अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रं रत्न॒धात॑मम् ॥ १.००१.०१॥
अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विज॑म् ।
होता॑रम् । र॒त्न॒ऽधात॑मम् ॥ १.००१.०१॥
अनुवादः
पदपरिचयः
==========
=================
प्रातिपदिकम्: ऋत्विज्
प्रकारः : जकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : नाम
विभक्तिः : द्वितीया
वचनम् : एकवचनम्
==================
पदार्थः
==========
[G.V. Devathali's Sanskrit Marathi Dictionary]
ऋत्विज् m.
यज्ञाचा पुरोहित
==================
ऋत्विज् पुं.[ऋतु+यज्+क्विन्]
यज्ञ के पुरोहित के रूप मे कार्य करने वाला
===================
ऋत्विज् m.
a priest
====================
टीका/भाष्यम्
[सायणभाष्यम्]
होतारमृत्विजम् । देवानां यज्ञेषु होतृनामक ऋत्विगग्निरेव । तथा च श्रूयते । अग्निर्वै देवानां होता । ऐ । ब्रा । ३-१४ । इति ।
ऋत्विक्शब्द ऋतौ यजतीति विग्रहे सत्यृत्विग्दधृक् (पा ३-२-५९) इति निपातितः । गतिकारकोपपदात्कृत् (पा ६-२-१३९) इति कृदुत्तरपदप्रकृतिस्वरेणांतोदात्तः । विभक्तिस्वरः पूर्ववत् ।
=====================