अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रं रत्न॒धात॑मम् ॥ १.००१.०१॥
अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विज॑म् ।
होता॑रम् । र॒त्न॒ऽधात॑मम् ॥ १.००१.०१॥
अनुवादः
पदपरिचयः
==========
=================
प्रातिपदिकम्: देव
प्रकारः : अकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : नाम
विभक्तिः : द्वितीया
वचनम् : एकवचनम्
==================
पदार्थः
==========
[G.V. Devathali's Sanskrit Marathi Dictionary]
देव m.
देवता
==================
देव पुं.[दिव्+ अच्]
देव, देवता
===================
देव m.
a deity , god
====================
टीका/भाष्यम्
[सायणभाष्यम्]
देवं दानादिगुणयुक्तम् ।
देवशब्दो दानदीपनद्योतनानामन्यतममर्थमाचष्टे । यज्ञस्य दाता दीपयिता द्योतयितायमग्निरित्युक्तं भवति । दीपनद्योतनयोरेकार्थत्वेऽप्यस्ति धातुभेदः । यद्यप्यग्निः पृथिवीस्थानस्तथापि देवान्प्रति हविर्वहनामद्द्यस्थानो भवति । देवशब्ददेवताशब्दयोः पर्यायत्वान्मंत्रप्रतिपाद्या काचिदग्निव्यतिरिक्ता देवता नान्वेषणीया ।
देवशब्दः पचाद्यजन्तः (पा ३-१-१३४) स च फिट् स्वरेण (फि १-१) प्रत्ययस्वरेण पा ३-१-३ । चित्स्वरेण (पा ६-१-१६३) वान्तोदात्तः ।
=====================