||2.11||
अशोच्यान् इत्यादि । न शोच्या अशोच्याः भीष्मद्रोणादयः, सद्वृत्तत्वात् परमार्थस्वरूपेण च नित्यत्वात् , तान् अशोच्यान् अन्वशोचः अनुशोचितवानसि ‘ते म्रियन्ते मन्निमित्तम् , अहं तैर्विनाभूतः किं करिष्यामि राज्यसुखादिना’ इति ।
aśocyān ityādi | bhīṣma-droṇa-ādayaḥ [if you look at them as jivas, they will get higher worlds becasue] sad-vṛttatvāt(they are of noble character), [and if you look at them as souls, than] parama-artha-svarūpeṇa nityatvāt(they are eternal) ca, na śocyāḥ aśocyāḥ, tān aśocyān anvaśocaḥ ‘te mat-nimittam mriyante, ahaṃ taiḥ vinā-bhūtaḥ rājya-sukha-ādinā kiṃ kariṣyāmi’ iti anuśocitavān asi(in this manner you grieve) |
Bhisma, Drona and others are not to be grieved for, because they are of noble character and are eternal in their real nature. With regard to them, asocyan, who are not to be grieved for; tvam, you; anvasocah, grieve, (thinking) 'They die because of me; without them what shall I do with dominion and enjoyment?';
भीष्म-द्रोण-आदयः
१) भीष्मः च द्रोणः च, भीष्म-द्रोणौ - द्वन्द्वः
२) भीष्म-द्रोणौ आदी येषां ते, भीष्म-द्रोण-आदयः - बहुव्रीहिः
सद्-वृत्तत्वात् - सत् वृत्तम् येषां ते, सद्वृत्ताः - बहुव्रीहिः, तेषां भावः त्व, तस्मात्
परम-अर्थ-स्वरूपेण
१) परमः अर्थः, परम-अर्थः - कर्मधारयः
२) परम-अर्थम् स्वरूपम्, तेन - कर्मधारयः
मत्-निमित्तम् [म्रियन्ते]
अहम् निमित्तम् यस्य [मरणस्य] तत् [मरणं] मन्निनिमित्तम् - बहुव्रीहिः, मन्निमित्तम् यथा स्यात् तथा म्रियन्ते (क्रियाविशेषणबहुव्रीहिः)
Notes:
समासपुस्तके, पृ 61, 5.1.1. क्रियाविशेषणस्थले (...) ’निर्दयं कथयति’ – निर्गता दया यस्मिन् कर्मणि तद्यथा भवति तथा = निर्दयम् इति। एतादृशं बहुव्रीहावेवे अन्तर्भवति।
विना-भूतः - विनात्वं प्राप्तः, विनाभूतः - द्वितीयातत्पुरुषः https://ashtadhyayi.com/kosha?search=vinAbhUta https://ashtadhyayi.com/sutraani/3/1/107
राज्य-सुख-आदिना
१) राज्यं च सुखं च, राज्यसुखे - द्वन्द्वः
२) राज्यसुखे आदिनी यस्य [वृन्दस्य] तत्, राज्य-सुख-आदि, तेन - बहुव्रीहिः
*Note here:
राज्यसुखे (A) आदिनी (B) यस्य [वृन्दस्य(C)] तत् (D) - A should match B with lingam and vacanam. C and D refers to lingam and vacanam of anyat-padam, which has pradhanyam for bahuvrihi
त्वं प्रज्ञावादान् प्रज्ञावतां बुद्धिमतां वादांश्च वचनानि च भाषसे।
तदेतत् मौढ्यं पाण्डित्यं च विरुद्धम् आत्मनि दर्शयसि उन्मत्त इव इत्यभिप्रायः ।
prajñāvādān - 'prajñāvatāṃ buddhimatāṃ', 'vādān ca vacanāni ca' tvaṃ bhāṣase | tadetat mauḍhyaṃ pāṇḍityaṃ ca ātmani viruddham darśayasi unmattaḥ iva iti abhiprāyaḥ |
ca, and; bhasase, you speak; prajnavadan, words of wisdom, words used by men of wisdom, of intelligence. The idea is, 'Like one mad, you show in yourself this foolishness and learning which are contradictory.'
प्रज्ञावादान् - प्रज्ञावताम् वादः, प्रज्ञावादः, तान् - षष्ठीत्तपुरुषः (प्रज्ञा + अच् = प्रज्ञावान्, by sutra अर्श-आदिभ्योऽच् https://ashtadhyayi.com/sutraani/5/2/127 which speaks about '१८५ अर्शआदिः गणः' - स्वाङ्गाद्धीनात् । https://ashtadhyayi.com/ganapath?search=arza)
मौढ्यम् - मूढस्य भावः कर्म वा । मूढ + “गुणवचनब्राह्मणादीभ्यः कर्म्मणि च ।” ५ । १ । १२४ । इति ष्यञ् ।
अभिप्रायः - अभि + प्र + इण् + भावे अच् ।
पाण्डित्यम् - पण्डितस्य भावः कर्म वा + ष्यञ् ।
यस्मात् गतासून् गतप्राणान् मृतान् , अगतासून् अगतप्राणान् जीवतश्च न अनुशोचन्ति पण्डिताः आत्मज्ञाः ।
yasmāt gata-asūn gata-prāṇān mṛtān , agata-asūn agata-prāṇān jīvataḥ ca paṇḍitāḥ ātma-jñāḥ na anuśocanti |
Because, panditah, the learned, ātmajñāḥ, the knowers of the Self, na anusocanti, do not grieve for; gatasun, the departed, whose life has become extinct; agatasun ca, and for those who have not departed, whose life has not left, the living.
गत-असून् - गताः असवः यस्मात् सः, तान् - बहुव्रीहिः
गत-प्राणान् - same
अगत-असून् - न-गताः असवः यस्मात् सः, तान् - बहुव्रीहिः
अगत-प्राणान् - same
आत्मज्ञाः - आत्मानं जानाति, ते - उपपदसमासः
पण्डा आत्मविषया बुद्धिः येषां ते हि पण्डिताः, ‘पाण्डित्यं निर्विद्य’ (बृ. उ. ३ । ५ । १) इति श्रुतेः ।
paṇḍā ātma-viṣayā buddhiḥ yeṣāṃ te hi paṇḍitāḥ, ‘pāṇḍityaṃ nirvidya’ (bṛ. u. 3 | 5 | 1) iti śruteḥ |
Panda means wisdom about the Self; those indeed who have this are panditah, one the authority of the Upanisadic text, 'the knowers of Brahman, having known all about scholarship.' (Br. 3.5.1) ['Therefore the knowers of Brahman, having known all about scholorship, should try to live upon that strength which comes of Knowledge; having known all about this strength as well as scholorship, he becomes meditative; having known all about both meditativeness and its opposite, he becomes a knower of Brahman.'] ;
आत्मविषया - आत्मा विषयः यस्याः [बुद्धेः] सा - बहुव्रीहिः
निर्विद्य - निश्चयेन विद्य [not samasa, लब्ध्वा, सम्पाद्य having got full knowledge]
परमार्थतस्तु तान् नित्यान् अशोच्यान् अनुशोचसि, अतो मूढोऽसि इत्यभिप्रायः ॥ ११ ॥
parama-arthataḥ tu tān nityān aśocyān anuśocasi, ataḥ mūḍhaḥ asi iti abhiprāyaḥ || 11 ||
The ideas is, 'Your are sorrowing for those who are eternal in the real sense, and who are not to be grieved for. Hence your are a fool!.'
कुतस्ते अशोच्याः, यतो नित्याः । कथम् ? —
kutaḥ te aśocyāḥ, yataḥ nityāḥ | katham ? —
Why are they not to be grieved for? Because they are eternal. How?