Irene-गीतम्
ऐरीन् इत्यबला?
हं. क. रामप्रियः
क्लार्क्स् विल्, मेरिलेण्ड्
सेप्टेम्बर् १४, २०११
अट्लाण्टीयमहोदधौ समुदितो यो दाक्षिणात्यो महान्
वातो वर्तुलवर्त्मना प्रबलतां प्राप्तः कदुष्णैर्जलैः ।
गर्जन्मेघविमुक्तवृष्टिनिवहैः सन्तर्पयन् स्वं मुदा
ऐरीनित्यबलाभिधोऽपि सबलः प्राचीं तटं बाधते ॥१॥
वासन्तेषु पुनः पुनः समुदितैः राराजितः पल्लवैः
यो ग्रीष्मेषु विराजते स्म बहुभिः पर्णैर्हरिद्भिर्युतः ।
सत्कालीनसुवृष्टिसंभृततनुः वृक्षस्स दैत्याकृतिः
झञ्झावातविभग्नदीनवपुषा शेतेऽद्य पृष्ठाङ्गणे ॥२॥
मूले तु वृष्टिभिः क्लिन्नः मध्ये वातेन पीडितः ।
ऊर्ध्व उद्धूतपर्णोऽसौ भूमावत्र निपातितः ॥३॥
दैत्याकृतेरस्य विभग्नबाहोः
वारुण्यवाय्वस्त्रसुपीडितस्य ।
मध्ये मह्त्यस्सुविदीर्णशाखाः
खनन्ति भूमिं खलु शल्यतुल्याः ॥४॥
क्षाराब्धिजातवातेन पातितेऽपि महाद्रुमे ।
क्षीराब्ध्यावासकृपयाऽऽवासो मे परिपालितः ॥५॥
विद्युच्चालितहारारहेतिहस्तो भवाम्यहम् ।
भित्त्वा निपतिताश्शाखाः प्रक्षिपामि घने वने ॥६॥
भूमौ मग्नाः शल्यरूपास्तु शाखाः
नाहं शक्ष्ये चालयितुं कथञ्चित् ।
स्थास्यन्त्येताः स्तम्भरूपास्तथैव
कीटाहाराः पुष्कलास्ताश्चिराय ॥७॥
भवाब्धिमध्ये नितरां निमग्नम्
दयाब्धिपूर्णं शरणं गतं माम् ।
क्षाराब्धिजानीतमहाविनाशात्
क्षीराब्धिजानाथकृपा ह्यरक्षत् ॥८॥