एकः शृगालः अस्ति | सः बुभुक्षितः | सः वनं गच्छति | सः द्राक्षालतां पश्यति | एषा द्राक्षालता | शृगालः द्राक्षाम् इच्छति | सः एकवारं उत्पतति | सः पतति | सः पुनः उत्पतति | सः पुनः पतति | सः पुनः पुनः उत्पतति | सः द्राक्षां न प्राप्नोति | सः वदति "द्रक्षाः आम्लाः " | सः वदति |"अहं न इच्छामि" | शृगालः अन्यत्र गच्छति |