2.6.2 सर्वनामपदानि

Упражнения

2.6.2 - सर्वनामपदानि sarvanāmapadāni - местоимения

Упражнения

А) अभ्यासः सर्वनामपदानि परिशीलयतु, तेषां लिङ्गं, वचनं , विभक्तिं च लिखतु sarvanāmapadāni pariśīlayatu| teṣāṃ liṅgaṃ, vacanaṃ , vibhaktiṃ ca likhatu

यशोदा गोपालं आह्वयति , वदति yaśodā gopālaṃ āhvayati , vadati -

य - गोपाल ! अत्र आगच्छ । तव अग्रजः रामः कुत्र अस्ति? gopāla ! atra āgaccha | tava agrajaḥ rāmaḥ kutra asti?

गो - मातः ! सः उद्याने बालकैः सह क्रीडति। mātaḥ ! saḥ udyāne bālakaiḥ saha krīḍati|

य - युवयोः वत्साः कुत्र सन्ति? yuvayoḥ vatsāḥ kutra santi?

गो - आवयोः वत्साः अपि तस्मिन् उद्याने एव सन्ति। āvayoḥ vatsāḥ api tasmin udyāne eva santi|

य - तत्र पुनः के के सन्ति? tatra punaḥ ke ke santi?

गो - तत्र श्रीदामा , सुदामा , सुबलः च सन्ति । tatra śrīdāmā, sudāmā, subalaḥ ca santi |

य - तेषां वत्साः कुत्र सन्ति? teṣāṃ vatsāḥ kutra santi?

गो - तेषां वत्साः क्षेत्रे चरन्ति। ते तृणं खादन्ति। teṣāṃ vatsāḥ kṣetre caranti| te tṛṇaṃ khādanti|

य - त्वया अपि खादनीयम्। मया पाकः कृतः। tvayā api khādanīyam| mayā pākaḥ kṛtaḥ|

गो - अस्तु, अम्ब ! मित्रैः सह खादामः। तान् सर्वान् आह्वयामि वा?

astu, amba ! mitraiḥ saha khādāmaḥ| tān sarvān āhvayāmi vā?

य -  सर्वे अत्र आगच्छन्तु , युष्माकं कृते भोजनं परिवेषयामि।

sarve atra āgacchantu | yuṣmākaṃ kṛte bhojanaṃ pariveṣayāmi|

B) अभ्यासः सर्वनामपदानि परिशीलयतु, तेषां लिङ्गं, वचनं , विभक्तिं च लिखतु sarvanāmapadāni pariśīlayatu| teṣāṃ liṅgaṃ, vacanaṃ , vibhaktiṃ ca likhatu

गोपिकाः शाटिका-क्रयणार्थम् आपणम् आगच्छन्ति

gopikāḥ śāṭikā-krayaṇa-artham āpaṇam āgacchanti –

 

आपणिकः āpaṇikaḥ

- सर्वासां स्वागतम् । भवत्यः किं किम् इच्छन्ति?

sarvāsāṃ svāgatam | bhavatyaḥ kiṃ kim icchanti?  

लता latā

- अहं सुन्दरीं शाटिकाम् इच्छामि। कृपया महोदय, मह्यं  पीतवर्ण-शाटिकां दर्शयतु ।

ahaṃ sundarīṃ śāṭikām icchāmi| kṛpayā mahodaya, mahyaṃ  pītavarṇa-śāṭikāṃ darśayatu |

सीता sītā

- लते, एषा शाटिका सुन्दरी अस्ति ! तुभ्यं रोचते वा ?

late, eṣā śāṭikā sundarī asti ! tubhyaṃ rocate vā ?

लता latā

- आम् , एषा शाटिका समीचीना। तुभ्यं का शाटिका रोचते?

ām , eṣā śāṭikā samīcīnā| tubhyaṃ kā śāṭikā rocate?

सीता sītā

- मह्यं सा रक्तापीत-शाटिका रोचते, एषा अपि नीलवर्ण-शाटिका अत्युत्तमा।

mahyaṃ sā raktāpīta-śāṭikā rocate, eṣā api nīlavarṇa-śāṭikā atyuttamā|

गौरी gaurī

- सीते, त्वम् एताम् एव नीलवर्ण-शाटिकां क्रीणीहि।

sīte, tvam etām eva nīlavarṇa-śāṭikāṃ krīṇīhi|

सीता sītā

- अस्तु ! गौरि, तुभ्यं का शाटिका रोचते? astu ! gauri, tubhyaṃ kā śāṭikā rocate?

गौरी gaurī

- मह्यं शाटिकाः न रोचन्ते। परन्तु , मह्यं एतत् कङ्कणं रोचते ! एतस्मिन् कङ्कणे अद्भुताः मणयः सन्ति। mahyaṃ śāṭikāḥ na rocante| parantu , mahyaṃ etat kaṅkaṇaṃ rocate ! etasmin kaṅkaṇe adbhutāḥ maṇayaḥ santi|  

लता latā

- हे प्रिये , मह्यम् कङ्कणं दर्शय ! आहा , एतत् अद्भुतम् ! एतानि मौक्तिकानि पश्य ! निश्चयेन क्रीणीहि। he priye , mahyam kaṅkaṇaṃ darśaya ! āhā , etat adbhutam ! etāni mauktikāni paśya ! niścayena krīṇīhi|

C) अभ्यासः उदाहरणं दृष्ट्वा  रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu