देवानामात्मा यदग्निस्ते देवा एतमात्मानमुपधायाबिभयुर्यद्वै न इमे लोका अनेनात्मना न सर्पेयुरिति ॥
त एतानि सर्पनामान्यपश्यन् । तैरुपातिष्ठन्त तैरस्मा इमांल्लोकानस्थापयंस्तैरनमयन् यदनमयंस्तस्मात्सर्पनामानि तथैवैतद्यजमानो यत्सर्पनामैरुपतिष्ठत इमानेवास्मा एतल्लोकान्त्स्थापयतीमांल्लोकान्नमयति तथो हास्यैतऽएतेनात्मना न सर्पन्ति॥ यद्वेव सर्पनामैरुपतिष्ठत । इमे वै लोकाः सर्पा यद्धि किं च सर्पत्येष्वेव तल्लोकेषु सर्पति तद्यत्सर्पनामैरुपतिष्ठते यैवैषु लोकेषु नाष्ट्रा योव्यध्वरो या शिमिदा तदेवैतत्सर्वं शमयति॥ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नम इति य एवैषु त्रिषु लोकेषु सर्पास्तेभ्य एतन्नमस्करोति ॥ या इषवो यातुधानानामिति । यातुधानप्रेषिता हैके दशन्ति ये वा वनस्पतीमनु ये वावटेषु शेरते तेभ्यः सर्पेभ्यो नम इति ये चैव वनस्पतिषु सर्पा ये चावटेषु शेरते तेभ्य एतन्नमस्करोति ॥ ये वाऽमी रोचने दिवो । ये वा सूर्यस्य रश्मिषु येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नम इति यत्र यत्रैते तदेवैभ्य एतन्नमस्करोति नमो नम इति यज्ञो वै नमो यज्ञेनैवैनानेतन्नमस्कारेण नमस्यति तस्मादु ह नायज्ञियं ब्रूयान्नमस्त इति यथा हैनं ब्रूयाद्यज्ञस्त इति तादृक्तत् – माश ७.४.१.३०
वासुकिः शङ्खपालश्च स्थितौ पार्थिवमण्डले ।
कर्कोटः पद्मनाभश्च वारुणे तौ व्यवस्थितौ ॥ १,१९७.१२ ॥
आग्नेये चापि कुलिकस्तक्षश्चैव महाब्जकौ ।
वायुमण्डलसंस्थौ च पञ्च भूतानि विन्यसेत् ॥ गरुड १,१९७.१३ ॥
शेषोऽर्कः फणिपश्चन्द्रस्तक्षको भौम ईरितः ।। 19.6 ।।
कर्कोटो ज्ञो गुरुः पद्मो महापद्मश्च भार्गवः ।।
शङ्खः शनैश्चरो राहुः कुलिकश्चाहयो ग्रहाः ।।गरुड १.१९.७ ।।
अनन्तं भास्करं विद्यात्सोमं विद्यात्तु वासुकिम् ।
तक्षकं भूमिपुत्रं तु कर्कोटं च बुधं विदुः । । २२
पद्मं बृहस्पतिं विद्यान्महापद्मं च भार्गवम् ।
कुलिकः शंखपालश्च द्वावेतौ तु शनैश्चरः । । २३
पूर्वपादः शंखपालो द्वितीयः कुलिकस्तथा । भविष्य १.३४.२२
आहारो वायुपुष्पाणि ब्राह्मणानां विदुर्बुधाः ।।
मूषिका क्षत्रियाणां च आहारो द्विजसत्तम ।।
वैश्या मंडूकभक्षाश्च शूद्राः सर्वाशिनस्तथा ।।भविष्य १.३६.३०।।
अनंतः प्रेक्षते पूर्वं वामपार्श्वे तु वासुकिः ।।
तक्षको दक्षिणेनेह कर्कोटः पृष्ठतस्तथा ।। ४५ ।।
चलते भ्रमते पद्मो महापद्मो निमज्जति ।।
विसंज्ञस्तिष्ठते चैव शंखपालो मुहुर्मुहुः ।। ४६ ।।
सर्वेषां कुरुते रूपं कुलिकः पन्नगोत्तमः ।।
अनंतस्य दिशा पूर्वा वासुकेस्तु हुताशनी ।।४७।।
दक्षिणा तक्षकस्योक्ता कर्कोटस्य तु नैर्ऋती ।।
पश्चिमा पद्मनाभस्य महापद्मस्य वायुजा ।।
उत्तरा शंखपालस्य ऐशानी कंबलस्य तु।।४८।।
अनंतस्य भवेत्पद्मं वासुकेः स्यात्तथोत्पलम् ।।
स्वस्तिकं तक्षकस्योक्तं कर्कोटस्य तु पंकजम् ।। ४९ ।।
पद्मस्य तु भवेत्पद्मं शूलं पद्मेतरस्य तु ।।
शंखपाले भवेच्छत्रं कुलिकस्यार्धचन्द्रकम् ।। 1.36.५० ।।
अनंतकपिलौ विप्रौ क्षत्रियौ शंखवासुकी ।।
महापद्मस्तक्षकश्च वैश्यौ विप्र प्रकीर्तितौ ।।
पद्मकर्कोटकौ शूद्रौ सदा ज्ञेयौ मनीषिभिः ।। ५१ ।।
अनंतकुलिकौ वर्णतो ब्रह्मसंभवौ ।।
वासुकिः शंखपालश्च रक्तौ ह्यग्निसमुद्भवौ ।। ५२ ।।
तक्षकश्च महापद्म ईषत्पीतौ बभू वतुः ।।
पद्मकर्कोटकौ विप्र सर्पौ कृष्णौ बभूवतुः ।। भविष्य १.३६.५३ ।।
अनंतायेति पादौ तु धृतराष्ट्राय वै कटिम् ।। ३ ।।
उदरं तक्षकायेति उरः कर्कोटकाय च ।।
पद्माय कर्णौ संपूज्य महापद्माय दोर्युगम् ।। ४ ।।
शंखपालाय वक्षस्तु कुलिकायेति वै शिरः ।।
एवं विष्णुं सर्वगतं पृथगेव प्रपूजयेत् ।।भविष्य ४.३४.५ ।।
All the vedic and puraanic mythology is spun in the web of serpent and hawk. Hawk has been considered as the enemy of serpent. So simple stories about these lead us to the laws of modern physics. In outer world, earth is revolving on it’s own spin as well as it is moving around the sun also. The same is the situation with every planet and star in this world. The year or Samvatsara is formed due to relative motions of sun, earth and moon. This picture is reflected at the most subtle level in this world – in the realm of electrons and protons etc., which are in a way considered elementary particles, or the building blocks of the matter. No one can see their spin, but their properties can be explained mathematically only when their spin angular momentum is taken into account in addition to their orbital angular momentum. This picture of spin and orbit seems to have been expressed in mythology through the stories of serpent and hawk. Serpent is the spin. In ordinary sense, all the sins have been placed inside a serpent which form his venom.