||2.10||
1. अत्र ‘दृष्ट्वा तु पाण्डवानीकम्’ (भ. गी. १ । २) इत्यारभ्य यावत् ‘न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह’ (भ. गी. २ । ९) इत्येतदन्तः प्राणिनां शोक-मोहादि-संसार-बीज-भूत-दोषोद्भव-कारण-प्रदर्शनार्थत्वेन व्याख्येयो ग्रन्थः ।
anvayaḥ
atra ‘dṛṣṭvā tu pāṇḍavānīkam’ (bha| gī| 1 | 2) ityārabhya yāvat ‘na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha’ (bha| gī| 2 | 9) iti etad-antaḥ granthaḥ(text including..) prāṇināṃ(of living beings) śoka-mohādi-saṃsāra-bīja-bhūta(in the from of sorrow, delusion, etc. which are the sources of samsara)-doṣodbhava(of the origin of the defect)-kāraṇa-pradarśanārthatvena(as revealing the cause) vyākhyeyḥ(is to be explained) |
And here, the text commencing from 'But seeing the army of the Pandavas' (1.2) and ending with '(he) verily became silent, telling Him (Govinda), "I shall not fight"' is to be explained as revealing the cause of the origin of the defect in the from of sorrow, delusion, etc. [Delusion means want of discrimination. Etc. stands for the secondary manifestations of sorrow and delusion, as also ignorance which is the root cause of all these.] which are the sources of the cycles of births and deaths of creatures.
शोक-मोहादि-संसार-बीज-भूत-दोषोद्भव-कारण-प्रदर्शनार्थत्वेन
1. शोकः च मोहः च, शोकमोहौ - द्वन्द्वः
2. शोकमोहौ आदी येषां ते, शोकमोहादयः - बहुव्रीहिः
3. संसारस्य बीजं, संसारबीजम् - षष्ठीतत्पुरुषः
4. संसारबीजत्वं प्राप्तं, संसारबीजभूतम् - द्वितीयातत्पुरुषः
5. शोकमोहादयः एव संसारबीजभूताः, शोकमोहादिसंसारबीजभूताः - कर्मधारयः
6. शोकमोहादिसंसारबीजभूताः एव दोषाः, शोकमोहादिसंसारबीजभूतदोषाः - कर्मधारयः
7. शोकमोहादिसंसारबीजभूतदोषाणाम् उद्भवः, शोकमोहादिसंसारबीजभूतदोषोद्भवः - षष्ठीतत्पुरुषः
8. तस्य/तस्मिन् (विषये) कारणं, शोकमोहादिसंसारबीजभूतदोषोद्भवकारणम् - षष्ठीतत्पुरुषः
9. तस्य प्रदर्शनं शोकमोहादिसंसारबीजभूतदोषोद्भवकारणप्रदर्शनम् - षष्ठीतत्पुरुषः
10. तस्मै इदम्, शोकमोहादिसंसारबीजभूतदोषोद्भवकारणप्रदर्शनार्थम् - चतुर्थीतत्पुरुषः
11. तस्य भावः, तेन
2. तथाहि — अर्जुनेन राज्य-गुरु-पुत्र-मित्र-सुहृत्स्वजन-सम्बन्धि-बान्धवेषु ‘अहमेतेषाम्’ ‘ममैते’ इत्येवं भ्रन्ति-प्रत्यय-निमित्त-स्नेह-विच्छेदादि-निमित्तौ आत्मनः शोक-मोहौ प्रदर्शितौ ‘कथं भीष्ममहं सङ्ख्ये’ (भ. गी. २ । ४) इत्यादिना ।
anvayaḥ
tathāhi — ‘kathaṃ bhīṣmamahaṃ saṅkhye’ (bha. gī. 2 | 4) ityādinā arjunena rājya-guru-putra-mitra-suhṛt-svajana-sambandhi-bāndhaveṣu ‘aham eteṣām’(i belong to them) ‘mama ete’(they belong to me) iti evaṃ bhranti(wrong)-pratyaya(knowledge)-nimitta(caused by)-sneha(attachment)-vicchedādi(separation etc)-nimittau(causes) ātmanaḥ śoka-mohau pradarśitau |
Thus indeed, Ajuna's own sorrow and delusion, cuased by the ideas of affection, parting, etc., originating from the erroneous belief, 'I belong to these; they belong to me', with regard to kingdom [See note under verse 8.-Tr.], elders, sons, comrades, well-wishers (1.26), kinsmen (1.37), relatives (1.34) and friends, have been shown by him with the words, 'How can I (fight) in battle (against) Bhisma' (2.4), etc.
राज्य-गुरु-पुत्र-मित्र-सुहृत्-स्वजन-सम्बन्धि-बान्धवेषु
राज्यः च गुरुः च पुत्रः च मित्रम् च सुहृत् च स्वजनः च सम्बन्धिः च बान्धवः च, राज्य-गुरु-पुत्र-मित्र-सुहृत्-स्वजन-सम्बन्धि-बान्धवाः, तेषु - इतरेतरद्वन्द्वः
शोकमोहौ – शोकः च मोहः च शोकमोहौ - इतरेतरद्वन्द्वः
भ्रन्ति-प्रत्यय-निमित्त-स्नेह-विच्छेदादि-निमित्तौ
१) भ्रन्तिः प्रत्ययः, भ्रन्ति-प्रत्ययः - कर्मधारयः
२) स्नेहः च विच्छेदः च, स्नेह-विच्छेदौ - द्वन्द्वः
३) स्नेह-विच्छेदौ आदी येषां ते, स्नेह-विच्छेदादयः - बहुव्रीहिः
४) भ्रन्ति-प्रत्ययः निमित्तम् येषां ते, भ्रन्ति-प्रत्यय-निमित्ताः [स्नेह-विच्छेदादयः] - बहुव्रीहिः
५) भ्रन्ति-प्रत्यय-निमित्ताः स्नेह-विच्छेदादयः, भ्रन्ति-प्रत्यय-निमित्त-स्नेह-विच्छेदादयः - कर्मधारयः
६) भ्रन्ति-प्रत्यय-निमित्त-स्नेह-विच्छेदादीनि निमितानि ययोः तौ [शोकमोहौ], भ्रन्ति-प्रत्यय-निमित्त-स्नेह-विच्छेदादि-निमित्तौ - बहुव्रीहिः
3. शोकमोहाभ्यां ह्यभिभूतविवेकविज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धादुपरराम ; परधर्मं च भिक्षाजीवनादिकं कर्तुं प्रववृते ।
anvayaḥ
svataḥ eva kṣatra-dharme yuddhe pravṛttaḥ api(even though he had become engaged in battle out of his own accord as a duty of the Ksatriyas) śoka-mohābhyāṃ(by sorrow and delusion) hi abhibhūta(suppressed)-viveka-vijñānaḥ(discriminating insight was) tasmāt yuddhāt upararāma(he desisted from that war); paradharmaṃ ca bhikṣā-jīvanādikaṃ kartuṃ pravavṛte(and chose to undertake other's duties like living on alms etc)|
It is verily because his discriminating insight was overwhelmed by sorrow and delusion that, even though he had become engaged in battle out of his own accord as a duty of the Ksatriyas, he desisted from that war and chose to undertake other's duties like living on alms etc.
अभिभूत-विवेक-विज्ञानः
१) विवेकः च विज्ञानं च, विवेक-विज्ञाने - द्वन्द्वः
२) अभिभूते विवेक-विज्ञाने यस्य सः, अभिभूत-विवेक-विज्ञानः [अर्जुनः] - बहुव्रीहिः
भिक्षा-जीवनादिकम्
१) भिक्षया जीवनं, भिक्षाजीवनम् - तृतीयातत्पुरुषः
२) भिक्षाजीवनम् आदिः यस्य सः [परधर्मः], भिक्षा-जीवनादिकः, तम् - बहुव्रीहिः
उपरराम - लिट्, परस्मैपदी, प्र.ए। https://sanskritabhyas.in/उप†रम्-धातुरूपाणि
4. तथा च सर्वप्राणिनां शोकमोहादिदोषाविष्टचेतसां स्वभावत एव स्वधर्मपरित्यागः प्रतिषिद्धसेवा च स्यात् ।
anvayaḥ
tathā ca(It is thus that) śoka-mohādi-doṣa-āviṣṭa-cetasāṃ(whose minds come under the sway of the defects of sorrow, delusion, etc) sarva-prāṇināṃ(in the case of all creatures) svabhāvataḥ(as a matter of course) eva svadharma-parityāgaḥ(abandoning their own duties) pratiṣiddha-sevā(resorting to prohibited) ca syāt |
It is thus that in the case of all creatures whose minds come under the sway of the defects of sorrow, delusion, etc. there verily follows, as a matter of course, abandoning their own duties and resorting to prohibited ones.
सर्वप्राणिनां
१) सर्वे प्राणिनः, तेषां - कर्मधारयः
शोक-मोहादि-दोष-आविष्ट-चेतसां
१) शोकः च मोहः च, शोकमोहौ - द्वन्द्वः
२) शोकमोहौ आदिः येषां ते, शोकमोहादयः - बहुव्रीहिः
३) शोकमोहादयः दोशाः, शोकमोहादिदोषाः - कर्मधारयः
४) शोकमोहादिदोषैः आविष्टम् , शोकमोहादिदोषाविष्टम् - तृतीयातत्पुरुषः
५) शोकमोहादिदोषाविष्टम् चेतः येषां ते, शोकमोहादिदोषाविष्टचेताः, तेषां - बहुव्रीहिः
स्व-धर्म-परित्यागः
१) सर्वे धर्माः , सर्वधर्माः - कर्मधारयः
२) सर्वधर्माणां परित्यागः - षष्ठीतत्पुरुषः
प्रतिषिद्धसेवा - प्रतिषिद्धस्य सेवा - षष्ठीतत्पुरुषः
5. स्वधर्मे प्रवृत्तानामपि तेषां वाङ्मनःकायादीनां प्रवृत्तिः फलाभिसन्धिपूर्विकैव साहङ्कारा च भवति ।
anvayaḥ
svadharme pravṛttānām api teṣāṃ(Even when they engage in their own duties) vāṅ-manaḥ-kāya-ādīnāṃ pravṛttiḥ(their actions with speech, mind, body, etc) phala(of results)-abhisandhi(with attachment)-pūrvikā(filled) eva sa-ahaṅkārā ca bhavati (and are accompanied by egoism)|
Even when they engage in their own duties their actions with speech, mind, body, etc., are certainly motivated by hankering for rewards, and are accompanied by egoism. [Egoism consists in thinking that one is the agent of some work and the enjoyer of its reward.]
फलाभिसन्धि-पूर्विका
१) फलस्य अभिसन्धिः, फलाभिसन्धिः - षष्ठीतत्पुरुषः
२) फलाभिसन्धिः पूर्वं यस्याः सा [प्रवृत्तिः], फलाभिसन्धि-पूर्विका - बहिव्रीहिः
वाङ्मनःकायादीनाम्
१) वाक् च मनः च कायः च , वाङ्मनःकायाः - द्वन्द्वः
२) वाङ्मनःकायाः आदिः येषां ते, तेषाम् - बहुव्रीहिः
6. तत्रैवं सति धर्माधर्मोपचयात् इष्टानिष्ट-जन्म-सुख-दुःख-संप्राप्ति-लक्षणः संसारः अनुपरतो भवति इत्यतः संसारबीजभूतौ शोकमोहौ ।
anvayaḥ
tatra evaṃ sati(Such being the case) dharma-adharma-upacayāt(from the accumulation of virtue and vice) iṣṭa-aniṣṭa-janma-sukha-duḥkha-saṃprāpti-lakṣaṇaḥ(characterized by passing through desireable and undesirable births, and meeting with happiness, sorrow, etc) saṃsāraḥ(the cycle of births and deaths) anuparataḥ bhavati(continues unendingly) ityataḥ śoka-mohau(Thus, sorrow and delusion) saṃsāra-bīja-bhūtau(are therefore the sources of samsara) [bhavataḥ] |
Such being the case, the cycle of births and deaths characterized by passing through desireable and undesirable births, and meeting with happiness, sorrow, etc. [From virtuous deeds follow attainment of heaven and happiness. From unvirtuous, sinful deeds follow births as beasts and other lowly beings, and sorrow. From the performance of both virtuous and sinful deeds follows birth as a human being, with a mixture of happiness and sorrow.] from the accumulation of virtue and vice, continues unendingly. Thus, sorrow and delusion are therefore the sources of the cycles of births and deaths.
धर्म-अधर्म-उपचयात्
१) धर्मः च अधर्म च , धर्म-अधर्मौ - द्वन्द्वः
२) धर्म-अधर्मयोः उपचयः, तस्मात् - षष्ठीतत्पुरुषः
इष्ट-अनिष्ट-जन्म-सुख-दुःख-संप्राप्ति-लक्षणः
१) इष्टं च अनिष्टं च, इष्ट-अनिष्टे - द्वन्द्वः
२) इष्ट-अनिष्टानि जन्मानि, इष्ट-अनिष्ट-जन्मानि - कर्मधारयः
३) सुखं च दुःखं च, सुख-दुःखे - द्वन्द्वः
४) सुख-दुःखयोः संप्राप्तिः, सुख-दुःख-संप्राप्तिः - षष्ठीतत्पुरुषः
५) इष्ट-अनिष्ट-जन्मानि च सुख-दुःख-संप्राप्तिः च , इष्ट-अनिष्ट-जन्म-सुख-दुःख-संप्राप्ती - द्वन्द्वः
७) इष्ट-अनिष्ट-जन्म-सुख-दुःख-संप्राप्ती लक्षणं यस्य सः, इष्ट-अनिष्ट-जन्म-सुख-दुःख-संप्राप्ति-लक्षणः [संसारः] - बहुव्रीहिः
संसार-बीज-भूतौ
१) संसारस्य बीजम्, संसार-बीजम् - षष्ठीतत्पुरुषः
२) संसार-बीजत्वं प्राप्तं, संसार-बीज-भूतम् , तौ - द्वितीयातत्पुरुषः
7. तयोश्च सर्वकर्मसंन्यासपूर्वकादात्मज्ञानात् नान्यतो निवृत्तिरिति तदुपदिदिक्षुः सर्वलोकानुग्रहार्थम् अर्जुनं निमित्तीकृत्य आह भगवान्वासुदेवः — ‘अशोच्यान्’ (भ. गी. २ । ११) इत्यादि ॥
anvayaḥ
ca sarva-karma-saṃnyāsa-pūrvakāt ātma-jñānāt(knowledge of the Self which is preceded by the renunciation of all duties) tayoḥ na anyataḥ nivṛttiḥ(their cessation comes from nothing other than) iti tad-upadidikṣuḥ(desiring to teach that) sarva-loka-anugraha-artham(for favouring the whole world) bhagavān vāsudevaḥ arjunaṃ nimittī-kṛtya āha(Lord Vasudeva, making Arjuna the medium, said) — ‘aśocyān’ (bha| gī| 2 | 11) ityādi ||
And their cessation comes from nothing other than the knowledge of the Self which is preceded by the renunciation of all duties. Hence, wishing to impart that (knowledge of the Self) for favouring the whole world, Lord Vasudeva, making Arjuna the medium, said, 'You grieve for those who are not to be grieved for,' etc.
सर्व-कर्म-संन्यास-पूर्वकात्
१) सर्वाणि कर्माणि, सर्वकमाणि - कर्मधारयः
२) सर्वकमाणां संन्यासः, सर्व-कर्म-संन्यासः - षष्ठीतत्पुरुषः
३) सर्व-कर्म-संन्यासः पूर्वं यस्य [आत्म-ज्ञानस्य] तत् , तस्मात् - बहुव्रीहिः
तद्-उपदिदिक्षुः - तत् उपदिदिक्षुः - द्वितीयातत्पुरुषः
सर्व-लोक-अनुग्रह-अर्थम्
१) सर्वे लोकाः, सर्वलोकाः - कर्मधारयः
२) सर्वलोकानाम् अनुग्रहः, सर्व-लोक-अनुग्रहः - षष्ठीतत्पुरुषः
३) सर्व-लोक-अनुग्रहाय इदम्, सर्व-लोक-अनुग्रह-अर्थम् - चतुर्थीतत्पुरुषः
निमित्ती-कृत्य - अनिमित्तं निमित्तं कृत्वा - गति-समासः
8. अत्र केचिदाहुः — सर्वकर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठामात्रादेव केवलात् कैवल्यं न प्राप्यत एव ।
anvayaḥ
[purvapakshi says] atra kecit āhuḥ(As to that some (opponents) says) — kevalāt(merely) sarva-karma-saṃnyāsa-pūrvakāt(which is preceded by renunciation of all duties) ātma-jñāna-niṣṭhā-mātrāt(from continuance in the knowledge of the Self) eva kaivalyaṃ na prāpyate eva(certainly, Liberation cannot be attained) |
As to that some (opponents) [According to A.G. the opponent is the Vrttikara who, in the opinion of A. Mahadeva Sastri, is none other than Bodhayana referred to in Sankaracarya's commentary on B.S. 1.1.11-19.-Tr.] say: Certainly, Liberation cannot be attained merely from continuance in the knowledge of the Self which is preceded by renunciation of all duties and is independent of any other factor.
आत्म-ज्ञान-निष्ठा-मात्रात्
१) आत्मनः ज्ञानम्, आत्मज्ञानम् - षष्ठीतत्पुरुषः
२) आत्मज्ञाने निष्ठा, आत्म-ज्ञान-निष्ठा - सप्तमीतत्पुरुषः
३) आत्म-ज्ञान-निष्ठा एव, आत्म-ज्ञान-निष्ठा-मात्रम्, तस्मात् - तत्पुरुषः (कर्मधारयः, मयूरव्यंसकादिः)
9. किं तर्हि ? अग्निहोत्रादिश्रौतस्मार्तकर्मसहितात् ज्ञानात् कैवल्यप्राप्तिरिति सर्वासु गीतासु निश्चितोऽर्थ इति ।
anvayaḥ
[vedantin says] kiṃ tarhi(then what [is the means for kaivalya])?
[purvapakshi says] agnihotrādi-śrauta-smārta-karma-sahitāt jñānāt kaivalya-prāptiḥ iti( Liberation is attained through Knowledge associated with rites and duties like Agnihotra etc. prescribed in the Vedas and the Smrtis) sarvāsu gītāsu(of the whole of the Gita) niścitaḥ arthaḥ(ascertained conclusion) iti [kecid āhuḥ]|
What then? The well-ascertained conclusion of the whole of the Gita is that Liberation is attained through Knowledge associated with rites and duties like Agnihotra etc. prescribed in the Vedas and the Smrtis.
अग्निहोत्रादि-श्रौत-स्मार्त-कर्म-सहितात्
१) अग्नये होत्रम्, अग्निहोत्रम् - चतुर्थीतत्पुरुषः
२) अग्निहोत्रम् आदि येषां तानि, अग्निहोत्रादीनि - बहुव्रीहिः
३) श्रौतं च स्मार्तं च, श्रौत-स्मार्ते - द्वन्द्वः
४) श्रौत-स्मार्र्तानि कर्माणि, श्रौत-स्मार्त-कमाणि - कर्मधारयः
५) अग्निहोत्रादीनि श्रौत-स्मार्त-कमाणि, अग्निहोत्रादि-श्रौत-स्मार्त-कर्माणि - कर्मधारयः
६) अग्निहोत्रादि-श्रौत-स्मार्त-कर्मैः सहितम्, तस्मात् - तृतीयतत्पुरुषः
10. ज्ञापकं च आहुरस्यार्थस्य — ‘अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि’ (भ. गी. २ । ३३) ‘कर्मण्येवाधिकारस्ते’ (भ. गी. २ । ४७) ‘कुरु कर्मैव तस्मात्त्वम्’ (भ. गी. ४ । १५) इत्यादि ।
anvayaḥ
asya ca arthasya(And as an indication of this point of view) [purvapakshi gives proof] jñāpakaṃ ca āhuḥ(they quote (the verses)) — ‘atha cet tvam imaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi’ (bha. gī. 2 | 33) ‘karmaṇyevādhikāraste’ (bha. gī. 2 | 47) ‘kuru karmaiva tasmāttvam’ (bha. gī. 4 | 15) ityādi|
And as an indication of this point of view they quote (the verses): 'On the other hand, if you will not fight this righteous (battle)' (2.33); 'Your right is for action (rites and duties) alone' (2.47); 'Therefore you undertake action (rites and duties) itself' (4.15), etc.
ज्ञापक - ज्ञा (अवबोधने) + णिच् + ण्वुल् (३-१-१३३)
11. हिंसादियुक्तत्वात् वैदिकं कर्म अधर्माय इतीयमप्याशङ्का न कार्या ।
anvayaḥ
[purvapakshi] hiṃsādi-yuktatvāt(because it is endowed with violence) vaidikaṃ karma adharmāya iti(that vaidikaṃ karma leads to adharma) iyam api āśaṅkā na kāryā(you should not have this doubt) |
Even this objection should not be raised that Vedic rites and duties lead to sin since they involve injury etc.
हिंसादि-युक्तत्वात्
१) हिंसा आदिः येषां तानि, हिंसादीनि - बहुव्रीहिः
२) हिंसादिभिः युक्तं [कर्म] - तृतीयातत्पुरुषः
३) तस्य भावः त्व-प्रत्ययः, तस्मात्
वैदिक - वेदं वेत्त्यधीते वा ठञ् वेदेषु विहितः वेद + ठक्
12. कथम् ? क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसालक्षणमत्यन्तं क्रूरमपि स्वधर्म इति कृत्वा न अधर्माय ; तदकरणे च ‘ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि’ (भ. गी. २ । ३३) इति ब्रुवता यावज्जीवादिश्रुतिचोदितानां पश्वादिहिंसालक्षणानां च कर्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवति — इति ॥
anvayaḥ
[vedantin] katham?
[purvapakshi] kṣātraṃ karma yuddha-lakṣaṇaṃ(The duties of the Ksatriyas, charaterized by war) guru-bhrātṛ-putrādi-hiṃsā-lakṣaṇam atyantaṃ krūram api(even though they are extremely cruel since they involve violence against elders, brothers, sons and others) svadharma iti kṛtvā na adharmāya(do not lead to sin when undertaken as one's duty); tad-akaraṇe(if you don't do that) ca ‘tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi’ (bha. gī. 2 | 33) iti bruvatā ([भगवता] by Bhagavan so speaking, 3v.1vac.) 'yāvaj-jīvādi'-śruti-coditānāṃ(prescribed in such texts as 'One shall perform Agnihotra as long as one lives' etc) [sva-karmaṇāṃ] paśv-ādi-hiṃsā-lakṣaṇānāṃ ca karmaṇāṃ(actions which involve crutely to animals etc) prāg eva(like previous) na adharmatvam(does not lead to adharma) iti suniścitam uktaṃ bhavati — iti ||
ननु “यावज्जीवमग्निहोत्रं जुहुयात् “(पू.मी.६.२.७) “यावज्जिवं दर्शपूर्णमासाभ्यां यजेत “(आप.श्रौ.३.१४.११) “अहरहस्संध्यामुपासित “(ष.ब्रा.), “कुर्वन्नेवेह कर्माणि जिजीविषेच्छत्ँ समाः”(ई.उ.२)इत्यादिश्रुतिभिः यावज्जीवं कर्मणः कर्तव्यत्वेन चोदितत्वात् सर्वकर्मसंन्यासे श्रुत्युल्लङ्घनं प्रसज्येतेति चेत्, तासां श्रुतीनां अशुद्धचित्तविषयत्वात् । अत एव,“एवं त्वयि नान्यथेतोस्ति न कर्म लिप्यते नरे”(ई.उ.२) इतीशावास्यमन्त्रेण नरे नरमात्राभिमानिनि त्वयि इतः कर्मकरणात् अन्यथा अन्यो मार्गः कर्मलेपाभावप्रयोजकः नास्तीत्युक्तम् ।
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः (म.ना.उ.१०.५) संन्यासयोगाद्यतयःशुद्धसत्वाः (म.ना.उ.)॥
https://sa.wikisource.org/wiki/विवेक्कचूडामणि_भाष्याम्
Objection: How?
Opponent: The duties of the Ksatriyas, charaterized by war, do not lead to sin when undertaken as one's duty, even though they are extremely cruel since they involve violence against elders, brothers, sons and others. And from the Lord's declaration that when they are not performed, 'then, forsaking your own duty and fame, you will incur sin' (2.33), it stands out as (His) clearly stated foregone conclusion that one's own duties prescribed in such texts as, '(One shall perform Agnihotra) as long as one lives' etc., and actions which involve crutely to animals etc. are not sinful.
युद्ध-लक्षणम् - युद्धं लक्षणं यस्य तत् [कर्म] - बहुव्रीहिः
गुरु-भ्रातृ-पुत्रादि-हिंसा-लक्षणम्
१) गुरुः च भ्राता च पुत्रः च, गुरु-भ्रातृ-पुत्राः - द्वन्द्वः
२) गुरु-भ्रातृ-पुत्राः आदिः येषां ते, गुरु-भ्रातृ-पुत्र-आदयः - बहुव्रीहिः
३) गुरु-भ्रातृ-पुत्र-आदीनां हिंसा, गुरु-भ्रातृ-पुत्रादि-हिंसा - षष्ठीतत्पुरुषः
४) गुरु-भ्रातृ-पुत्रादि-हिंसा लक्षणं यस्य तत् [कर्म] - बहुव्रीहिः
यावज्-जीवादि-श्रुति-चोदितानाम्
१) 'यावत् जीव' [इति वाक्यम्] आदिः यासां ताः , यावज्-जीवादयः [श्रुतयः] - बहुव्रीहिः
२) यावज्-जीवादयः श्रुतयः, यावज्-जीवादि-श्रुतयः - कर्मधारयः
३) यावज्-जीवादि-श्रुतिभिः चोदितम्, तेषाम् - तृतीयातत्पुरुषः
पश्व्-आदि-हिंसा-लक्षणानाम्
१) पशुः आदिः येषां ते, पश्व्-आदयः - बहुव्रीहिः
२) पश्व्-आदीनां हिंसा, पश्व्-आदि-हिंसा - षष्ठीतत्पुरुषः
३) पश्व्-आदि-हिंसा लक्षणं यस्य तत् [कर्म], तेषाम् - बहुव्रीहिः
13. तदसत् ; ज्ञानकर्मनिष्ठयोर्विभागवचनाद्बुद्धिद्वयाश्रययोः । ‘अशोच्यान्’ (भ. गी. २ । ११) इत्यादिना भगवता यावत् ‘स्वधर्ममपि चावेक्ष्य’ (भ. गी. २ । ३१) इत्येतदन्तेन ग्रन्थेन यत्परमार्थात्मतत्त्वनिरूपणं कृतम् , तत्साङ्ख्यम् ।
anvayaḥ
[vedantin] tadasat(That is wrong) ; buddhi-dvayāśrayayoḥ(which are based on two (different) convictions (buddhi)) jñāna-karma-niṣṭhayor(between firm adherence (nistha) to Knowledge and to action) vibhāga-vacanād(because of the assertion of the distinction) which are based on two (different) convictions (buddhi))|
‘aśocyān’ (bha. gī. 2 | 11) ityādinā yāvat ‘svadharmam api cāvekṣya’ (bha. gī. 2 | 31) iti etad-antena granthena bhagavatā(by the Lord) yat paramārtha(supreme Reality)-ātmatattva(Absolute Self)-nirūpaṇaṃ kṛtam(determined) , tat sāṅkhyam(is called Sankhya) |
Vedantin: That is wrong because of the assertion of the distinction between firm adherence (nistha) to Knowledge and to action, which are based on two (different) convictions (buddhi).
The nature of the Self, the supreme Reality, determined by the Lord in the text beginning with 'Those who are not to be grieved for' (2.11) and running to the end of the verse, 'Even considering your own duty' (2.31), is called Sankhya.
एतद्-अन्तेन - एतस्य अन्तः, तेन - षष्ठीतत्पुरुषः
परमार्थ-आत्मतत्त्व-निरूपणं
१) परमः अर्थः, पर्मार्थः - कर्मधारयः
२) आत्मा एव तत्त्वम् , आत्मतत्त्वम् - कर्मधारयः
३) पर्मार्थः एव आत्मतत्त्वम्, परमार्थ-आत्मतत्त्वम् - कर्मधारयः
४) परमार्थ-आत्मतत्त्वस्य निरूपनम् - षष्ठीतत्पुरुषः
साङ्ख्यम्
१) सम्यक् ख्यायते, संख्या - उपपदसमासः। संख्या + अण् (इदमर्थे) ।
(सम्यक् ख्यायते प्रकाश्यते वस्तुतत्त्वमनयेति संख्या । सम्यक् ज्ञानं तस्यां, प्रकाशमानमात्मतत्त्वं सांख्यम् । https://ashtadhyayi.com/kosha?search=sAGkhya )
14. तद्विषया बुद्धिः आत्मनो जन्मादिषड्विक्रियाभावादकर्ता आत्मेति प्रकरणार्थनिरूपणात् या जायते, सा साङ्ख्य-बुद्धिः ।
सा येषां ज्ञानिनामुचिता भवति, ते साङ्ख्याः ।
anvayaḥ
prakaraṇa-artha-nirūpaṇāt(from the ascertainment of the meaning of the context BG 2.11-2.31) ātmanaḥ(of Self) janmādi-ṣaḍ-vikriyā-abhāvād(because of the absence in It of the six kinds of changes, viz birth etc) akartā ātmā iti(that the Self is not an agent) tadviṣayā buddhiḥ yā jāyate(the conviction with regard to That (supreme Reality) arising from), sā sāṅkhya-buddhiḥ (this is sankhya-buddhi)|
sā yeṣāṃ jñāninām(to those men of Knowledge to whom that (conviction)) ucitā bhavati(becomes natural), te sāṅkhyāḥ(they are sankhyas) |
Sankhya-buddhi [Sankhya is that correct (samyak) knowledge of the Vedas which reveals (khyayate) the reality of the Self, the supreme Goal. The Reality under discussion, which is related to this sankhya by way of having been revealed by it, is Sankhya.] (Conviction about the Reality) is the conviction with regard to That (supreme Reality) arising from the ascertainment of the meaning of the context [Ascertainment of the context, i.e., of the meaning of the verses starting from, 'Never is this One born, and never does It die,' etc. (20).] that the Self is not an agent because of the absence in It of the six kinds of changes, viz birth etc. [Birth, continuance, growth, transformation, decay and death.]
Sankhyas are those men of Knowledge to whom that (conviction) becomes natural.
प्रकरण-अर्थ-निरूपणात्
१) प्रकरणस्य अर्थः, प्रकरण-अर्थः - षष्ठीतत्पुरुषः
२) प्रकरण-अर्थस्य निरूपणं, तस्मात् - षष्ठीतत्पुरुषः
जन्मादि-षड्-विक्रिया-अभावात्
१) जन्म आदिः येषां ते, जन्मादयः - बहुव्रीहिः
२) षड् विक्रियाः, षड्-विक्रियाः - कर्मधारयः
३) जन्मादयः षड्-विक्रियाः, जन्मादि-षड्-विक्रियाः - कर्मधारयः
४) जन्मादि-षड्-विक्रियाणाम् अभावः, तस्मात् - बहुव्रीहिः
तद्-विषया - तत् [साङ्ख्यम्] विषयः यस्याः [बुद्धेः] सा - बहुव्रीहिः
साङ्ख्य-बुद्धिः - साङ्ख्यस्य बुद्धिः - षष्ठीतत्पुरुषः
15. एतस्या बुद्धेः जन्मनः प्राक् आत्मनो देहादिव्यतिरिक्तत्व-कर्तृत्वभोक्तृत्वाद्यपेक्षो धर्माधर्मविवेकपूर्वको मोक्षसाधनानुष्ठान-[निरूपण]-लक्षणो योगः । तद्विषया बुद्धिः योगबुद्धिः । सा येषां कर्मिणामुचिता भवति ते योगिनः ।
anvayaḥ
etasyāḥ buddheḥ janmanaḥ prāk(Prior to the rise of this Conviction (Sankhya-buddhi)) ātmanaḥ deha-ādi-vyatiriktatva-kartṛtva-bhoktṛtva-ādi-apekṣaḥ(which presupposes the Self's difference from the body etc. and Its agentship and enjoyership) dharma-adharma-viveka-pūrvakaḥ(which is based on a discrimination between virtue and vice) mokṣa-sādhana-anuṣṭhāna-[nirūpaṇa]-lakṣaṇaḥ(the ascertained of the performance of the disciplines leading to Liberation) yogaḥ | tad-viṣayā buddhiḥ yoga-buddhiḥ(The conviction with regard to that (Yoga) is Yoga-buddhi) |
sā yeṣāṃ karmiṇām ucitā bhavati(for whom this (conviction) is appropriate) te yoginaḥ(are called yogis) |
Prior to the rise of this Conviction (Sankhya-buddhi), the ascertained [Ast. and A.G. omit this word 'ascertainment, nirupana'-Tr.] of the performance of the disciplines leading to Liberation which is based on a discrimination between virtue and vice, [And adoration of God] and which presupposes the Self's difference from the body etc. and Its agentship and enjoyership is called Yoga. The conviction with regard to that (Yoga) is Yoga-buddhi.
The performers of rites and duties, for whom this (conviction) is appropriate, are called yogis.
देह-आदि-व्यतिरिक्तत्व-कर्तृत्व-भोक्तृत्व-आदि-अपेक्षः
१) देहः आदिः येषां ते, देहादयः - बहुव्रीहिः
२) देहादिभ्यः व्यतिरिक्तः, देह-आदि-व्यतिरिक्तः - पञ्चमीतत्पुरुषः। तस्य भावः 'त्वम्'
३) देह-आदि-व्यतिरिक्तत्वं च कर्तृत्वं च भोक्तृत्वं, देह-आदि-व्यतिरिक्तत्व-कर्तृत्व-भोक्तृत्वानि - द्वन्द्वः
४) देह-आदि-व्यतिरिक्तत्व-कर्तृत्व-भोक्तृत्वानि आदिः येषां ते, देह-आदि-व्यतिरिक्तत्व-कर्तृत्व-भोक्तृत्व-आदयः - बहुव्रीहिः
५) देह-आदि-व्यतिरिक्तत्व-कर्तृत्व-भोक्तृत्व-आदयः अपेक्षाः यस्य [योगस्य] सः - बहुव्रीहिः
धर्म-अधर्म-विवेक-पूर्वकः
१) धर्मः च अधर्मः च, धर्म-अधर्मौ - द्वन्द्वः
२) धर्म-अधर्मयोः विवेकः, धर्म-अधर्म-विवेकः - षष्ठीतत्पुरुषः
३) धर्म-अधर्म-विवेकः पूर्वं यस्य [योगस्य] सः - बहुव्रीहिः
मोक्ष-साधन-अनुष्ठान-[निरूपन]-लक्षणः
१) मोक्षस्य साधनम्, मोक्षसाधनम् - षष्ठीतत्पुरुषः
२) मोक्षसाधनस्य अनुष्ठानम्, मोक्ष-साधन-अनुष्ठानम् - षष्ठीतत्पुरुषः
३) मोक्ष-साधन-अनुष्ठानस्य निरूपनम्, मोक्ष-साधन-अनुष्ठान-निरूपनम् - षष्ठीतत्पुरुषः
४) मोक्ष-साधन-अनुष्ठान-निरूपनं लक्षनं यस्य [योगः] सः - बहुव्रीहिः
तद्-विषया - सः [योगः] विषयः यस्याः [बुद्धेः] सा - बहुव्रीहिः
योग-बुद्धिम् - योगस्य बुद्धिः - षष्ठीतत्पुरुषः
My notes: vedantis says, you need to have yoga-buddhi (mind, which is getting purified from upadhi (sharira-manas) by engaging in nishkama-karma-yoga), and after that it will lead you to sankhya-buddhi ('aham akarata/abhokta atma').
Steps of overall karma-yoga:
1) leave adharamic actions,
2) perform kamya-karma by dharmic way (in this step I still have a lot of kartrtva and bhoktrtva),
3) go to nishkama-karma (your bhoktrtva decreases),
4) go to bhakti/upasana (your kartrtva also decreases, you consider yourself nimitta-karanam: Bhagavan karayati, and I am a nimitta-karta, i accept everything with prasada-buddhi),
5) you go to shravanam-mananam-nididhyasanam which is sankhya part (here you're able to let go the attachments to body, because kartrtva and bhoktrtva are diluted, and mind is ready to go to the next plane: jiva-brahma-aikyam).
First 4 steps - dvaita, last step is advaita, 'jagat-mithyatva' becomes clear on the last step (jagat-baddha, there is no sattyatva-buddhi anymore)
16. तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे ‘एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु’ (भ. गी. २ । ३९) इति ।
anvayaḥ
tathā ca(Accordingly) bhagavatā dve buddhī vibhakte nirdiṣṭe(the two distinct Convictions have been pointed out by the Lord in the verse) ‘eṣā te'bhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu’ (bha. gī. 2 | 39) iti |
Accordingly, the two distinct Convictions have been pointed out by the Lord in the verse, 'This wisdom (buddhi) has been imparted to you from the standpoint of Self-realization (Sankhya). But listen to this (wisdom) from the standpoint of (Karma-) yoga' (2.39).
निर्दिष्टे - निश्चयेन दिष्टम् - प्रादितत्पुरुषः
17. तयोश्च साङ्ख्यबुद्ध्याश्रयां ज्ञानयोगेन निष्ठां साङ्ख्यानां विभक्तां वक्ष्यति ‘पुरा वेदात्मना मया प्रोक्ता’ (भ. गी. ३ । ३) इति ।
18. तथा च योगबुद्ध्याश्रयां कर्मयोगेन निष्ठां विभक्तां वक्ष्यति — ‘कर्मयोगेन योगिनाम्’ इति ।
anvayaḥ
tayoḥ ca(And of these two) sāṅkhyānāṃ(with reference to the Sankhyas) sāṅkhya-buddhyāśrayāṃ(which is based on Sankya-buddhi) vibhaktāṃ(separately) jñāna-yogena niṣṭhāṃ(of the firm adherence to the Yoga of Knowledge) vakṣyati(will speak) ‘purā vedātmanā* mayā proktā’ (bha. gī. 3 | 3) iti |
tathā ca yoga-buddhyāśrayāṃ(based on Yoga-buddhi (Conviction about Yoga)) vibhaktāṃ karma-yogena niṣṭhāṃ(of the firm adherence to the Yoga of Karma) vakṣyati — ‘karma-yogena yoginām’ iti |
* vedātmanā - this word is not in the shloka, but it is used by Shankracarya to explains "mayā"
And of these two, the Lord will separately speak, with reference to the Sankhyas, of the firm adherence to the Yoga of Knowledge [Here Yoga and Knowledge are identical. Yoga is that through which one gets connected, identified. with Brahman.] which is based on Sankya-buddhi, in, 'Two kinds of adherences were spoken of by Me in the form of the Vedas, in the days of yore.'
[This portion is ascending to G1.Pr. and A.A.; Ast. omits this and otes exactly the first line of 3.3. By saying, 'in the form of the Vedas', the Lord indicates that the Vedas, which are really the knowledge inherent in God and issue out of Him, are identical with Himself.-Tr.]
Similarly, in, 'through the Yoga of Action for the yogis' (3.3), He will separately speak of the firm adherence to the Yoga [Here also Karma and Yoga are identical, and lead to Liberation by bringing about purity of heart which is followed by steadfastness in Knowledge.] of Karma which is based on Yoga-buddhi (Conviction about Yoga).
साङ्ख्य-बुद्ध्याश्रयाम् -
१) साङ्ख्यस्य बुद्धिः, साङ्ख्य-बुद्धिः - षष्ठीतत्पुरुषः
२) साङ्ख्य-बुद्ध्याम् आश्रयम् यस्याः [निष्ठायाः] सा, ताम् - बहुव्रीहिः
वेदात्मना - वेदः आत्मा यस्य [भगवतः] सः, तेन - बहुव्रीहिः
योग-बुद्ध्याश्रयाम् -
१) योग-बुद्धिम् - योगस्य बुद्धिः - षष्ठीतत्पुरुषः
२) योग-बुद्ध्याम् आश्रयम् यस्याः [निष्ठायाः] सा, ताम् - बहुव्रीहिः
19. एवं साङ्ख्यबुद्धिं योगबुद्धिं च आश्रित्य द्वे निष्ठे विभक्ते भगवतैव उक्ते ज्ञानकर्मणोः कर्तृत्व-अकर्तृत्व-अनेकत्व-एकत्व-बुद्ध्याश्रययोः युगपदेकपुरुषाश्रयत्वासम्भवं पश्यता ।
anvayaḥ
evaṃ(that) jñāna-karmaṇoḥ(of Knowledge and rites and duties) kartṛtva-akartṛtva-anekatva-ekatva-buddhi-āśrayayoḥ(they being based on the convictions of non-agentship and agentship, unity and diversity) yugapad(the coexistence) eka-puruṣa-āśrayatva-asambhavaṃ(is not possible in the same person) bhagavatā paśyatā(who saw), [tadā] sāṅkhya-buddhiṃ yoga-buddhiṃ(the conviction about the nature of the Self, and that based on the conviction about rites and duties) ca āśritya [bhagavatā] dve niṣṭhe(the two kinds of steadfastness that based on) vibhakte(distinctly) eva ukte(spoken)
Thus, the two kinds of steadfastness that based on the conviction about the nature of the Self, and that based on the conviction about rites and duties have been distinctly spoken of by the Lord Himself, who saw that the coexistence of Knowledge and rites and duties is not possible in the same person, they being based on the convictions of non-agentship and agentship, unity and diversity (respectively).
कर्तृत्व-अकर्तृत्व-अनेकत्व-एकत्व-बुद्धिः-आश्रययोः
१) कर्तृत्वं च अकर्तृत्वं च अनेकत्वं च एकत्वं, कर्तृत्व-अकर्तृत्व-अनेकत्व-एकत्वानि - द्वन्द्वः
२) कर्तृत्व-अकर्तृत्व-अनेकत्व-एकत्वानां बुद्धिः, कर्तृत्व-अकर्तृत्व-अनेकत्व-एकत्व-बुद्धिः - षष्ठीतत्पुरुषः
३) कर्तृत्व-अकर्तृत्व-अनेकत्व-एकत्व-बुद्ध्याम् आश्रयम् ययोः [निष्ठयोः] ते, कर्तृत्व-अकर्तृत्व-अनेकत्व-एकत्व-बुद्ध्याश्रये, तयोः - बहुव्रीहिः
एक-पुरुष-आश्रयत्व-असम्भवम्
१) एकः पुरुषः, एक-पुरुषः - कर्मधारयः
२) एक-पुरुषे आश्रयम्, एक-पुरुष-आश्रयम् - सप्तमीतत्पुरुषः, तस्य भावः 'त्व'
३) एक-पुरुष-आश्रयत्वस्य असम्भवः, तम् - षष्ठीतत्पुरुषः
साङ्ख्य-बुद्धिम् - साङ्ख्य-विषयका [साङ्ख्य-विषया] बुद्धिः, ताम्- मध्यमपदलोपी
योग-बुद्धिम् - योगस्य बुद्धिः, ताम् - षष्ठीतत्पुरुषः
20. यथा एतद्विभागवचनम् , तथैव दर्शितं शातपथीये ब्राह्मणे — ‘एतमेव प्रव्राजिनो लोकमिच्छन्तो ब्राह्मणाः प्रव्रजन्ति’ इति सर्वकर्मसंन्यासं विधाय तच्छेषेण ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इति ।
anvayaḥ
yathā etad-vibhāga-vacanam(As is this teaching about the distinction (of the two adherences)), tathā eva śātapathīye brāhmaṇe darśitaṃ(just so has it been revealed in the Satapatha Brahmana) — ‘etam eva lokam icchantaḥ(desiring this world (the Self - ātmā-loka)) pravrājinaḥ brāhmaṇāḥ pravrajanti(monks and Brahmanas renounce their homes)’ iti sarva-karma-saṃnyāsaṃ vidhāya(after thus enjoining renunciation of all rites and duties) tat-śeṣeṇa(in addition to that) ‘kiṃ prajayā kariṣyāmaḥ yeṣāṃ naḥ ayam ātmā ayaṃ lokaḥ(for us, who want achieve or have already achieved the ātmā-loka)’ (bṛ. u. 4 | 4 | 22) iti [darśitaṃ] |
As is this teaching about the distinction (of the two adherences), just so has it been revealed in the Satapatha Brahmana: 'Desiring this world (the Self) alone monks and Brahmanas renounce their homes' (cf. Br. 4.4.22). After thus enjoining renunciation of all rites and duties, it is said in continuation, 'What shall we acheive through childeren, we who have attained this Self, this world (result).'
[The earlier quotation implies an injuction (vidhi) for renunciation, and the second is an arthavada, or an emphasis on that injunction.
Arthavada: A sentence which usually recommends a vidhi, or precept, by stating the good arising from its proper observance, and the evils arising from its omission; and also by adducing historical instances in its support.-V.S.A]
एतद्-विभाग-वचनम्
१) एतयोः विभागः, एतद्-विभागः - षष्ठीतत्पुरुषः
२) एतद्-विभागस्य वचनम्, एतद्-विभाग-वचनं, तम् - षष्ठीतत्पुरुषः
सर्व-कर्म-संन्यासं
१) सर्वाणि कर्माणि, सर्वकर्माणि - कर्मधारयः
२) सर्व-कर्मणां सन्न्यासः, सर्व-कर्म-संन्यासः, तम् - षष्ठीतत्पुरुषः
तत्-शेषेण - तस्य शेषः, तेन - षष्ठीतत्पुरुषः
21. तत्र च प्राक् दारपरिग्रहात् पुरुषः आत्मा प्राकृतो धर्मजिज्ञासोत्तरकालं लोकत्रयसाधनम् — पुत्रम् , द्विप्रकारं च वित्तं मानुषं दैवं च ; तत्र मानुषं कर्मरूपं पितृलोकप्राप्तिसाधनं विद्यां च दैवं वित्तं देवलोकप्राप्तिसाधनम् — ‘सोऽकामयत’ (बृ. उ. १ । ४ । १७) इति अविद्याकामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि ।
anvayaḥ
tatra dāra-parigrahāt prāk(before marriage) dharma-jijñāsa-uttara-kālaṃ(after he has dharma-jijñāsa - enquiries into rites and duties) ca prākṛtaḥ ātmā puruṣaḥ(a man is in his natural state) loka-traya-sādhanam [akāmayata](he for the attainment of the three worlds [desired] as their means): (1)putram(a son), dviprakāraṃ(and the two kinds of wealth consists of) (2)mānuṣaṃ ca (3)daivaṃ ca vittaṃ;
tatra mānuṣaṃ [vittaṃ is] karma-rūpaṃ [which leads to] pitṛ-loka-prāpti-sādhanaṃ(rites and duties that lead to the world of manes);
daivaṃ vittaṃ vidyāṃ ca [which leads to] deva-loka-prāpti-sādhanam(and the divine wealth of acvisition of vidya (meditation) which leads to heaven) —
‘saḥ akāmayata’ (bṛ. u. 1 | 4 | 17) iti avidyā-kāmavataḥ(are meant for one who has avidya and kama) eva sarvāṇi karmāṇi śrauta-ādīni(rites and duties enjoined by the Vedas etc) darśitāni(it is shown that) |
Again, there itself it is said that, before accepting a wife a man is in his natural state [The state of ignorance owing to non-realization of Reality. Such a person is a Brahmacarin, who goes to a teacher for studying the Vedas] and (then) after his enquiries into rites and duties, [The Brahmacarin first studies the Vedas and then enires into their meaning. Leaving his teacher's house after completing his course, he becomes a house holder.] 'he' for the attainment of the three worlds [This world, the world of manes and heaven.-Tr.] 'desired' (see Br. 1.4.17) as their means a son and the two kinds of wealth consists of rites and duties that lead to the world of manes, and the divine wealth of acvisition of vidya (meditation) which leads to heaven.
In this way it is shown that rites and duties enjoined by the Vedas etc. are meant only for one who is unenlightened and is posessed of desire.
दार-परिग्रहात् - दारस्य परिग्रहः, तस्मात् - षष्ठीतत्पुरुषः
धर्म-जिज्ञास-उत्तर-कालम्
१) धर्मस्य जिज्ञासा, धर्म-जिज्ञासा - षष्ठीतत्पुरुषः
२) उत्तरः कालः, उत्तर-कालः - कर्मधारयः
३) धर्म-जिज्ञासायाः(5.1) उत्तर-कालः यस्य [लोकत्रयसाधनस्य] तत् - बहुव्रीहिः
यद्वा, धर्म-जिज्ञासायाः उत्तर-कालः - पञ्चमीतत्पुरुषः (after dharma-jijñāsa)
लोक-त्रय-साधनम्
१) लोकानां त्रयम्, लोक-त्रयम् - षष्ठीतत्पुरुषः
२) लोक-त्रयस्य साधनम् (means to achieve) - षष्ठीतत्पुरुषः
कर्म-रूपम् - कार्म रूपं यस्य तत् [वित्तम्] - बहुव्रीहिः
पितृ-लोक-प्राप्ति-साधनम्
१) पितॄणां लोकः, पितृ-लोकः - षष्ठीतत्पुरुषः
२) पितृ-लोकस्य प्राप्तिः, पितृ-लोक-प्राप्तिः - षष्ठीतत्पुरुषः
३) पितृ-लोक-प्राप्तेः साधनम् - षष्ठीतत्पुरुषः
देव-लोक-प्राप्ति-साधनम्
१) देवानां लोकः, देव-लोकः - षष्ठीतत्पुरुषः
२) देव-लोकस्य प्राप्तिः, देव-लोक-प्राप्तिः - षष्ठीतत्पुरुषः
३) देव-लोक-प्राप्तेः साधनम् - षष्ठीतत्पुरुषः
अविद्या-कामवतः -
१) आविद्या च कामः च, आविद्या-कामौ - द्वन्द्वः
२) आविद्या-कामौ अस्य/अस्मिन् वा अस्ति अविद्या-कामवान्, मतुप् । तस्य
श्रौत-आदीनि
१) श्रुतौ विहितं अण् - श्रौतम्
२) श्रौतं आदिः येषां तानि, श्रौत-आदीनि [कर्माणि] - बहुव्रीहिः
22. तेभ्यः ‘व्युत्थाय, प्रव्रजन्ति’ इति व्युत्थानमात्मानमेव लोकमिच्छतोऽकामस्य विहितम् ।
anvayaḥ
‘vyutthāya pravrajanti’(going beyond them (desires)) iti ātmānam eva lokam icchataḥ(of one who desires the world that is the Self - moksha) akāmasya(and who is devoid of hankering) tebhyaḥ(only for those who) vyutthānam vihitam(the injunction to renounce)|
And in the text, 'After renouncing they take to mendicancy' (see Br. 4.4.22), the injunction to renounce is only for one who desires the world that is the Self, and who is devoid of hankering (for anything else).
23. तदेतद्विभागवचनमनुपपन्नं स्याद्यदि श्रौतकर्मज्ञानयोः समुच्चयोऽभिप्रेतः स्याद्भगवतः ॥
24. न च अर्जुनस्य प्रश्न उपपन्नो भवति ‘ज्यायसी चेत्कर्मणस्ते’ (भ. गी. ३ । १) इत्यादिः ।
anvayaḥ
yadi bhagavataḥ śrauta-karma-jñānayoḥ(of Knowledge with Vedic rites and duties) samuccayaḥ(combination) abhipretaḥ(intention) syāt(were), [tarhi] tad-etad-vibhāga-vacanam(this utterance about the distinction) anupapannaṃ(untenable, illogical) syād(would have been) ||
‘jyāyasī cetkarmaṇaste’ (bha. gī. 3 | 1) ityādiḥ ca arjunasya praśnaḥ upapannaḥ na bhavati(Nor would Arjuna's question be proper) |
Now, if the intention of the Lord were the combination of Knowledge with Vedic rites and duties, then this utterance (of the Lord) (3.3) about the distinction would have been illogical.
Nor would Arjuna's question, 'If it be Your opinion that wisdom (Knowledge) is superior to action (rites and duties)' etc. (3.1) be proper.
श्रौत-कर्म-ज्ञानयोः
१) श्रुतौ विहितं अण् - श्रौतम्
२) कर्म च ज्ञानं च, कर्मज्ञाने - द्वन्द्वः
३) श्रौते कर्मज्ञाने, श्रौत-कर्म-ज्ञाने, तयोः - कर्मधारयः
तद्-एतद्-विभाग-वचनम्
१) तत् च एतत् च, तदेते - द्वन्दः
२) तदेतयोः विभागः, तदेतद्-विभागः - षष्ठीतत्पुरुषः
३) तदेतद्-विभागस्य वचनम्, तदेतद्-विभाग-वचनम् - षष्ठीतत्पुरुषः
25. एकपुरुषानुष्ठेयत्वासम्भवं बुद्धिकर्मणोः भगवता पूर्वमनुक्तं कथमर्जुनः अश्रुतं बुद्धेश्च कर्मणो ज्यायस्त्वं भगवत्यध्यारोपयेन्मृषैव ‘ज्यायसी चेत्कर्मणस्ते मता बुद्धिः’ (भ. गी. ३ । १) इति ॥
anvayaḥ
buddhi-karmaṇoḥ(of Knowledge and rites and duties) eka-puruṣa-anuṣṭheyatva-asambhavaṃ(of the impossibility of the pursuit (them two) by the same person (at the same time)), buddheḥ karmaṇaḥ jyāyastvaṃ(the higher status of Knolwedge over rites and duties) bhagavatā pūrvam anuktaṃ [cet] (If the Lord had not spoken earlier), arjunaḥ aśrutaṃ ca(and if was not heard by Arjuna), katham mṛṣā eva bhagavati adhyāropayet(how could Arjuna falsely impute to the Lord by saying) ‘jyāyasī cetkarmaṇaste matā buddhiḥ’ (bha. gī. 3 | 1) iti ||
If the Lord had not spoken earlier of the impossibility of the pursuit of Knowledge and rites and duties by the same person (at the same time), then how could Arjuna falsely impute to the Lord by saying, 'If it be your opinion that wisdom is superior to action' (of having spoken) what was not heard by him, viz the higher status of Knolwedge over rites and duties?
एक-पुरुष-अनुष्ठेयत्व-असम्भवम्
१) एकः पुरुषः, एक-पुरुषः - कर्मधारयः
२) एक-पुरुषेण [समुच्चयः] अनुष्ठेयः, एक-पुरुष-अनुष्ठेयः - तृतीयातपुरुषः, तस्य भावः 'त्व'
३) एक-पुरुष-अनुष्ठेयस्य असम्भवः, तम् - षष्ठीतत्पुरुषः
अध्यारोपः - अधि + आ + रुह (बीजजन्मादौ) + णिच् + घञ् अच् वा । (रुहँ बीजजन्मनि प्रादुर्भावे च)
26. किञ्च — यदि बुद्धिकर्मणोः सर्वेषां समुच्चय उक्तः स्यात् अर्जुनस्यापि स उक्त एवेति, ‘यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्’ (भ. गी. ५ । १) इति कथमुभयोरुपदेशे सति अन्यतरविषय एव प्रश्नः स्यात् ?
anvayaḥ
kiñca(morevoer) — yadi sarveṣāṃ buddhi-karmaṇoḥ samuccayaḥ uktaḥ syāt(if it be that the combination of Knowledge with rites and duties was spoken of for all), arjunasya api saḥ [samuccayaḥ] uktaḥ eva iti(then it stands enjoined, ipso facto, on Arjuna as well), ‘yacchreya etayorekaṃ tanme brūhi suniścitam’ (bha. gī. 5|1) iti ubhayoḥ upadeśe sati(if instruction had been given for practising both) katham anyatara-viṣayaḥ eva [arjunasya] praśnaḥ syāt(then how could the question about 'either of the two' arise) ?
Morevoer, if it be that the combination of Knowledge with rites and duties was spoken of for all, then it stands enjoined, ipso facto, on Arjuna as well. Therefore, if instruction had been given for practising both, then how could the question about 'either of the two' arise as in, 'Tell me for certain one of these (action and renunciation) by which I may attain the highest Good' (3.2)?
27. न हि पित्तप्रशमनार्थिनः वैद्येन मधुरं शीतलं च भोक्तव्यम् इत्युपदिष्टे तयोरन्यतरत्पित्तप्रशमनकारणं ब्रूहि इति प्रश्नः सम्भवति ॥
anvayaḥ
pitta-praśamana-arthinaḥ(for the patient who is desirous to subside acidity) vaidyena(by doctor) madhuraṃ śītalaṃ ca bhoktavyam iti upadiṣṭe(he should take things which are sweet and soothing), tayoḥ anyatarat(which one of these two) pitta-praśamana-kāraṇaṃ(to be taken as a means to cure biliousness) brūhi(tell me) iti praśnaḥ na hi sambhavati(question is not raised) ||
Indeed, when a physician tells a patient who has come for a cure of his biliousness that he should take things which are sweet and soothing, there can arise no such question as, 'Tell me which one of these two is to be taken as a means to cure biliousness'!
पित्त-प्रशमन-अर्थिनः
१) पित्तस्य प्रशमनम्, पित्त-प्रशमनम् - षष्ठीतत्पुरुषः
२) पित्त-प्रशमनम् अर्थयति, पित्त-प्रशमनम् अर्थयितुम् शीलम् यस्य - ताच्छीलिके णिनि उपपदसमासः च । पित्त-प्रशमन-अर्थी, तस्य
पित्त-प्रशमन-कारणम्
१) पित्तस्य प्रशमनम्, पित्त-प्रशमनम् - षष्ठीतत्पुरुषः
२) पित्त-प्रशमनस्य कारणम् - षष्ठीतत्पुरुषः
28. अथ अर्जुनस्य भगवदुक्तवचनार्थविवेकानवधारणनिमित्तः प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं देयम् — मया बुद्धिकर्मणोः समुच्चय उक्तः, किमर्थमित्थं त्वं भ्रान्तोऽसि — इति ।
29. न तु पुनः प्रतिवचनमननुरूपं पृष्टादन्यदेव ‘द्वे निष्ठे मया पुरा प्रोक्ते’ (भ. गी. ३ । ३) इति वक्तुं युक्तम्॥
anvayaḥ
atha(again) arjunasya(Arjuna's) bhagavad-ukta-vacana-artha-viveka-anavadhāraṇa-nimittaḥ(because of noncomprehension of the distinct meaning of what the Lord had said) praśnaḥ(question) kalpyeta(if it be imagined), tathāpi bhagavatā(than by Bhagavan) praśna-anurūpaṃ(according to this question) — mayā buddhi-karmaṇoḥ samuccaya uktaḥ, kimartham itthaṃ tvaṃ bhrāntaḥ asi('The combination of Knowledge with rites and duties was spoken of by Me. Why are you confused thus?') — iti prativacanaṃ deyam(the Lord ought to have answered in accordance with the question) |
punaḥ tu(On the other hand) pṛṣṭāt(from what was asked [by Arjuna]) anyat([to give] another [answer]) eva(such as) an-anurūpaṃ(not keeping with) prati-vacanam([Bhagavn's] answer) ‘dve niṣṭhe mayā purā prokte’ (bha. gī. 3 | 3) iti vaktuṃ na yuktam(to say this [would be] not be proper)||
Again, if it be imagined that Arjuna put the question because of his noncomprehension of the distinct meaning of what the Lord had said, even then the Lord ought to have answered in accordance with the question: 'The combination of Knowledge with rites and duties was spoken of by Me. Why are you confused thus?'
On the other hand, it was not proper to have answered, 'Two kinds of steadfastness were spoken of by Me it the days of yore,' in a way that was inconsistent and at variance with the question.
भगवद्-उक्त-वचन-अर्थ-विवेक-अनवधारण-निमित्तः
१) भगवता उक्तम्, भगवद्-उक्तम् - तृतीयातत्पुरुषः
२) भगवद्-उक्तं वचनम्, भगवद्-उक्त-वचनम् - कर्मधारयः
३) भगवद्-उक्त-वचनस्य अर्थः, भगवद्-उक्त-वचन-अर्थः - षष्ठीतत्पुरुषः
४) भगवद्-उक्त-वचन-अर्थस्य विवेकः, भगवद्-उक्त-वचन-अर्थ-विवेकः - षष्ठीतत्पुरुषः
५) भगवद्-उक्त-वचन-अर्थ-विवेकस्य अनवधारणम्, भगवद्-उक्त-वचन-अर्थ-विवेक-अनवधारणम् - षष्ठीतत्पुरुषः
६) भगवद्-उक्त-वचन-अर्थ-विवेक-अनवधारणम् इति निमित्तम् यस्य सः [प्रश्नः] - बहुव्रीहिः
प्रश्न-अनुरूपम्
१) रूपस्य सदृशः योग्यः वा, अनुरूपम् - अव्ययीभावः
२) प्रश्नस्य अनुरूपम् - षष्ठीतत्पुरुषः
प्रतिवचनम् - प्रतिरूपं वचनम् - प्रादिसमासः https://ashtadhyayi.com/kosha?search=prativacana
30. नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चये अभिप्रेते विभागवचनादि सर्वमुपपन्नम् ।
31. किञ्च — क्षत्रियस्य युद्धं स्मार्तं कर्म स्वधर्म इति जानतः ‘तत्किं कर्मणि घोरे मां नियोजयसि’ (भ. गी. ३ । १) इति उपालम्भोऽनुपपन्नः ॥
anvayaḥ
api [ca] smārtena eva karmaṇā(with karmas enjoined by the Smrtis only) buddheḥ(of knowledge) samuccaye(combination) abhiprete(if it were intended that) vibhāga-vacana-ādi sarvam(all the statements about distinction etc) upapannam na(would not be logical) [syāt]|
kiñca(Besides) — smārtaṃ karma yuddhaṃ kṣatriyasya svadharmaḥ(fighting was a Ksatriya's natural duty enjoined by the Smrtis) iti jānataḥ(of knowing [Arjunasya]) ‘tatkiṃ karmaṇi ghore māṃ niyojayasi’ (bha. gī. 3 | 1) iti upālambhaḥ(accusation) anupapannaḥ(is not logical) [syāt]||
Nor even do all the statements about distinction etc. become logical if it were intended that Knowledge was to be combined with rites and duties enjoined by the Smrtis only.
Besides, the accusation in the sentence, 'Why then do you urge me to horrible action' (3.1) becomes illogical on the part of Arjuna who knew that fighting was a Ksatriya's natural duty enjoined by the Smrtis.
विभाग-वचन-आदि
१) विभागस्य वचनम्, विभाग-वचनम् - षष्ठीतत्पुरुषः
२) विभाग-वचनम् आदिः, यस्य तत् - बहुव्रीहिः
32. तस्माद्गीताशास्त्रे ईषन्मात्रेणापि श्रौतेन स्मार्तेन वा कर्मणा आत्मज्ञानस्य समुच्चयो न केनचिद्दर्शयितुं शक्यः ।
anvayaḥ
tasmāt(Therefore) gītā-śāstre(in the scripture called the Gita) ātmajñānasya(of Knowledge of the Self) śrautena smārtena vā karmaṇā(with rites and duties enjoined by the Srutis or the Smrtis) īṣat-mātreṇa(even a little bit) api samuccayaḥ(combination) kenacit(for anyone) darśayituṃ na śakyaḥ(it is not possible) |
Therefore, it is not possible for anyone to show that in the scripture called the Gita there is any combination, even in the least, of Knowledge of the Self with rites and duties enjoined by the Srutis or the Smrtis.
गीता-शास्त्रे - गीता इति शास्त्रम्, तस्मिन् - कर्मधारयः
आत्म-ज्ञानस्य - आत्मनः ज्ञानम्, तस्य - षष्ठीतत्पुरुषः
ईषत्-मात्रेण - ईषत् एव, तेन - तत्पुरुषः (मयूरव्यंसकादिः)
ईषन्मात्रेण – ईषद् एव ईषन्मात्रम्, तेन (मयूरव्यंसककर्मधारयः) (Swamiji)
ईषन्मात्रेण – ईषद् मात्रम् (विशेषणपूर्वपदकर्मधारयः) (Vidyabhagini)
33. यस्य तु अज्ञानात् रागादिदोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्धसत्त्वस्य ज्ञानमुत्पन्नम्परमार्थतत्त्वविषयम् ‘एकमेवेदं सर्वं ब्रह्म अकर्तृ च’ इति,
anvayaḥ
yasya tu ajñānāt rāgādi-doṣataḥ vā(because of ignorance and defects like the attachment) karmaṇi pravṛttasya(who had engaged himself in rites and duties), yajñena dānena tapasā vā [tasya] viśuddha-sattvasya(and then got his mind purified through sacrifices, charities or austerities) paramārtha-tattva-viṣayam(about the supreme Reality) ‘ekamevedaṃ sarvaṃ brahma akartṛ ca’ iti(that all this is but One, and Brahman is not an agent) jñānam utpannam(there arises the knowledge),
But in the case of a man who had engaged himself in rites and duties because of ignorance and defects like the attachment, and then got his mind purified through sacrifices, charities or austerities (see Br. 4.4.22), there arises the knowledge about the supreme Reality that all this is but One, and Brahman is not an agent (of any action).
रागादि-दोषतः
१) रागः आदिः येषां ते, रागादयः - बहुव्रीहिः
२) रागादयः दोषाः, रागादि-दोषाः - कर्मधारयः, तसिल् प्रत्ययः च
विशुद्ध-सत्त्वस्य - विशुद्धं सत्त्वं(essence) यस्य सः - बहुव्रीहिः
परमार्थ-तत्त्व-विषयम्
१) परमः अर्थः, परमार्थः - कर्मधारयः
२) परमार्थस्य तत्त्वम्, परमार्थ-तत्त्वम् - षष्ठीतत्पुरुषः
३) परमार्थ-तत्त्वं विषयः यस्य [ज्ञानस्य] तत् - बहुव्रीहिः
My notes:
Viśuddha-sattvaH - one who has purified his antaH-karanam (manaH, buddhiH)
* AntaHkarana has 4 parts: mana, buddhi, citta, ahankara. When we talk about vishuddha-sattva, we talk about 2 of them: manaH and buddhi
33.1 तस्य कर्मणि कर्मप्रयोजने च निवृत्तेऽपि लोकसङ्ग्रहार्थं यत्नपूर्वं यथा प्रवृत्तिः, तथैव प्रवृत्तस्य यत्प्रवृत्तिरूपं दृश्यते न तत्कर्म येन बुद्धेः समुच्चयः स्यात् ;
anvayaḥ
tasya(With regard to him) karmaṇi karma-prayojane ca nivṛtte api(although there is a cessation of rites and duties as also of the need for them) yatna-pūrvaṃ(diligent continuance in those rites and duties, just as before) loka-saṅgrahārthaṃ(for setting an example before people) yathā pravṛttiḥ(activities), tathā eva [karmaṇi] yat pravṛtti-rūpaṃ pravṛttasya dṛśyate(yet, what may appear as his diligent continuance), tat karma na(that is no action), yena [karmaṇā] buddheḥ samuccayaḥ syāt(that is no action in which case it could have stood combined with Knowledge);
With regard to him, although there is a cessation of rites and duties as also of the need for them, yet, what may, appear as his diligent continuance, just as before, in those rites and duties for setting an example before people that is no action in which case it could have stood combined with Knowledge.
कर्म-प्रयोजने - कर्मणः प्रयोजनम्, तस्मिन् - षष्ठीतत्पुरुषः
लोक-सङ्ग्रहार्थं
१) लोकस्य सङ्ग्रहः - षष्ठीतत्पुरुषः
२) लोक-सङ्ग्रहाय इदम् - चतुर्थीतत्पुरुषः
यत्न-पूर्वम् - यत्नेन पूर्वम् - तृतीयातत्पुरुषः
प्रवृत्ति-रूपम् - प्रवृत्तेः सदृशम् - अव्ययीभावः
34. यथा भगवतो वासुदेवस्य क्षत्रधर्मचेष्टितं [क्षात्र-कर्म-चेष्टितं] न ज्ञानेन समुच्चीयते पुरुषार्थसिद्धये, तद्वत् तत्फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वाद्विदुषः। तत्त्वविन्नाहं करोमीति मन्यते, न च तत्फलमभिसन्धत्ते ।
anvayaḥ
yathā(just like) bhagavataḥ vāsudevasya kṣatra-dharma-ceṣṭitaṃ[kṣātra-karma-ceṣṭitaṃ](the actions in the form of performance of the duty of a Ksatriya) jñānena(with Knowledge) puruṣārtha-siddhaye(for the sake of achieving the human goal (Liberation)) na samuccīyate(do not get combined), tadvat(similar) viduṣaḥ(of the man of Knowledge) tat-phala-abhisandhi-ahaṅkāra-abhāvasya(because of the absence of hankering for results and agentship) [bhagavatā] tulyatvāt(similar to Bhagavan) [karma jñānena puruṣārtha-siddhaye na samuccīyate] |
tattvavit na ahaṃ karomi iti manyate, na ca tat-phalam abhisandhatte(nor does he hanker) |
Just as the actions of Lord Vasudeva, in the form of performance of the duty of a Ksatriya, do not get combined with Knowledge for the sake of achieving the human goal (Liberation), similar is the case with the man of Knowledge because of the absence of hankering for results and agentship.
Indeed, a man who has realized the Truth does not think 'I am doing (this)' nor does he hanker after its result.
पाठभेदः (१)
क्षत्र-धर्म-चेष्टितम्
१) क्षत्रस्य धर्मः, क्षत्र-धर्मः - षष्ठीतत्पुरुषः
२) क्षत्र-धर्मस्य चेष्टितम् - षष्ठीतत्पुरुषः (performance of the dharma of a Ksatriya)
पाठभेदः (२)
क्षात्र-कर्म-चेष्टितम्
क्षत्रस्य इदम् क्षात्रम् (तद्धितन्तः)
१) क्षात्रं कर्म, क्षात्र-कर्म - कर्मधारयः
२) क्षात्र-कर्मणः चेष्टितम् - षष्ठीतत्पुरुषः (performance of the Ksatriya-karma)
[Here, चेष्टितम् is in the meaning of अनुष्ठानम् or चेष्टा। Therefore, it is a 6T. It can also be 3T – क्षात्रकर्मणा चेष्टितम् (चेष्टा in the form of क्षात्रकर्म)। (Swamiji)
पुरुषार्थ-सिद्धये - पुरुषार्थस्य सिद्धिः, तस्यै - षष्ठीतत्पुरुषः
तत्फल-अभिसन्धि-अहङ्कार-अभावस्य
१) तस्य [कर्मणः] फलं, तत्फलम् - षष्ठीतत्पुरुषः
२) तत्फलस्य अभिसन्धिः, तत्फल-अभिसन्धिः - षष्ठीतत्पुरुषः
३) तत्फल-अभिसन्धिः च अहङ्कारः च, तत्फल-अभिसन्धि-अहङ्कारौ - द्वन्द्वः
४) तत्फल-अभिसन्धि-अहङ्कारयोः अभावः, तस्य - षष्ठीतत्पुरुषः
अभिसन्धत्ते - अभि + सम् + धत्ते https://ashtadhyayi.com/dhatu/03.0011
35. यथा च स्वर्गादिकामार्थिनः अग्निहोत्रादिकर्मलक्षणधर्मानुष्ठानाय [अग्निहोत्रादि-काम्य-साधन-अनुष्ठानाय or अग्निहोत्रादि-काम्य-साधन-अनुष्ठानाय] आहिताग्नेः काम्ये एव अग्निहोत्रादौ प्रवृत्तस्य सामिकृते विनष्टेऽपि कामे तदेव अग्निहोत्राद्यनुतिष्ठतोऽपि [अग्निहोत्राद्यनुष्ठिते अपि] न तत्काम्यमग्निहोत्रादि भवति ।
anvayaḥ
yathā ca svarga-ādi-kāma-arthinaḥ(person hankering after such desirable things as heaven etc) āhita-agneḥ(of one who sarts fire) agnihotra-ādi-karma-lakṣaṇa-dharma-anuṣṭhānāya(for the performance of duties in the form of acts like Agnihotra etc) [agnihotrādi-kāmya-sādhana-anuṣṭhānāya or agnihotrādi-kāmya-sādhana-anuṣṭhānāya] kāmye agnihotrādau(desired-based agnihotra etc) sāmikṛte(half-done) eva pravṛttasya(of one who performs agnihotra) kāme vinaṣṭe(when [his] desires are destroyed) api tadeva(this same) agnihotrādi-anutiṣṭhataḥ [agnihotrādi-anuṣṭhite](keeping performing agnihora) api na tat agnihotrādi kāmyam bhavati(that agnihotra is not anymore for obtaining desirable objects) |
Again, as for instance, person hankering after such desirable things as heaven etc. may light up a fire for performing such rites as Agnihotra etc. which are the mans to attain desirable things; [The Ast. reading is: Agnihotradi-karma-laksana-dharma-anusthanaya, for the performance of duties in the form of acts like Agnihotra etc.-Tr.] then, while he is still engaged in the performance of Agnihotra etc. as the means for the desirable things, the desire may get destroyed when the rite is half-done. He may nevertheless continue the performance of those very Agnihotra etc.; but those performance of those very Agnihotra etc.; but those Agnihotra etc. cannot be held to be for this personal gain.
स्वर्ग-आदि-काम-अर्थिनः
१) स्वर्गः आदिः येषं ते, स्वर्गादयः - बहुव्रीहिः
२) स्वर्गादयः कामाः, स्वर्ग-आदि-कामाः - कर्मधारयः
३) स्वर्ग-आदि-कामान् आर्थयति/अर्थयितुम् शीलम् यस्य - ताच्छीलिके णिनि उपपदसमासः च ।
आहित-अग्नेः - आहितः अग्निः येन सः, तस्य - बहुव्रीहिः
पाठभेदः (१)
अग्निहोत्रादि-कर्म-लक्षण-धर्म-अनुष्ठानाय
१) अग्नये होत्रम् यस्मिन् [कर्मणि] तत् [कर्म] अग्निहोत्रम् - बहुव्रीहिः https://ashtadhyayi.com/kosha?search=agnihotra
२) अग्निहोत्रम् आदि येषां तानि [कर्माणि], अग्निहोत्र-आदीनि - बहुव्रीहिः
३) अग्निहोत्र-आदीनि कर्माणि - कर्मधारयः
४) अग्निहोत्र-आद-कर्माणि लक्षणं यस्य [धर्मस्य] सः, अग्निहोत्रादिकर्म-लक्षणः - बहुव्रीहिः
५) अग्निहोत्रादिकर्म-लक्षणः धर्मः, अग्निहोत्रादिकर्म-लक्षण-धर्मः - कर्मधारयः
६) अग्निहोत्रादिकर्म-लक्षण-धर्मस्य अनुष्ठानम्, तस्मै - षष्ठीतत्पुरुषः
पाठभेदः (२)
अग्निहोत्रादि-काम्य-साधन-अनुष्ठानाय
१) अग्नये होत्रम् यस्मिन् [कर्मणि] तत् [कर्म] अग्निहोत्रम् - बहुव्रीहिः https://ashtadhyayi.com/kosha?search=agnihotra
२) काम्यानां साधनम्(means of desirables), काम्यसाधनम् - षष्ठीतत्पुरुषः
३) अग्निहोत्रम् आदि येषां तानि [काम्यसाधनानि], अग्निहोत्र-आदीनि - बहुव्रीहिः
४) अग्निहोत्र-आदीनि काम्यसाधनानि, अग्निहोत्र-आदि-काम्य-साधनानि - कर्मधारयः
५) अग्निहोत्र-आदि-काम्य-साधनानाम् अनुष्ठानम्, तस्मै - षष्ठीतत्पुरुषः
पाठभेदः (३)
अग्निहोत्रादि-काम-साधन-अनुष्ठानाय
१) अग्नये होत्रम् यस्मिन् [कर्मणि] तत् [कर्म] अग्निहोत्रम् - बहुव्रीहिः https://ashtadhyayi.com/kosha?search=agnihotra
२) कामानाम् साधनम्, कामसाधनम् - षष्ठीतत्पुरुषः
३) अग्निहोत्रम् आदि येषां तानि [कामसाधनानि], अग्निहोत्र-आदीनि - बहुव्रीहिः
४) अग्निहोत्र-आदीनि कामसाधनानि, अग्निहोत्र-आदि-काम-साधनानि - कर्मधारयः
५) अग्निहोत्र-आदि-काम-साधनानाम् अनुष्ठानम्, तस्मै - षष्ठीतत्पुरुषः
सामिकृते - सामि + कृ + क्त, तस्मिन् - द्वितीयातत्पुरुषः (it could be both, either samasa, or two separate words: सामिकृते, सामि कृते) https://ashtadhyayi.com/sutraani/2/1/27
https://worldsanskrit.net/wiki/14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH#सामि_(२.१.२७)
पाठभेदः (१)
अग्निहोत्रादि-अनुष्ठिते
१) अग्नये होत्रम् यस्मिन् [कर्मणि] तत् [कर्म] अग्निहोत्रम् - बहुव्रीहिः https://ashtadhyayi.com/kosha?search=agnihotra
२) अग्निहोत्रम् आदि यस्य तत् [कर्म], अग्निहोत्र-आदि - बहुव्रीहिः
३) अग्निहोत्र-आदि अनुष्ठितम् (agnihotradi which is being executed/performed), तस्मिन् - कर्मधारयः
पाठभेदः (२)
अग्निहोत्रादि-अनुतिष्ठतः
१) अग्नये होत्रम् यस्मिन् [कर्मणि] तत् [कर्म] अग्निहोत्रम् - बहुव्रीहिः https://ashtadhyayi.com/kosha?search=agnihotra
२) अग्निहोत्रम् आदि येस्य तत् [कर्म], अग्निहोत्र-आदि - बहुव्रीहिः
३) अग्निहोत्र-आदिम् अनुतिष्ठन्, अग्निहोत्रादि-अनुतिष्ठन्, तस्य - द्वितीयातत्पुरुषः
36. तथा च दर्शयति भगवान् — ‘कुर्वन्नपि न लिप्यते’ (भ. गी. ५ । ७) ‘न करोति न लिप्यते’ (भ. गी. १३ । ३१) इति तत्र तत्र ॥
anvayaḥ
tathā ca bhagavān — ‘kurvannapi na lipyate’ (bha. gī. 5 | 7) ‘na karoti na lipyate’ (bha. gī. 13 | 31) iti tatra tatra darśayati ||
Accordingly does the Lord also show in various places that, 'even while perfroming actions,' he does not act, 'he does not become tainted' (5.7).
37. यच्च ‘पूर्वैः पूर्वतरं कृतम्’ (भ. गी. ४ । १५) ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ (भ. गी. ३ । २०) इति, तत्तु प्रविभज्य विज्ञेयम् ।
anvayaḥ
yacca ‘pūrvaiḥ pūrvataraṃ kṛtam’ (bha. gī. 4 | 15) ‘karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ’ (bha. gī. 3 | 20) iti, tattu pravibhajya(knowing this division between two paths - karma and jnanam) vijñeyam(to be understood analytically) |
As for the texts, 'as was performed earlier by the ancient ones' (4.15), 'For Janaka and others strove to attain Liberation through action itself' (3.20), they are to be understood analytically.
38. तत्कथम् ?
Objection: How so?
यदि तावत् पूर्वे जनकादयः तत्त्वविदोऽपि प्रवृत्तकर्माणः स्युः, ते लोकसङ्ग्रहार्थम् ‘गुणा गुणेषु वर्तन्ते’ (भ. गी. ३ । २८) इति ज्ञानेनैव संसिद्धिमास्थिताः, कर्मसंन्यासे प्राप्तेऽपि कर्मणा सहैव संसिद्धिमास्थिताः, न कर्मसंन्यासं कृतवन्त इत्यर्थः ।
anvayaḥ
yadi tāvat(As to that, if) pūrve janakādayaḥ(if Janaka and others of old) tattvavidaḥ api(even though they have obtained jnanam) pravṛtta-karmāṇaḥ syuḥ(remained engaged in activity), te loka-saṅgraha-artham(they did so for preventing people from going astray) ‘guṇā guṇeṣu vartante’ (bha. gī. 3 | 28) iti jñānena eva(only by such knowledge) saṃsiddhim āsthitāḥ(while remaining established in realization), karma-saṃnyāse prāpte api(even though they were eligible for external renunciation) karmaṇā saha eva(they remained with karma) saṃsiddhim āsthitāḥ(those who already attained moksha), na karma-saṃnyāsaṃ kṛtavantaḥ(without giving up external duties) ityarthaḥ(the idea is this) |
Vedantin: As to that, if Janaka and others of old remained engaged in activity even though they were knowers of Reality, they did so for preventing people from going astray, while remaining established in realization verily through the knowledge that 'the organs rest (act) on the objects of the organs' (3.28). The idea is this that, though the occasion for renunciation of activity did arise, they remained established in realization along with actions; they did not give up their rites and duties.
तत्त्ववित् - तत्त्वं वेत्ति - उपपदसमासः
प्रवृत्त-कर्माणः - प्रवृत्ताणि कर्माणि यस्य सः, प्रवृत्त-कर्मा, ते - बहुव्रीहिः
लोक-सङ्ग्रह-अर्थम्
१) लोकस्य सङ्ग्रहः, लोक-सङ्ग्रहः - षष्ठीतत्पुरुषः
२) लोक-सङ्ग्रहाय इदम् - चतुर्थीतत्पुरुषः
39. अथ न ते तत्त्वविदः ; ईश्वरसमर्पितेन कर्मणा साधनभूतेन संसिद्धिं सत्त्वशुद्धिम् , ज्ञानोत्पत्तिलक्षणां वा संसिद्धिम् , आस्थिता जनकादय इति व्याख्येयम् ।
anvayaḥ
atha(On the other hand) te na tattvavidaḥ [cet] (if they were not knowers of Reality); [tarhi] īśvara-samarpitena sādhana-bhūtena karmaṇā(through the discipline of dedicating karma to God, i.e. karma is in the form of instrument) sattva-śuddhim saṃsiddhiṃ(remained established in perfection (samsiddhi) either in the form of purification of mind), jñāna-utpatti-lakṣaṇāṃ saṃsiddhim(or rise of Knowledge - moksha) vā janakādayaḥ āsthitāḥ(Janaka and others remained) iti vyākhyeyam(then the explanation should be this) |
On the other hand, if they were not knowers of Reality, then the explanation should be this: Through the discipline of dedicating rites and duties to God, Janaka and others remained established in perfection (samsiddhi) either in the form of purification of mind or rise of Knowledge.
ईश्वर-समर्पितेन - ईश्वराय समर्पितम्, तेन - चतुर्थीतत्पुरुषः
साधन-भूतेन - साधनत्वं प्राप्तम्/भूतम्, तेन - द्वितीयातत्पुरुषः (karma obtains the status of being the means)
सत्त्व-शुद्धिम् - सत्त्वस्य शुद्धिः, ताम् - षष्ठीतत्पुरुषः
ज्ञान-उत्पत्ति-लक्षणाम्
१) ज्ञानसय उत्पत्तिः, ज्ञान-उत्पत्तिः - षष्ठीतत्पुरुषः
२) ज्ञान-उत्पत्तिः लक्षणम् यस्याः सा [संसिद्धिः], ताम् - बहुव्रीहिः
Notes:
Why Shankara mentions "sattva-śuddhim saṃsiddhiṃ(remained established in perfection (samsiddhi) either in the form of purification of mind), jñāna-utpatti-lakṣaṇāṃ saṃsiddhim(or rise of Knowledge - moksha) vā" ? There are two views here about how karma contributes:
1) Karmayoga contributes towards the purity of mind and that is it. Karma has no role afterwards. This is भामतिसम्प्रदायमतम् ।
2) Another view point is that it contributes to the rise of knowledge even after purity of mind is achieved by प्रतिबन्धकाभाव for अज्ञाननिवृत्ति। This is विवरणसम्प्रदायमतम्।
41. एवमेवार्थं वक्ष्यति भगवान् ‘सत्त्वशुद्धये कर्म कुर्वन्ति’ (भ. गी. ५ । ११) इति । ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’ (भ. गी. १८ । ४६) इत्युक्त्वा सिद्धिं प्राप्तस्य पुनर्ज्ञाननिष्ठां वक्ष्यति — ‘सिद्धिं प्राप्तो यथा ब्रह्म’ (भ. गी. १८ । ५०) इत्यादिना ॥
anvayaḥ
evameva bhagavān arthaṃ vakṣyati ‘sattva-śuddhaye karma kurvanti’ (bha. gī. 5 | 11) iti | [ātma-śuddhaye - for antaHkarana-shuddhi]
‘svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ’ (bha. gī. 18 | 46) iti uktvā siddhiṃ prāptasya punar jñāna-niṣṭhāṃ vakṣyati(He will again speak of the steadfastness in Knowledge of a person who has attained success) — ‘siddhiṃ prāpto yathā brahma’ (bha. gī. 18 | 50) ityādinā ||
This very idea [The idea that rites and duties become the cause of Knowledge through the purification of the mind] will be expressed by the Lord in, '(the yogis) undertake action for the purification of oneself (i.e. of the heart, or the mind)' (5.11).
After having said, 'A human being achieves success by adoring Him through his own duties' [By performing one's own duty as enjoined by scriptures and dedicating their results to God, one's mind becomes purified. Then, through Gods grace one becomes fit for steadfastness in Knowledge. From that steadfatness follows Liberation. Therefore rites and duites do not directly lead to Liberation. (See Common. under 5.12) (18.46)], He will again speak of the steadfastness in Knowledge of a person who has attained success, in the text, '(Understand from Me that process by which) one who has achieved success attains Brahman' (18.50).
42. तस्माद्गीताशास्त्रे केवलादेव तत्त्वज्ञानान्मोक्षप्राप्तिः न कर्मसमुच्चितात् , इति निश्चितोऽर्थः । यथा चायमर्थः, तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः ॥
anvayaḥ
tasmāt gītā-śāstre kevalāt tattva-jñānāt eva mokṣa-prāptiḥ, na karma-samuccitāt, iti niścitaḥ arthaḥ | yathā ca ayam arthaḥ, tathā prakaraṇaśaḥ vibhajya tatra tatra darśayiṣyāmaḥ ||
So, the definite conclusion in the Gita is that Liberation is attained only from the knowledge of Reality, and not from its combination with action. And by pointing out in the relevant contexts the (aforesaid) distinction, we shall show how this conclusion stands.
कर्म-समुच्चितात् - कर्मणा समुच्चितम् , तस्मात् - तृतीयातत्पुरुषः
प्रकरणशः - प्रकरण + शस् (५-४-४३)
43. तत्रैवं धर्मसंमूढचेतसो मिथ्याज्ञानवतो महति शोकसागरे निमग्नस्य अर्जुनस्य अन्यत्रात्मज्ञानादुद्धरणमपश्यन् भगवान्वासुदेवः ततः कृपया अर्जुनमुद्दिधारयिषुः आत्मज्ञानायावतारयन्नाह —
anvayaḥ
tatra evaṃ dharma-saṃmūḍha-cetasaḥ(of one whose mind is confused as regards to duty) mithyā-jñānavataḥ(of one who has false knowledge) mahati śoka-sāgare nimagnasya arjunasya uddharaṇam ātma-jñānād anyatra [anyat](there is no other solution/salvation (for Arjuna's issues) than atma-jnana) apaśyan(having seen) bhagavān vāsudevaḥ tataḥ kṛpayā arjunam uddidhārayiṣuḥ ātma-jñānāya avatārayan āha —
That being so, Lord Vasudeva found that for Arjuna, whose mind was thus confused about what ought to be done [The ast. and A.A., have an additional word mithyajnanavatah, meaning 'who had false ignorance'.-Tr.] and who was sunk in a great ocean of sorrow, there could be no rescue other than through the knowledge of the Self. And desiring to rescue Arjuna from that, He said, ['(You grieve for) those who are not to be grieved for,' etc. by way of introducing the knowledge of the Self].
धर्म-संमूढ-चेतसः
१) धर्मे सम्मूढम् धर्मसम्मूढम् - सप्तमीतत्पुरुषः
२) धर्मसम्मूढम् चेतः यस्य सः, तस्य - बहुव्रीहिः
मिथ्या-ज्ञानवतः - मिथ्या ज्ञानम्, मिथ्याज्ञानम् - कर्मधारयः, मिथ्याज्ञानम् अस्य/अस्मिन् वा अस्ति मतुप् मिथ्याज्ञानवान्, तस्य
शोक-सागरे - यद्वा, शोकः इति सागरः; यद्वा, शोकः सागरः इव, तस्मिन् - कर्मधारयः https://ashtadhyayi.com/sutraani/2/1/56
आत्मज्ञानाय - आत्मनः ज्ञानम्, तस्मै - https://ashtadhyayi.com/sutraani/2/3/65 -66
उद्दिधारयिषुः - उत् + धृञ् (धारणे) + णिच् + सन् + उ
अवतारयन् - अव + तॄ + णिच् + शतृ
[In this Gita there are three distinct parts, each part consisting of six chapters. These three parts deal with the three words of the great Upanisadic saying, 'Tattvamasi, thou art That', with a view to finding out their real meanings. The first six chapters are concerned with the word tvam (thou); the following six chapters determine the meaning of the word tat (that); and the last six reveal the essential identity of tvam and tat. The disciplines necessary for realization this identity are stated in the relevant places.]
************************
Notes from नैष्कर्म्यसिद्धिः about the path proceeding from karma to jnana:
नित्य-कर्मानुष्ठानात् धर्मोत्पत्तिः, धर्मोत्पत्तेः पापहानिः, ततः चित्तशुद्धिः, ततः संसारयाथात्म्यावबोधः, ततः वैराग्यं, ततः मुमुक्षुत्वं, ततः तद्-उपाय-पर्येषणम्, ततः सर्व-कर्म-तत्साधन-संन्यासः, ततः योगाभ्यासः, ततः चित्तस्य प्रत्यक्प्रवणता, ततः तत्-त्वम्-असि-आदि-वाक्य-अर्थ-परिज्ञानं, ततः अविद्या-उच्छेदः, ततः च स्वात्मनि एव अवस्थानं, "ब्रह्मैव सन् ब्रह्माप्येति", "विमुक्तश्च विमुच्यते" इति।