अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रं रत्न॒धात॑मम् ॥ १.००१.०१॥
अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विज॑म् ।
होता॑रम् । र॒त्न॒ऽधात॑मम् ॥ १.००१.०१॥
अनुवादः
पदपरिचयः
==========
======================
धातुः : ईड् [ णीञ् प्रापणे ]
गणः : २ [अदादि]
पदम् : आत्मनेपदम्
प्रकारः : तिङन्तम्
प्रयोगः : कर्तरि
जातिः : क्रियापदम्
लकारः : लट्
पुरुषः : प्रथमः
वचनम् : एकवचनम्
==================
पदार्थः
==========
[G.V. Devathali's Sanskrit Marathi Dictionary]
ईड् vt.2.A.
स्तुति करणे
==================
ईड् अदा*आ*ईडे,ईडित
स्तुति करना
===================
ईड् cl.2 Ā
to implore, to praise
====================
टीका/भाष्यम्
[सायणभाष्यम्]
अग्निनामकं देवमीळे । स्तौमि । ईड स्तुतौ । धा । २४-९ । इति धातुः । डकारस्य ळकारो बह्वृचाध्येतृसंप्रदायप्राप्तः । तथा च पठ्यते । अज्मध्यस्थडकारस्य ळकारं बह्वृचा जगुः । अज्मध्यस्थढकारस्य ळ्हकारं वै यथाक्रममिति ।
ईळ इत्येतत्पदं कृत्स्नमप्यनुदात्तम् । तिङ्ङतिङः (पा ८-१-२८) इत्यतिङंतादग्निशब्दात्परस्येळ इत्यस्य तिङंतस्य निघातविधानात् । पदद्वयसंहिताकाले त्वीकारस्य धातुगतस्योदात्तादनुदात्तस्य स्वरितः (पा ८-४-६६) इति स्वरितत्वम् । तस्मादूर्ध्वभाविन एकारस्य तिङ् प्रत्ययरूपस्य स्वरितात्संहितायामनुदात्तानाम् (पा १-२-३९) इत्यैकश्रुत्यं प्रचयनामकं भवति ।
=====================