अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रं रत्न॒धात॑मम् ॥ १.००१.०१॥
अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विज॑म् ।
होता॑रम् । र॒त्न॒ऽधात॑मम् ॥ १.००१.०१॥
अनुवादः
समासपरिचयः
==========
==========
तद्धितपरिचयः
==========
==========
पदपरिचयः
==========
=======================
प्रातिपदिकम् : रत्नधातम
प्रकारः : अकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : तर-तम-भाववाचक-विशेषणम्
विभक्तिः : द्वितीया
वचनम् : एकवचनम्
==================
पदार्थः
==========
[G.V. Devathali's Sanskrit Marathi Dictionary]
रत्नधा adj.
उत्तम धनाचा दाता
==================
रत्नधा वि.[रत्न+धा+तमप्]
श्रेष्ठ धन का दाता
===================
रत्नधा mfn.
procuring wealth, distributing riches or precious things (-तम mfn. dist° great riches),
====================
टीका/भाष्यम्
[सायणभाष्यम्]
रत्नधातमं यागफलरूपाणां रत्नानामतिशयेन धारयितारं पोषयितारं वा ।
रत्नशब्दो द्वितीयाध्याये मघमित्यादिष्टष्टाविंशतौ धननामसु पठितः । रमणीयत्वाद्रत्नत्वम् । दधातिधातुरत्र दानार्थवाचीति । तदिदं निरुक्तकारस्य यास्कस्य मन्त्रव्याख्यानम् ।
रत्नशब्दो नब्विषयस्यानिसंतस्य । फि । २-३ । इत्याद्युदात्तः । तथा चाम्नायते रत्नं धातेति । रत्नानि दधातीति विग्रहः । समासत्वादन्तोदात्तो रत्नधाशब्दः । यद्वा । कृदुत्तरपदप्रकृतिस्वरः । तमप्प्रत्ययस्य (पा ५-३-५५) पित्स्वरेणानुदात्ते सति (पा ३-१-४) स्वरितप्रचितौ । संहितायामाद्याक्षरस्य प्रचयो द्वितीयाक्षरस्य सन्नतरत्वम् ।
=====================