भव्याद्भुतं भारतम्

This poem was started as a part of challenge #110 on padyapaana - see http://padyapaana.com/?p=2207#comments.

Please see link below for a version with pictures.


भव्याद्भुतं भारतम्

हं. क. रामप्रियः - जून् १०, २०१४

सौधा द्वित्रजनैर्युता हिमगिरिप्राया भवन्ति क्वचित्

वल्मीका इव सन्ति सद्मनिचयाः तत्सौधपार्श्वस्थिताः ।

केचित् भूरिधनैर्युताश्च बहवः शेषा वराका जनाः

अत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥१॥


बाह्याकाशगयन्त्रमेति च शनैर्याने ह्यहो वार्षभे

मार्गेषु स्थगिता भवन्ति बहवो नानाविधाश्चक्रिकाः ।

पादैश्शीघ्रतरं प्रयान्ति कतिचित् ये निर्धनत्वे स्थिताः

अत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥२॥

अध्यात्मादिकचिन्तनेषु निरतास्सन्तो महाज्ञानिनः

जातास्सन्ति च सर्वविश्वविदिता: विज्ञानिनो भारते ।

निर्भाग्याश्च निरक्षराश्च नितरां सन्ति प्रजाः कोटिशोऽ

प्यत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥३॥

श्रीरामानुजमध्वशङ्करगुरून् सम्भावयन्तो मुदा

जैना बौद्धमतानुगाश्च सुजनाः क्रैस्ताश्च माहम्मदाः ।

भ्रष्टाचारविशिष्टदुष्टचरिताः सन्त्यप्यहो पांसुलाः

अत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥४॥

संन्यासाश्रममाश्रितास्तु कतिचित् सम्यक्स्थितास्संयमे

मोदन्ते खलु देवता इति वचः स्त्रीपूजयाऽत्रोच्यते ।

दुश्शीलाः परिपीडयन्ति पुरुषाः क्रूरा बलेनाबला:

अत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥५॥

पुण्यक्षेत्रपवित्रतीर्थनिचयाः दृश्याश्च शान्तिप्रदाः

रम्यास्सन्ति च पान्थवासनिलयाः ये पञ्चताराङ्किताः ।

तिष्ठन्मूत्रविसर्जकैः परिसरे दुर्गन्ध उत्पाद्यते

ह्यत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥६॥

केचित् सन्ति महात्मगान्धिपथगाः निस्स्वार्थसेवापराः

भूम्ना कर्मचरा भवन्त्यनुदिनं स्वार्थाविरोधेन ये ।

लञ्चास्वीकरणे रताश्च बहवः स्वार्थस्य संवर्धकाः

अत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥७॥

पूज्यन्तेऽत्र रमा हिमाद्रितनया वाणी च भक्त्या जनैः

राष्ट्राध्यक्षपदं प्रधानिपदवीं प्राप्ते स्त्रियौ भारते ।

स्त्रीभ्रूणा निहता भवन्ति बहवः दुःखप्रदं खल्विदं

ह्यत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥८॥

लोकस्यास्ति बृहत्तमं जनमतैः सृष्टं स्वराज्यं श्रुतम्

शान्त्या यत्र ददाति सर्वजनता चेतुं स्वपक्षं मतम् ।

केचिद्धान्यधनादिभिः किल मतं क्रीणन्ति पापात्मनो

ह्यत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥९॥

गोपालो यदुनन्दनस्स भगवान् भक्त्या जनैः पूज्यते

पूज्यन्ते किल कुङ्कुमैश्च कुसुमैश्चालङ्कृता धेनवः ।

एवं चापि कदन्नमार्गणरताः गावः कृशा वीथिषु

ह्यत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥१०॥

एकत्रास्ति पुराणपुण्यकथनं रामायणं भारतम्

वेदार्थोपनिषद्विशेषविषयव्याख्यादिविश्लेषणम् ।

अन्यत्रापि च दूरदर्शनविधौ क्षुद्रास्त्वनन्ताः कथाः

अत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥११॥

भाषास्वस्य चलन्ति चित्रनिचयाः देशे मनोरञ्जकाः

विश्वख्यातिमुपालभन्त कतिचित् प्रापुः प्रशस्तिं तथा ।

पाश्चात्यानुकृतौ चरन्ति बहवश्चासंस्कृतिं तन्वते

ह्यत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥१२॥

नानाभूषणभूषितैस्सुवपुभिः भावादिसन्दर्शनैः

शास्त्रोक्ताभिनयैस्सुरुचिरैर्नाट्यैश्च नानाविधैः ।

देहोत्पातनकुञ्चनैश्च विविधैस्सौलभ्यमुख्यैस्तथा

ह्यत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥१३॥

मुत्तुस्वामिवरस्तथा च तिरुनाळ् श्रीत्यागराजस्तथा

मुत्तैय्यश्च पुरन्दरश्च कनको वाग्गेयकारा इमे ।

सन्त्यत्रापि च चित्रगानचतुराः ये बालिवुड् लेखकाः

अत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥१४॥

शास्त्रज्ञा बहवोऽत्र सन्ति निपुणा ये वेदपारङ्गताः

विज्ञानेऽप्यधुनातने परिणतास्सन्त्यत्र धीश्रीयुताः ।

एवं यद्यपि दृश्यते बहुजने विस्रम्भणे मूढता

ह्यत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥१५॥

भाषाभिर्बहुभिर्वदन्ति विविधाः प्रादेशिकीभिः प्रजाः

अज्ञात्वाप्युपयुञ्जते च वचने सम्मिश्रितं संस्कृतम् ।

अर्धाधिक्यतया प्रयुञ्जत इमे चाङ्ग्लं ततो गर्विताः

अत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥१६॥

याचन्तेऽनुदिनं भुवं किल जनाः प्रातर्हरेर्वल्लभाम्

पादस्पर्शमघं क्षमस्व पृथिवीत्युक्त्वा नमन्तस्तथा ।

मालिन्यं बहु वर्धते परिसरे सर्वंसहा सा कथम्

ह्यत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥१७॥

आयुर्वेदविदोऽत्र सन्ति च तथा पाश्चात्यवैद्याभिधाः

धान्वन्तर्यविधौ परिणताः नानाचिकित्साप्रदाः ।

एवं यद्यपि रोगरोगिनिचयाः वर्धन्त एवात्र भोः

अत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥१८॥

चातुर्वर्ण्यविधिस्तु कर्मगुणयोर्भेदेन नो जन्मना

कृष्णेनोक्तमिदं भगवता नित्यं जनैः पठ्यते ।

छात्रार्धाधिकपूरणं न हि गुणैः तज्जन्मना केवलं

ह्यत्यन्तव्यतिरेकपूर्णविभवं भव्याद्भुतं भारतम् ॥१९॥

प्राचीनकालस्य मनोरमैः क्रमैः

प्रवर्धमानाधुनिकैर्गुणैस्तथा ।

किञ्चित्कदाचित्क्वचिदेव कुत्सितैः

भव्याद्भुतं भारतमद्य शोभते ॥२०॥