अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रं रत्न॒धात॑मम् ॥ १.००१.०१॥
अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विज॑म् ।
होता॑रम् । र॒त्न॒ऽधात॑मम् ॥ १.००१.०१॥
अनुवादः
पदपरिचयः
==========
=================
प्रातिपदिकम्: होतृ
प्रकारः : ऋकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : नाम
विभक्तिः : द्वितीया
वचनम् : एकवचनम्
==================
पदार्थः
==========
[G.V. Devathali's Sanskrit Marathi Dictionary]
होतृ m.
यजमान
==================
होतृ पुं.[हु+ तृच्]
यजमान, हवन करने वाला
===================
होतृ m.
The invoker, a priest who at a sacrifice invokes the gods or recites the Ṛig-veda
====================
टीका/भाष्यम्
[सायणभाष्यम्]
होतारमृत्विजम् । देवानां यज्ञेषु होतृनामक ऋत्विगग्निरेव । तथा च श्रूयते । अग्निर्वै देवानां होता । ऐ । ब्रा । ३-१४ । इति ।
होतृशब्दस्य ह्वयतिधातोरुत्पन्नत्वेन देवावामाह्वातारमिति । और्णवाभनामकस्तु मुनिर्जुहोतिधातोरुत्पन्नो होतृशब्द इति मन्यते । अग्नेश्च होतृत्वं होमाधिकरणत्वेन द्रष्टव्यम् । होतृशब्दस्तृन्प्रत्ययान्तः (पा ३-२-१३५) नित्स्वरेणाद्युदात्तः (पा ६-१-१९७) स्वरितप्रचयौ पूर्ववत् ।
=====================