15.20
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ २० ॥
iti guhya-tamaṁ śāstram
idam uktaṁ mayānagha
etad buddhvā buddhimān syāt
kṛta-kṛtyaś ca bhārata
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
ити — так; (ав)
гухйа-тамам — самое сокровенное; (с, 1.1)
ш́а̄страм — богооткровенное писание; (с, 1.1)
идам — это; (с, 1.1)
уктам — поведано; (с, 1.1)
майа̄ — Мной; (3.1)
анагха — о безгрешный; (м, 8.1)
этат — это; (с, 2.1)
буддхва̄ — поняв; (ав)
буддхи-ма̄н — разумный; (м, 1.1)
сйа̄т — станет; (видхилиГ, 1.1) अस्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;असँ;अदादिः}https://ashtadhyayi.com/dhatu/02.0060?type=ting&form
кр̣та-кр̣тйах̣ — тот, кто сделал то, что должно быть сделано; (м, 1.1)
ча — и; (ав)
бха̄рата — о потомок Бхараты (м, 8.1)
अन्वय: anvayaḥ
अनघ! इति गुह्यतमम् इदम् शास्त्रम् मया उक्तम्। भारत! एतत् बुद्ध्वा (जीवः) बुद्धिमान् कृतकृत्यः च स्यात् ।
anagha! iti guhyatamam idam śāstram mayā uktam| bhārata! etat buddhvā (jīvaḥ) buddhimān kṛtakṛtyaḥ ca syāt |
or
he anagha! iti (evam-prakāreṇa) guhyatamam (atīva gopanīyaṁ) idaṁ śāstraṁ mayā uktam, he bhārata! buddhimān etad (mat-kathitaṁ pūrvoktaṁ puruṣottamaṁ māṁ) buddhvā kṛta-kṛtyaḥ (kṛtārthaḥ) ca syāt.
The Subodhinī commentary by Śrīdhara
adhyāyārthamupasaṃharati itīti | ityanena saṃkṣepaprakāreṇa guhyatamamatirahasyaṃ sampūrṇaṃ śāstrameva mayoktam | na tu punarviṃśatiślokamadhyāyamātraṃ he anagha vyasanaśūnya | ata etanmaduktaṃ śāstraṃ buddhyā buddhimān samyagjñānī syaāt | ṛtakṛtyaśca syāt | yo'pi ko'pi he bhārata tvaṃ kṛtakṛtyo'sīti kiṃ vaktavyamiti bhāvaḥ ||20||
saṃsāraśākhinaṃ chittvā spaṣṭaṃ pañcadaśe vibhuḥ |
puruṣottamayogākhye paraṃ padamupādiśat ||
iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ puruṣottamayogo nāma pañcadaśo'dhyāyaḥ ||15||
Sanskrit Commentary By Sri Shankaracharya
।।15.20।। -- इति एतत् गुह्यतमं गोप्यतमम्? अत्यन्तरहस्यं इत्येतत्। किं तत् शास्त्रम्। यद्यपि गीताख्यं समस्तम् शास्त्रम् उच्यते? तथापि अयमेव अध्यायः इह शास्त्रम् इति उच्यते स्तुत्यर्थं प्रकरणात्। सर्वो हि गीताशास्त्रार्थः अस्मिन् अध्याये समासेन उक्तः। न केवलं गीताशास्त्रार्थ एव? किंतु सर्वश्च वेदार्थः इह परिसमाप्तः। यस्तं वेद स वेदवित् (गीता 15।1) वेदैश्च सर्वैरहमेव वेद्यः (गीता 15।15) इति च उक्तम्। इदम् उक्तं कथितं मया हे अनघ अपाप। एतत् शास्त्रं यथादर्शितार्थं बुद्ध्वा बुद्धिमान् स्यात् भवेत् न अन्यथा कृतकृत्यश्च भारत कृतं कृत्यं कर्तव्यं येन सः कृतकृत्यः विशिष्टजन्मप्रसूतेन ब्राह्मणेन यत् कर्तव्यं तत् सर्वं भगवत्तत्त्वे विदिते कृतं भवेत् इत्यर्थः न च अन्यथा कर्तव्यं परिसमाप्यते कस्यचित् इत्यभिप्रायः। सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते (गीता 4।33) इति च उक्तम्। एतद्धि जन्मसामग्र्यं ब्राह्मणस्य विशेषतः। प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा (मनुस्मृति 12।93) इति च मानवं वचनम्। यतः एतत् परमार्थतत्त्वं मत्तः श्रुतवान् असि? अतः कृतार्थः त्वं भारत इति।।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य,श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये पञ्चदशोऽध्यायः।।
Перевод
О безгрешный, Я открыл тебе самую сокровенную часть Вед. Тот, кто сумеет постичь ее смысл, обретет мудрость, и его труды приведут его к совершенству.
व्याकरणम् vyākaraṇam - грамматика