🙏This site is under construction. 🙏Please co-operate with us.🙏
अकृत्वा परसन्तापमगत्वा खलनम्रताम् ।
अनुत्सृज्य सतां वर्त्म यदल्पमपि तद् बहु ॥१॥
अन्वयः-
परसन्तापम् अकृत्वा खलनम्रताम् अगत्वा सतां वर्त्म अनुत्सृज्य यद् अल्पम् अपि तत् बहु
अनुवादः-
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥७॥
अन्वयः-
अयम् निजः परः वा इति गणना लघुचेतसाम् तु उदारचरितानाम् वसुधा एव कुटुम्बकम्
अनुवादः-
उष्ट्राणां लग्नवेलायां गीतं गायन्ति गर्दभाः।
परस्परं प्रशंसन्ति अहो रूपमहो ध्वनिः॥१९॥
अन्वयः-
उष्ट्राणाम् लग्नवेलायाम् गर्दभाः गीतम् गायन्ति परस्परम् प्रशंसन्ति अहो रूपम् अहो ध्वनिः
अनुवादः-
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्।
अयैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः॥६०॥
अन्वयः-
नीति-निपुणाः यदि निन्दन्तु स्तुवन्तु वा लक्ष्मीः यथेष्टं समाविशतु गच्छतु वा मरणम् अद्य एव वा युगान्तरे वा अस्तु धीराः न्याय्यात् पथः पदं न प्रविचलन्ति
अनुवादः-
मनसि वचसि काये पुण्यपीयूषपूर्णा
स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः।
परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः॥७०॥
अन्वयः-
मनसि वचसि काये पुण्य-पीयूष-पूर्णाः त्रि-भुवनम् उपकार-श्रेणिभिः प्रीणयन्तः पर-गुण-परमाणून् पर्वतीकृत्य नित्यं निज-हृदि विकसन्तः सन्तः कियन्तः सन्ति
अनुवादः-