अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रं रत्न॒धात॑मम् ॥ १.००१.०१॥
अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विज॑म् ।
होता॑रम् । र॒त्न॒ऽधात॑मम् ॥ १.००१.०१॥
अनुवादः
समासपरिचयः
==========
==========
पदपरिचयः
==========
=======================
प्रातिपदिकम् : पुरोहित
प्रकारः : अकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : विशेषणम्
विभक्तिः : द्वितीया
वचनम् : एकवचनम्
==================
पदार्थः
==========
[G.V. Devathali's Sanskrit Marathi Dictionary]
पुरोहित adj.
पुढे स्थापित, अग्रभागी स्थापित
==================
पुरोहित वि.[पुरस्+धा>हित]
आगे स्थापित
===================
पुरोहित mfn.
placed at the forefront
====================
टीका/भाष्यम्
[सायणभाष्यम्]
यज्ञस्य पुरोहितम् । यथा राज्ञः पुरोहितस्तदभीष्टं संपादयति तथाग्निरपि यज्ञस्य पुरोहितम् । यथा राज्ञः पुरोहितस्तदभीष्टं संपादयति तथाग्निरपि यज्ञस्यापेक्षितं होमं संपादयति । यद्वा । यज्ञस्य संबंधिनि पूर्वभाग आहवनीयरूपेणावस्थितम् ।
पुरोहितशब्दो द्वितीयेऽध्याये (नि २-१२) तैत्तिरीयाश्च पौरोहित्ये स्पर्धमानस्य पश्वनुष्ठानु विधाय तत्फलत्वेन पुर एनं दधत इत्यामनन्ति ।
पुरःशब्दोन्तोदात्तः । अयं पुरो भुवः । तै सम् । ४-३-२-१ । इत्यत्र तथैवाम्नातत्वात् । पूर्वाधरावराणामसि पुरधवश्चैषाम् (पा ५-३-३९) इति पूर्वशब्दादस्प्रत्ययः पुरादेशश्च । तत्रोऽत्र प्रत्ययस्वरः (पा ३-१-३)। धाञो निष्ठाया दधातेर्हिः (पा ७-४-४२) इत्यादेशे सति प्रत्ययस्वरेणान्तोदात्तो हितशब्दः । तत्र समासान्तोदात्तत्वे प्राप्ते (पा ६-१-२२३) तदपवादत्वेन तत्पुरषे तुल्यार्थेत्यादिना (पा ६-२-२) अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा । पुरोऽव्ययम् (पा १-४-६७) इति गतिसंज्ञायां गतिरनंतरः । पा ६-२-४९ इति पूर्वपदप्रकृतिस्वरत्वम् । तत ओकार उदात्तः । अवशिष्टानामनुदात्तस्वरितप्रचयाः पूर्ववद्द्रष्टव्याः । आद्याक्षरस्य संहितायां प्रचयप्राप्रौ । पा । १-२-३९ । उदात्तस्वरितपरस्य सन्नतरः (पा १-२-४०) इत्यतिनीचोऽनुदात्तः ।
=====================