किरातार्जुनीयकथा

किरातार्जुनीयकथा

(July 24, 2013)

Kirātārjunīya (Sanskrit: किरातार्जुनीय, Of Arjuna and the Kirāta) is a Sanskrit kāvya by Bhāravi, written in the 6th century or earlier. It is an epic poem in eighteen cantos describing the combat between Arjuna and lord Shiva in the guise of a kirāta or mountain-dwelling hunter. Along with the Naiṣadhacarita and the Shishupala Vadha, it is one of the larger three of the six Sanskrit mahakavyas, or great epics.[1] It is noted among Sanskrit critics both for its gravity or depth of meaning, and for its forceful and sometimes playful expression. This includes a canto set aside for demonstrating linguistic feats, similar to constrained writing. Later works of epic poetry followed the model of the Kirātārjunīya. (from wikipedia).

What follows here is my version of the story based on the prose description in संस्कृतभारति’s शिक्षा textbooks.

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥

॥ अथ प्रथमोऽध्यायः ॥

नत्वा व्यासं ततस्तस्य महतो भारतादिमाम् । ह्रस्वां हि रचयाम्यत्र किरातार्जुनयोः कथाम् ॥१॥

पुरा द्यूते धर्मराजः कपटेन पराजितः । रिक्तो भूत्वा राज्यधनैः बद्धश्च नियमेन सः ॥२॥

वर्षाणां द्वादशानां तु वनवासमनन्तरम् । वर्षस्यैकस्य चाज्ञातवासं कर्तुं जगाम ह ॥३॥

वने वसन् भार्यया च चतुर्भिरनुजैस्सह । व्याधं स कञ्चिदायूह तमिदं वाक्यमब्रवीत् ॥४॥

गच्छ त्वं हस्तिनां व्याध गुप्तवेषं धरंस्ततः । दुर्योधनः कथं तत्र राज्यं पालयतीति च ॥५॥

प्रजास्तु सुखिनो वेति दृष्ट्वा मां ब्रूहि विस्तरम् । एवमुक्त: किरातस्तु हस्तिनां प्राविशत्ततः ॥६॥

छद्मरूपं धरन् व्याधः तत्र सद्ब्रह्मचारिणः । नागराणां हस्तिनायाः मध्ये सम्मिलितोऽभवत् ॥७॥

अधस्तादपि वृक्षाणां गृहाणां पुरतस्तथा । शृणोति स्म जनानां सः संवादांस्तु दिने दिने ॥८॥

एवं ज्ञात्वा हस्तिनायाः प्रत्यगच्छद्वनं ततः । दृष्ट्वा युधिष्ठिरं व्याधः नत्वा तं पुनरब्रवीत् ॥९॥

हे युधिष्ठिर धर्मज्ञ गुप्तचर्या कृता मया । वदाम्यहं तु यत्सर्वं दृष्टवान् श्रुतवानिति ॥१०॥

दुर्योधनो हस्तिनायां सिंहासन उपस्थितः । भुञ्जानोऽपि महद्राज्यं युष्मद्भीत्यैव वर्तते ॥११॥

इदानीं नीतिमार्गेण चरन् राज्यं स शासते । सेवकान् मित्रवत् पश्यन् सुहृदो बन्धुवत् तथा ॥१२॥

बन्धूंश्च स्वामिभावेन प्रीणयत्येष सर्वदा । आदेशं तस्य सामन्ताः पालयन्ति निरन्तरम् ॥१३॥

सुभिक्षमस्ति तद्राज्यं वृक्षाश्च फलपुष्पिणः । वृत्तान्तान्यन्यराज्याणां कथ्यन्ते गुप्तचारिभिः ॥१४॥

एवं हि वर्तमानस्सः समित्रः प्रबलो भवेत् । तं विजेतुं कथञ्चित्त्वम् उपायं कर्तुमर्हसि ॥१५॥

श्रुत्वा किरातस्य वचांसि राजा युधिष्ठिरः प्रीतमना बभूव ।

तस्मै ददौ किञ्चन पारितोषं संप्रेषयामास च धन्यवाग्भिः ॥१६॥

युधिष्ठिरोऽब्रबीत्सर्वां धार्तराष्ट्र्रकथां श्रुताम् । सन्तुष्टः चतुरो भ्रातॄन् द्रौपदी चापि शुश्रुवे ॥१७॥

शृण्वती सा त्विमां वाचं द्रौपदी क्रोधपीडिता । अश्रुपूर्णाब्जनयना भर्तारमिदमब्रवीत् ॥१८॥

यद्धितम् तत्प्रवक्ष्यामि श्रुणु मे पाण्डवाग्रज । मा भूदुपेक्षा मद्वाक्ये स्त्रीसल्लापमिति त्वया ॥१९॥

दुष्टस्स कपटी पापी येन द्यूते पराजितः । इदानीं वनवासे त्वं सङ्कष्टे पतितोऽसि भोः ॥२०॥

यस्याज्ञया हि तद्ब्राता मानभङ्गचिकीर्षया । दुस्शासनस्तु मां वेण्या कर्षन्नानीतवान् सभाम् ॥२१॥

पुनर्यस्याज्ञया ह्येव कर्षिता मम शाटिका । अक्षय्यवस्त्रदानेन त्वहं कृष्णेन रक्षिता ॥२२॥

राज्यलक्ष्मीं परित्यज्य त्वमत्रासि विवासितः । अतस्सदा तल्पशायी भीमश्शेतेऽद्य भूतले ॥२३॥

यस्तु पूर्वे सुवर्णस्य राशिमानीतवान् जयी । वल्कलं हि धरन् ह्यत्र वसत्यत्र धनञ्जयः ॥२४॥

नकुलस्सहदेवश्च कनीयांसौ तवानुजौ । कोमलाङ्गौ शयातेद्य नित्यं कठिनभूतले ॥२५॥

एतत्सर्वं मया दृष्ट्वा महान् कष्टोऽनुभूयते । कथं परिस्थितावस्यां कुपितो न भविष्यसि ॥२६॥

शान्तिर्मुनीनामुचिता हि वृत्तिः न क्षत्रियाणां भवतीह लोके ।

क्रुद्धा भवेयुः किल रक्षणार्थं धर्मस्य योधा युधि विक्रमार्थम् ॥२७॥

हे धर्मराज कुपितो भव मास्तु शान्तिः

दुर्योधनस्तु कपटी च तवास्ति शत्रुः ।

युद्धेच्छया किल बलं परिवर्धमानः

सिद्धो भव त्वमपि तं समरे विजेतुम् ॥२८॥

गङ्गाया यमुनायाश्च प्रवहद्भिरिवाश्रुभिः । सिक्तस्निग्धाम्बरा कृष्णा ततस्तूष्णीं बभूव ह ॥२९॥

॥ इति किरातार्जुनीयकथायां प्रथमोऽध्यायः ॥

॥ अथ द्वितीयोऽध्यायः ॥

श्रुत्वा तस्या वचनं त्वर्थपूर्णं दृष्ट्वा तस्या वदनं शोकपूर्णम् ।

क्रोधं शोकं स्वबलं सन्निरुन्धन् वाचं चैनां भीमसेनो बभाषे ॥१॥

द्रौपद्या वचनं भ्रातः सुन्दरं चार्थगर्भितम् । बृहस्पतिर्न शक्येत ईदृशे वाक्यकौशले ॥२॥

स्वीकुरुष्व तया प्रोक्तं त्वं ज्ञानी किल बुद्धिमान् । कथं बुद्धिर्न शक्ता ते ज्ञातुं कौरववञ्चनम् ॥३॥

देवाश्च पूर्वमस्माकम् अभ्यनन्दन् हि पौरुषम् । इदानीं यद्दर्शयामः तत्तैरेवापहस्यते ॥४॥

क्षत्रियाणां पौरुषं हि प्रधानं नैव दीनता । सर्वैरप्यवमन्यन्ते क्षत्रिया दैन्यदर्शिनः ॥५॥

त्वया द्वादशवर्षाणाम् अवधिस्तु निरीक्षते । तद्व्यर्थं हि महाभाग समरायास्तु सिद्धता ॥६॥

यः प्राप्तां सम्पदं कश्चित् विपुलां प्रतियच्छति । अशक्त इति सर्वैस्सः दीन इत्यपमन्यते ॥७॥

अतो वयं शान्तिमार्गं त्यजेमाद्य युधिष्ठिर । वीरमार्गेण युध्येम नाशयेमारिसञ्चयम् ॥८॥

भीमस्य वचनं श्रुत्वा कृत्स्नं वीरोचितं ततः । युधिष्ठिरस्तु धर्मज्ञः समारभत बोधनम् ॥९॥

यत्त्वयोक्तं वचस्तच्च यच्चापि द्रौपदीरितम् । तत्सर्वमर्थपूर्णं हि तथाप्येतन्मतं मम ॥१०॥

विवेचनेन कर्तव्यं त्वरया न कदाचन । विपत्तिर्हि फलं भ्रातः अचिन्त्य कृतकर्मणा ॥११॥

अवश्यमिन्द्रियाणां भोः निग्रहः श्रेयसे किल । शान्तिरावश्यकी भीम सर्वेषां कार्यसिद्धये ॥१२॥

अविचिन्त्य कृतं कर्म विपदां हेतुरुच्यते । संविचिन्त्य कृतं कर्म संपदां हेतुरुच्यते ॥१३॥

तात्कालिकं भवत्येव दुष्टकर्मकृतां सुखम् । रिपवोऽन्ते प्रणश्यन्ति ये दुर्मार्गं समाश्रिताः ॥१४॥

एवं बुर्वाणे वचनं युधिष्ठिरे व्यासो महर्षिः दृशि गोचरोऽभवत् ।

अर्घ्यं च पाद्यं च युधिष्ठिरादयः दत्त्वा ततो भक्तियुता ववन्दिरे ॥१५॥

युधिष्ठिरस्तदोवाच स्वागतं मुनिपुङ्गव । पादस्पर्शेण भवतः पुनीतं ह्यस्मदाश्रमं ॥१६॥

भवद्विधास्तु ऋषयः योगिनो मोक्षकाङ्क्षिणः । नेच्छन्ति किञ्चिल्लोकेस्मिन् मत्तः किं वा त्वयेष्यते ॥१७॥

अतो न पृष्टं हि मया तवागमनकारणम् । परन्तु श्रोतुमिच्छामि भवतः परमं वचः ॥१९॥

तद्भक्त्या परमप्रीतः वेदव्यासो महामुनिः । मृदु तत्त्वार्थसम्पूर्णम् अथोवाच उधिष्ठिरम् ॥२०॥

सर्वभूतसमत्वं त्वं यद्दर्शयसि पाण्डव । तच्छ्लाघन्ते हि मुनयः एवमेवाचरन्ति च ॥२१॥

यद्यप्याचरणीयं हि निर्लिप्तेन मयानघ । साधुषु प्रीतिरस्त्येव कर्तव्यं दुष्टनिग्रहः ॥२२॥

अत एवोपदेशार्थं वचः किञ्चिद्ब्रवीमि ते । इदानीं धार्तराष्ट्रेण कृतः शस्त्रास्त्रसङ्ग्रहः ॥२३॥

अधर्मी ह्येष दुर्भुद्धिः कुरुते युद्धसिद्धताम् । त्वया तथैव कर्तव्यं युद्धं यद्यपि नेच्छसि ॥२४॥

लोकेऽस्मिन् परमश्रेष्ठः धनुर्धारी धनञ्जयः । तपसा भक्तियुक्तेन कुर्यात् शस्त्रास्त्रसङ्ग्रहम् ॥२५॥

पार्थः पाशुपतास्त्रार्थं कुर्वीत परमं तपः । ध्यायन्ननन्यभावेन पञ्चास्यं परमेश्वरम् ॥२६॥

पार्वतीशं फालनेत्रं नटेशं चन्द्रशेखरम् । मयोपदिश्यते मन्त्रः यस्तेन क्रियतां तपः ॥२७॥

प्रेषयिष्याम्यहं यक्षं पार्थस्तमनुगच्छतु । तपोवनं नेष्यति सः तपो यत्र समाचरेत् ॥२८॥

इन्द्रं प्रथममाराध्य ततः पाशुपतं तपः । क्रियतामिति चोक्त्वा सः तत्रैवान्तरधीयत ॥२९॥

तत्राजगाम यक्षस्तु शीघ्रं व्यासेन चोदितः । तपोवनं ततो नेतुम् अर्जुनं धर्मसाधकम् ॥३०॥

द्रौपदी परमप्रीता श्रुत्वा व्यासेन भाषितम् । दृष्ट्वा तत्रागतं यक्षं प्रस्थितं च धनञ्जयम् ॥३१॥

तमुवाच ततः कृष्णा तपस्सम्यक् प्रवर्तताम् । फलं प्राप्यैव कौन्तेय प्रत्यागच्छार्जुनेति च ॥३२॥

ततस्तु पार्थः प्रणिधाय कायं युधिष्ठिरं भक्तिपूर्णः प्रणम्य ।

भ्रातॄन् समालिङ्ग्य तथैव भार्यां यक्षेण सार्धं किल निर्जगाम ॥३३॥

॥ इति किरातार्जुनीयकथायां द्वितीयोऽध्यायः ॥

॥ अथ तृतीयोऽध्यायः ॥

ततस्तु यक्षोऽर्जुनमुत्तरां दिशं निनाय मार्गेषु करं प्रसारयन् ।

दृश्यानि रम्याणि मनोहराणि च गिरीन्नदीर्वृक्षगणांश्च दर्शयन् ॥१॥

शरत्कालमिदं प्राप्तं नीलाकाशो विराजते । श्वेता मेघाः प्लवन्त्यत्र दिनेशो नावरुध्यते ॥२॥

सन्ति सिंहोपमा मेघाः केचित्तत्र गजोपमाः । केचिद्व्याघ्रोपमास्सन्ति चोष्ट्रमेषादिरूपिणः ॥३॥

सिंहव्याघ्राकृतिभ्योऽपि मेषोष्ट्रगजरूपिणः । न भीता न हि धावन्ति मन्दमेव चलन्ति ते ॥४॥

सूर्यं नयन्ति सप्ताश्वाः क्रमशो दक्षिणां दिशम् । दिनानि ह्रस्वतां यान्ति किञ्चित्किञ्चिद्दिने दिने ॥५॥

वर्षाकालो व्यतीतोऽद्य सुवृष्ट्या पालिता द्रुमाः । हरित्पर्णैर्विराजन्ते पुष्पैः पुष्टैः फलैस्तथा ॥६॥

पौर्णमास्यां शरच्चन्द्रचन्द्रिका धवलार्जुन । दधीव माहिषी वर्णे निशि भात्यत्र शीतला ॥७॥

सुदूरे तान् गिरीन् पश्य ये सन्ति च बहून्नताः । केचिद्धिमावृताश्शैलाः मेघैः केचन चुम्बिताः ॥८॥

वृक्षैश्च पर्णभरितैः शैला आच्छन्नदेहिनः । शयाना इव नारीस्ते हरिद्वस्त्रैरलङ्कृताः ॥९॥

तेभ्यस्तु नद्यस्सञ्जाताः प्रवहन्त्यत्र निर्मलाः । तासामधोगतं पार्थ वर्षाकालस्य कल्मषम् ॥१०॥

नदीरुभयतः पश्य क्षेत्राण्यत्र धनञ्जय । समृद्धानि च धान्येभ्यः योग्येभ्यः खलु खादितुम् ॥११॥

वनेषु पक्षिणः पार्थ कूजन्ति मधुरैस्स्वनैः । सिंहा व्याघ्राश्च गर्जन्ति बृंहन्ति बहवो गजाः ॥१२॥

मन्दं हि वातः पवते शाखाः किञ्चिच्च चालयन् । सुगन्धाः कुसुमानीताः नासानन्दप्रदायकाः ॥१३॥

द्रष्टुं मधुरं घ्रातुं मधुरं सर्वं मधुरं रसयितुमपि च ।

श्रोतुं मधुरं स्प्रष्टुं मधुरं सर्वं शान्तिप्रदमतिरुचिरम् ॥१४॥

पृथिवी शान्तिः शान्तिरन्तरिक्षम् शान्तिश्च द्यौर्दिशश्चान्तर्दिशाश्च ।

अग्निश्शान्तिश्शान्तिरस्त्यत्र वायुः सूर्यश्शान्तिश्चन्द्रमाश्चापि ताराः ॥१५॥

आपश्शान्तिरोषधयश्चात्र शान्तिः सन्त्यत्रैते वनस्पतयश्च शान्तिः ।

गावश्शान्तिरजास्तुरगाश्च शान्तिः पुरुषो ब्रह्म ब्राह्मणश्चापि शान्तिः ॥१६॥

एवं ब्रुवाणे यक्षे तौ इन्द्रकीलमवापतुः । यक्षोऽब्रवीच्च हे पार्थ कुरुष्वात्रैव ते तपः ॥१७॥

आयुधानि धरन्नेव तपः कुरु धनञ्जय । तप्यतस्तव विघ्नास्तु भविष्यन्ति कदाचन ॥१८॥

तपस्या सफला भूयात् विजयी भव हेऽर्जुन । एवमुक्त्वा ततो यक्षः निर्जगामेन्द्रकीलतः ॥१९॥

॥ इति किरातार्जुनीयकथायां तृतीयोऽध्यायः ॥

॥ अथ चतुर्थोऽध्यायः ॥

इन्द्रकीलगिरिं पार्थः अपश्यत् सुमनोहरम् । सर्वं परिसरं यस्य प्रशान्तं सुन्दरं शुभम् ॥१॥

जाह्नवी प्रवहत्यत्र वृक्षाश्च भ्रमरावृताः । नानाविधाः खगाश्चात्र कूजन्ति मधुरैः स्वनैः ॥२॥

अर्जुनस्य जयं ह्येते घोषन्तीत्येव दृश्यते । कलहंसाश्च गङ्गायां तरन्ति विमले जले ॥३॥

तत्रारभत कौन्तेयः तपस्यां व्यासबोधिताम् । निगृह्णन्निन्द्रियग्रामं न भुञ्जन्न पिबन्नपि ॥४॥

कठिनेनापि तपसा न स क्लेशं तदान्वभूत् । तत्तपस्याप्रभावेण देहमुज्ज्वलतां गतम् ॥५॥

कान्तिस्तस्य शरीरस्य सर्वत्र प्रसृताभवत् । ततः क्रूरमृगाश्चापि किंसाकार्याणि तत्यजुः ॥६॥

वृक्षाः पल्लवसम्पूर्णाः आकाशोऽभूच्च निर्मलः । रिक्तं धूलिकणैश्चापि बभूव किल भूतलम् ॥७॥

एवं पार्थस्य तपसि तप्यमाने निरन्तरम् । वनेचराणां क्लेशोऽभूत् तदाहारविहारयोः ॥८॥

इन्द्रं ते समुपागम्य धनञ्जयतपः प्रति । सर्वे निवेदयाञ्चक्रुः तदस्मान् बाधते प्रभो ॥९॥

न पश्यति स किञ्चिच्च यत्तत्परिसरे स्थितम् । न शृणोति तपोमग्नः न स्पर्शोऽस्य न जिघ्रति ॥१०॥

नाश्नाति न व्रजत्येषः न शेते न श्वसत्यपि । न विसर्जति गृह्णाति प्रलापोऽस्य न विद्यते ॥११॥

तस्योन्मेषं निमेषं च न पश्यामः कदाचन । एवमेकाग्रचित्तोऽयं घोरं हि कुरुते तपः ॥१२॥

देदीप्यमानो देहोऽस्य प्रज्वालयति मेदिनीम् । शक्नुमो नैव निद्रातुं तिमिरो नास्ति कुत्रचित् ॥१३॥

बुभुक्षा न भवत्यत्र पिपासा नैव जायते । हित्वा स्वभावनियमं कथं जीवेम वृत्रहन् ॥१४॥

अस्माकं शिशवो देव न पिबन्ति न भुञ्जते । अस्यां स्थित्यां कथं भूयादस्माकं वंशवर्धनम् ॥१५॥

न वयं शक्नुमस्सोढुं तपसस्तापमीदृशम् । पाह्यस्मान् कृपया नाथ त्वां वयं शरणं गताः ॥१६॥

वनेचराणां वचनं तु शृण्वन् इन्द्रस्तदा प्रीतमना बभूव ।

पुत्रस्य तापस्यमनोदृढत्वं स श्लाघमानो मनसा विचिन्त्य ॥१७॥

तथापि तन्मनोदार्ढ्यं देवेन्द्रस्तु परीक्षितुम् । तपोभङ्गाय यततेत्याहूयाप्सरसोऽब्रवीत् ॥१८॥

नानाविधैर्हावभावैः युष्मत्सौन्दर्यसाधनैः । विचालयत तं नार्यः मास्तु शापभयं ततः ॥१९॥

इन्द्रकीलमनुप्राप्य स्थित्वा पार्थस्य सम्मुखे । अगायन्त ततो नार्यः कण्ठैस्ता: कोकिलोपमैः ॥२०॥

ऐन्द्राया अमरावत्याः नानापुष्पैरलङ्कृताः । केयूरैः कङ्कणैर्हारैः सौवर्णैः मेखलादिभिः ॥२१॥

घण्टायुक्तैः किङ्किणीभिः सुस्वरैरपि भूषिताः । अनृत्यंश्चाप्सरसः नानाभावैर्मनोहरैः ॥२२॥

सुन्दराणि शरीराणि दर्शयन्त्यॊ निरर्गलाः । यतन्त इन्द्रस्यादेशं सम्पूरयितुमुद्यताः ॥२३॥

सेवन्तिकामल्लिकाभिः मन्दारैश्च सुगन्धिभिः । ताभिर्विरचितान् हारान् पार्थकण्ठे निचिक्षिपुः ॥२४॥

समस्पृशंस्तं हस्तैस्ताः कमलानीव कोमलैः । अयतन्त फलान्येताः पार्थं खादयितुं ततः ॥२५॥

एतानि तासां शस्त्राणि तपोभङ्गसमुद्यमे । सर्वाणि विफलान्यासन्नर्जुनस्य पराजये ॥२६॥

तपस्येव मग्नस्तदा पार्थ आसीत् न हि स्त्रीगणॆ किञ्चिदप्यस्य दृष्टिः ।

तपोभङ्गकार्ये फलं नाप्तवत्यः पुनर्जग्मुरेतास्सुरेन्द्रस्य धाम ॥२७॥

॥ इति किरातार्जुनीयकथायां चतुर्थोऽध्यायः ॥

॥ अथ पञ्चमोऽध्यायः ॥

अथाब्रुवन्नप्सरसः क्षम्यतां हे सुराधिप । नाशक्नुम तपोभङ्गं कर्तुं पार्थस्य धीमतः ॥१॥

तद्धृतिर्महती देव तद्ध्येयं च दृढं प्रभो । यत्नेन महता चापि तन्मनो न विचाल्यते ॥२॥

तच्छ्रुत्वा परमप्रीतः इन्द्र एवमचिन्तयत् । यद्यप्येतच्छ्लाघनीयं पुत्रस्य दृढनिश्चयम् ॥३॥

पुनः परीक्षितुं ह्येनम् एकं यत्नं करोम्यहम् । इति निश्चित्येन्द्रकीलं जगाम त्रिदशाधिपः ॥४॥

मुनिरूपं धरंस्तत्र धनञ्जयमुपागमत् । पार्थस्तमतिथिं मत्त्वा सत्कारमकरोत्तदा ॥५॥

दत्त्वा तमर्घ्यपाद्यादीन् कुशलं परिपृष्टवान् । किमहं भवतः प्रीत्यै करवाणीति चाब्रवीत् ॥६॥

तत इन्द्रोऽवदत्पार्थं तरुणस्त्वं तपस्यसि । श्लाघनीयमिहैवैतत् दुःखपूर्णमिदं जगत् ॥७॥

अतः संसारचक्रात्तु मोक्षमिच्छन्ति योगिनः । परन्तु नेहसे मोक्षं विजयार्थं तपस्यसि ॥८॥

एवंविधा तपश्चर्या नोचितेत्येव मे मतम् । त्वया तु विजयं प्राप्तुं परपीडा भवेत्किल ॥९॥

परपीडा पापहेतुः विजयेच्छां परित्यज । इन्द्रकीलं महत्क्षेत्रं गङाकूले हि वर्तते ॥१०॥

एतत्क्षेत्रं पवित्रं च सुलभं मोक्षसाधनम् । तपस्यायां समर्थस्त्वं मोक्षायैव तपः कुरु ॥११॥

श्रुत्वैतन्मघवन्वाक्यं पार्थस्तं प्रत्युवाच ह । हे मुनिश्रेष्ठ धर्मज्ञ सत्यं यद्भवतेरितम् ॥१२॥

परन्त्वहं न काङ्क्षेऽद्य मोक्षं लौकिकधर्मदृक् । अर्जुनोऽहं पाण्डुपुत्रः धर्मराजानुजोऽस्मि भोः ॥१३॥

द्यूते कपटमार्गेण दुर्योधनपराजिताः । वयं राज्यं च भोगांश्च हित्वा खिन्ना विवासिताः ॥१४॥

सभायां मत्प्रियां पत्नीं बलादानीय दुःखिताम् । चक्रुश्च मानभङ्गं ते दुष्टदुर्योधनाज्ञया ॥१५॥

युधिष्ठिरस्तु धर्मात्मा सुखान्पूर्वेऽनुभूतवान् । अद्य पत्न्यनुजैर्युक्तः वराक इव वर्तते ॥१६॥

एतत्सर्वं न पर्याप्तं पापिने बन्धुनाशिने । सङ्गृह्णाति च शस्त्रास्त्रान् स दुष्टो युद्धकाङ्क्षया ॥१७॥

अस्माभिश्चापि कर्तव्यः खलु शस्त्रास्त्रसङ्ग्रहः । केवलं नास्मज्जयाय धर्मसंरक्षणाय च ॥१८॥

तस्मादेव मुनिर्व्यासः तपः कर्तुं समादिशत् । भ्राता युधिष्ठिरश्चापि तथैवादिष्टवान् हि माम् ॥१९॥

इन्द्रं प्रथममाराध्य सम्प्राप्य तदनुग्रहम् । ततः पाशुपतास्त्रार्थं तपः कुर्यां शिवं प्रति ॥२०॥

एतच्छ्रुत्वा वचनं फल्गुनस्य इन्द्रो देहं कृत्रिमं तद्विहाय ।

स्वकं रूपं दर्शयामास तस्मै प्रीतोऽहं त्वद्वचनैरित्युवाच ॥२१॥

सत्कार्ये विजयं भूयात् त्वयि सन्ति ममाशिषः । तपः कुरुष्व शैवं त्वं तत्प्रसादमवाप्नुहि ॥२२॥

धनञ्जयं त्रिदशेशस्तथोक्त्वा स्वर्गं लोकं प्रत्यगच्छत्तदैव ।

ततोऽर्जुनो घोरतरां तपस्यां शैवां भक्त्याह्येकचित्तश्चकार ॥२३॥

समं स्वकायं च शिरश्च कण्ठं सन्धारयन् स स्थिरतामवाप्य ।

पश्यन् स्वनासाग्रमथापि काश्चित् दिशो न पश्यन् तपसि स्थितोऽभूत् ॥२४॥

पादेनैकेन सन्तिष्ठन् अन्नपानानि सन्त्यजन् । सोऽतपस्यत् दृढमनाः मन्त्रं शैवं सदा जपन् ॥२५॥

एवम्भूतेन तपसा वने तापोऽधिकोऽभवत् । सोढुं न शक्तास्तं तापं तत्रत्या मुनयश्शिवम् ॥२६॥

उपगम्य ततः प्रोचुः पाह्यस्मान् कृपया प्रभो । ध्यानयोगमुपाश्रित्य तिष्ठत्यत्र धनञ्जयः ॥२७॥

न शक्नुमः खल्वेतस्य तापं सोढुं महेश्वर । तेषां तु व्यसनं श्रुत्वा ददावभयमीश्वरः ॥२८॥

ततो वराहरूपेण दानवो मूकनामकः । तत्रागत्य च पार्थस्य तपोविघ्नं चकार ह ॥२९॥

कुपितस्तु तदा पार्थः तं हन्तुं बाणमक्षिपत् । शिवः किरातरूपेण तदैव प्राहरच्छरम् ॥३०॥

बाणद्वयेन संविद्धः वराहो मरणं गतः । तत्समीपमगच्छच्च स्वबाणं नेतुमर्जुनः ॥३१॥

॥इति किरातार्जुनीयकथायां पञ्चमोऽध्यायः ॥

॥अथ षष्ठोऽध्यायः ॥

त्र्यम्बकः प्रेषयामास तत्र कञ्चिद्वनेचरम् । आत्मनो बाणमानेतुं वराहवपुषस्ततः ॥१॥

वनेचरोऽर्जुनं दॄष्ट्वा बाणं कर्षितुमुद्यतम् । आत्मनो हस्तमुद्धृत्य तिष्ठ तिष्ठेति चाब्रवीत् ॥२॥

एतद्बाणं महाबाहो ममेशस्य न वै तव । अतस्तत्कर्षणं वीर न धर्म इति मे मतिः ॥३॥

धर्मं पालय भद्रं ते राजानमिव शोभसे । एतच्छ्रुत्वावदत्पार्थः शरौ युगपदागतौ ॥४॥

कश्शरः कस्य वेत्येतत् वक्तुमेव न शक्यते । अहं वने वसाम्यत्र मृगया धर्ममेव मे ॥५॥

एतद्बाणं नयाम्येव तत्त्वया नावरुध्यताम् । वनेचरस्तु तच्छ्रुत्वा प्रत्यगच्छच्छिवं ततः ॥६॥

वनेचरवचश्श्रुत्वा शिवः पार्थं परीक्षितुम् । उद्धाय प्रेषयामास प्रबलं प्रथमं गणम् ॥७॥

यद्यपि प्रबलो ह्येषः युद्धे पार्थेन निर्जितः । समरार्थं तदागच्छत् कार्तिकेयश्शिवात्मजः ॥८॥

तेन कृत्वा महायुद्धं कार्तिकेयः पराजितः । तदा किरातरूपेण तत्रागच्छच्छिवस्स्वयम् ॥९॥

पशुपतिरथ तत्र व्याधरूपेण गत्वा सुरपतिसुतमेनं तापसं चापि दृष्ट्वा ।

न हि तव शरमेतन्न त्वया चोरणीयम् इति कुपित इवोक्त्वा चाह्वयामास योद्धुम् ॥१०॥

किरातार्जुनयोर्मध्ये ततो युद्धो महानभूत् । युद्ध्यन्तौ तौ तु पश्यन्तः बभूवुश्चकितास्सुराः ॥११॥

किरातं बाणवर्षेण हन्तुं प्रायततार्जुनः । बभूवुर्विफलान्येव तद्यत्नानि महाहवे ॥१२॥

प्रतिबाणं किरातस्य भिद्यतेस्मार्जुनेन वै । प्रतिबाणं च पार्थस्य किरातेन तथैव च ॥१३॥

एवं प्रवर्तिते युद्धे चिन्तयामास पाण्डवः । असामान्यः किरातोऽयं न हन्तुं शक्नुयामहम् ॥१४॥

अननीकं चारथिनं निशितैरपि सायकैः । अतो दिव्यास्त्रमेवाहं प्रयोक्ष्यामीत्यचिन्तयत् ॥१५॥

पार्थः प्रस्वापनास्त्रस्य जपन् मन्त्रं ततश्शरम् । प्रायुञ्जतातिवेगेन कर्तुं व्याधनिवारणम् ॥१६॥

एतद्दृष्ट्वा किरातस्तु महत्कोपं प्रदर्शयन् । विफलीकृतवानस्त्रं ज्वालयन् फालचक्षुषा ॥१७॥

नागास्त्रं प्रेषयामास किरातं प्रति पाण्डवः । तन्नाशक्नोत्स्प्रष्टुमपि महादेवं तदाहवे ॥१८॥

आरभ्धवन्तौ वीरौ तौ बाहुयुद्धं भयङ्करम् । प्रणुदन्तौ प्रकर्षन्तौ ताडयन्तौ परस्परम् ॥१९॥

बाहुभिर्मुष्टिभिः पादैः घातयन्तौ बलेन च । रुधिरं स्रावयन्तौ च जनयन्तौ महास्वनम् ॥२०॥

नानाविधैरङ्गबन्धैः स्थगयन्तौ महाबलौ । उत्क्षिपन्तौ तथा भूम्यां पातयन्तौ परस्परम् ॥२१॥

भूम्यास्तदा पदाघातैः धूलिमुद्धृत्य धूसरम् । जनयामासतू रात्रिं भासत्यपि दिवाकरे ॥२२॥

एवं प्रवर्तमाने तु द्वन्द्वयुद्धे निरन्तरम् । किरात उत्पतच्छीघ्रम् अर्जुने पतितुं ततः ॥२३॥

पादौ जग्राह हस्ताभ्यां किरतस्यार्जुनस्तदा । अन्यत्र पातयाम्येनं दूरे क्षिप्त्वेति चिन्तयन् ॥२४॥

एवं पार्थस्पृष्टपादः किरातः प्रीतो भूत्वा दर्शयामास तस्मै ।

गङ्गाशीर्षं चन्द्रचूडं त्रिनेत्रं कण्ठे नीलं सर्पहारं स्वरूपम् ॥२५॥

एतद्दृष्ट्वा ऋषयो देवताश्च गन्धर्वाश्चाप्सरसश्चापि सिद्धाः ।

हृष्टा भूत्वा जयघोषं च कृत्वा दिव्यैः पुष्पैः गगनात्ते ववर्षुः ॥२६॥

न पश्यन् पुष्पवृष्टिं वा शृण्वन् वापि जयस्वनम् । अर्जुनोऽस्थापयद्दृष्टिं प्रत्यक्षे हि महेश्वरे ॥२७॥

तं प्रणम्य च साष्टाङ्गं क्षमां तस्मादयाचत । अज्ञानिना मया देव कृतं युद्धं त्वया सह ॥२८॥

भक्त्या तपस्यां कृतवान् त्वामुद्दिश्य महेश्वर । तत्सर्वं विफलं मा भूत् युद्धेनाजानतो मम ॥२९॥

एवं ब्रुवाणं पार्थं तु सान्त्वयन् परमेश्वरः । न कश्चिदपराधस्ते मा भैषीरिति चाब्रवीत् ॥३०॥

मनोदार्ढ्यं च भक्तिं च वीर्यं दर्शितवानसि । नानापरीक्षा इन्द्रेण मया चात्र कृतास्तव ॥३१॥

सर्वासु सम्यगुत्तीर्णः धन्योऽसि त्वं धनञ्जय । वरं वृणुष्व हे पार्थ यत्किञ्चिदपि वाञ्छसि ॥३२॥

आनन्दबाष्पैः परिपूर्णलोचनः नत्वा च साष्टाङ्गविधौ महेश्वरम् ।

प्रीतोऽर्जुनः शत्रुविनाशसाधनं मह्यं प्रयच्छेति वरं ह्ययाचत ॥३३॥

प्रादात्पाशुपतं वरं पशुपतिः पार्थाय गुह्यं तदा

अस्त्रं शत्रुनिवारकं च परमं धर्मस्य संरक्षकम् ।

मन्त्रं चाप्युपदिष्टवाथ धनुर्वेदस्य शिक्षां ददौ

शीर्षे तस्य करं निधाय स शिवो ब्रूते स्म चाशीर्वचः ॥३४॥

शस्त्रास्त्राणि ददुर्देवाः देवेन्द्रप्रथमास्ततः । आशीर्वृष्टिं च वर्षन्तः विजयाय किरीटिनः ॥३५॥

पार्थः प्रदक्षिणं कृत्वा प्रणम्य परमेश्वरम् । भ्रातॄन् भार्यां पुनर्द्रष्टुं निर्जगामेन्द्रकीलतः ॥३६॥

किरातार्जुनीयं महत्काव्यरत्नम्

शिशुर्भारवेर्मानसं चार्थपूर्णम् ।

प्रयत्नं कृतं तत्कथायाश्च सारम्

प्रवक्तुं मया त्वत्र नास्त्यर्थभारम् ॥३७॥

॥ इति किरातार्जुनीयकथायां षष्ठोऽध्यायः ॥

॥ रामप्रियविरचिता किरातार्जुनीयकथा समाप्ता ॥