अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रं रत्न॒धात॑मम् ॥ १.००१.०१॥
अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विज॑म् ।
होता॑रम् । र॒त्न॒ऽधात॑मम् ॥ १.००१.०१॥
अनुवादः
पदपरिचयः
==========
=================
प्रातिपदिकम्: अग्नि
प्रकारः : इकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : नाम
विभक्तिः : द्वितीया
वचनम् : एकवचनम्
==================
पदार्थः
==========
[G.V. Devathali's Sanskrit Marathi Dictionary]
अग्नि m.
आग
==================
अग्नि पुं.* [अंगति उर्ध्वं गच्छति - अङ्ग्+नि नलोपश्च]
आग
===================
अग्नि m.
fire.
====================
टीका/भाष्यम्
[सायणभाष्यम्]
अत्राग्निशब्दस्य यास्को बहुधा निर्वचनं दर्शयति । अथातोऽनुक्रमिष्यामोऽग्निः पृथवीस्थानस्तं प्रथमं व्याख्यास्यामोऽग्निः कस्मादग्रणीर्भवत्यग्रं यज्ञेषु प्रणीयतेऽंगं नयति संनममानोऽक्नोपनो भवतीति स्थौलाष्ठीविर्न क्नोपयति न स्नेहयति त्रिभ्य आख्यातेभ्यो जायत इति शाकपूणिरितादक्ताद्दग्छाद्वा नीतात्स खल्वेतेरकारमादत्ते गकारमन क्तेर्वा दहतेर्वा नीः परस्तस्यैषा भवत्यग्निमीळे । नि । ७-१४ । इति । अस्यायमर्थः । सामान्येन सर्वदेवतानां लक्षणस्याभिहितत्वादनंतरं यतः प्रतिपदं विशेषेण वक्तव्यत्वमाकांक्षितमतोऽनुक्रमेण वक्ष्यामः । तत्र पृथिवीलोके स्थितोऽग्निः प्रथमं व्याख्यास्यते । कस्मात्प्रवृत्तिनिमित्तादग्निशब्देन देवताभिधीयत इति प्रश्नस्याग्रणीरीत्यादिकमुत्तरम् । देवसेनामग्रे स्वयं नयतीत्यग्रणीः । एतदेकमग्निशब्दस्य प्रवृत्तिनिमित्तम् । तथा च ब्राह्मणांतरम् । अग्निर्देवानां सेनानीरिति । एतदेवाभिप्रेत्य बह्वृचा मंत्रब्राह्मण आमनंति । अग्निर्मुखं प्रथमो देवतानामिति मंत्रः । ऐ ब्रा १-४ । अग्निर्वै देवनामवमः । ऐ ब्रा १-१ । इति ब्राह्मणम् । तथा तैत्तिरीयाश्चामनंति । अग्निरग्रे प्रथमो देवतानाम् । तै ब्रा २-४-३-३ । इति । अग्निरवनो देवतानामिति च । वाजसनेयिनस्त्वेवमामनंति । स वा एषोऽग्रे देवतानामजायत तस्मादग्निर्नामेति । यज्ञेष्टग्नि होत्रेष्टिपशुसोमरूपेष्टग्रं पूर्वदिग्वर्त्याहवनीयदेशं प्रति गार्हपत्यात्प्रणीयत इति द्वितीयं प्रवृत्तिनिमित्तम् । संनममानः सम्यक् स्वयमेव प्रह्वीभवन्नंगं स्वकीयं शरीरं नयति काष्ठदाहे हविष्पाके च प्रेरयतीति तृतीयं प्रवृत्तिनिमित्तम् । स्थूलाष्ठीवनामकस्य महर्षेः पुत्रो निरुक्तकारः कश्चिदक्नोपन इत्यग्निशब्दं निर्वक्ति । तत्र न क्नोपयतीत्युक्ते न स्नेहयति किंतु काष्ठादिकं रूक्षयतीत्युक्तं भवति । शाकपूणिनामको निरुक्त कारो धातुत्रयादग्निशब्द निष्पत्तिं मन्यते । इत इण् गतौ । धा २४-३६ । इति धातुः । अक्तोऽन्चू व्यक्तिम्रक्षणकांतिगतिषु । धा । २९-२१ । इति धातुः । दग्भो दह भस्मीकरणे । धा २३-२२ । इति धातुः नीतो णीञ् प्रापणे । धा २२-५ । इति धातुः । अग्निशब्दो ह्यकारगकारनिशब्दानपेक्षमाण एतिधातोरुत्पन्नादयनशब्दादकारमादत्ते । अनक्तिधातुगतस्य ककारस्य गकारादेशं कृत्वा तमादत्ते । नीरिति नयतिधातुः । स च ह्रस्वो भूत्वा परो भवति । ततो धातुत्रयं मिलित्वाग्निशब्दो भवति । यज्ञभूमिं गत्वा स्वकीयमंगं नयति काष्ठदाहे हविष्पाके च प्रेरयतीति समुदायार्थः । तस्याग्निशब्दार्थस्य देवताविशेषस्य प्राधान्येन स्तुतिप्रदर्शनायैषामग्निमीळॆ इत्यृग्भवतीति । तामेतामृचं यास्क एवं व्याख्यातवान् । अग्निमीळेऽग्निं याचामीळिरध्येषणाकर्मा पूजाकर्मा वा पुरोहितो व्याख्यातो यज्ञस्य देवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा यो देवः सा देवता होतारं ह्वातारं जुहोतेर्होतेत्यौर्णवाभो रत्नधातमं रमणीयानां धनानां दातृतमम् (नि ७-१५) इति । अस्यायमर्थः । ईडितिधातोः स्तुत्यर्थत्वं प्रसिद्धम् । धातूनामनेकार्थत्वमिति न्यायमाश्रित्य याच्ञाध्येषणापूजा अप्यत्रोचितत्वात्तदर्थतया व्याख्याताः ।
अग्निशब्दो अगिधातोर्गत्यर्थात् । धा ५-३८ । अंगेर्नलोपश्च । उ । ४-५० । इत्यौणादिकसूत्रेण निप्रत्ययः । इदित्त्वान्नुमागमेन प्राप्तस्य नकारस्य । पा ७-१-५८ इत्यौणादिकसूत्रेण निप्रत्ययः । इदित्त्वान्नुमागमेन प्राप्तस्य नकारस्य । पा । ७-१-५८ । लोपश्च भवति । अंगति स्वर्गे गच्छति हविर्नेतुमित्यग्निः । तत्र धातो । पा । ६-१-१६२ । इत्यकार उदात्तः । आद्युदात्तश्च पा । ३-१-३ । इति प्रत्ययगत इकारोऽप्युदात्तः । अनुदात्तं पदमेकवर्जम् । पा । ६-१-१५८ । इति द्वयोरन्यतर मुदात्तमवशेष्येतरस्यानुदात्तत्वं प्राप्तम् । तत्र धातुस्वरे प्रथमतोऽवस्थिते सति पश्चादुपदिश्यमानः प्रत्ययस्वरोऽवशिष्यते । सति शिष्टस्वरो बलीयान् । पा ६-१-१५८-९ । इति हि न्यायः । ततोऽन्तोदात्तमग्निप्रातिपदिकं अनुदात्तौ सुप्पितौ (पा ३-१-४) इत्यमित्येत द्द्वितीयैकवचनमनुदात्तम् । तस्यामि पूर्वः (पा ६-१-१०७) इति यत्पूर्वरूपं तदुदात्तमेकादेश उदात्तेनोदात्तः (पा ८-२-५) इति सूत्रितत्वात् ।
अग्निशब्दो धातुजन्मेति मते सेयं प्रक्रिया सर्वापि द्रष्टव्या । मतद्वयं यास्केन प्रदर्शितम् । नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च । न सर्वाणीति गार्ग्योवैयाकरणागां चैके (नि १-१२) इति । गार्ग्यस्य मतेऽग्निशब्दस्याखंडप्रतिपादिकत्वात्फिषोऽंत उदात्तः । फी १-१ । इत्यंतोदात्तत्वम् । पूर्वोक्तेष्टग्रणीरित्यादिनिर्वचनेषु प्रकृतिप्रत्ययाद्यशेषप्रक्रिया यथोचितं कल्पनीया । एतदेवाभिप्रेत्ययास्क आह । अथ निर्वचनं तद्येषु पदेषु स्वरसंस्कारौ समर्थौ प्रादेशिकेन गुणेनान्वितौ स्यातां तथा तानि निर्ब्रूयादथानन्वितेऽर्थेऽप्रादेशिके विकारेऽर्थनित्यः परीक्षेत केनचिद्वृत्तिसामान्येनाविद्यमाने सामान्येऽप्यक्षरवर्णसामान्यान्नि र्ब्रूयान्न त्वेव न निर्ब्रूयात् (नि २-१) इति । अस्यायमर्थः । तत्तत्र निर्वचनीयवदसमूहमध्येयेह्वग्न्यादिपदेषु पूर्वोक्तरीत्या स्वरसंस्कारौ समर्थौ व्याकरण सिद्धौ स्याताम् । स्वर उदात्तादिः । संस्कारो निप्रत्यायादिः । किंच तौ स्वरसंस्कारौ प्रादेशिकेन गुणेनान्वितौ स्याताम् । शब्दस्यैकदेशः पूर्वोक्तोऽगिधातुः प्रदेशः । तत्र भवो गुणो गतिरूपोऽर्थः । तेनान्वितौ । तान्यग्न्यादिपदानि तथा व्याकरणानुसारेण निर्ब्रूयात् । तच्च निर्वचनमस्माभिः प्रदर्शितम् । अथ पूर्वोक्तवैलक्षण्येन कश्चित्स्वेन विवक्षितोऽर्थो नान्वितस्तस्मन्शब्देऽनुगतो न भवेत् । तस्यैव व्याख्यानमप्रादेशिके विकार इति । अग्रनयनादिरूपः क्रियाविशेषो विकारः । स च प्रदेशनाग्निशब्दैकदेशेनात्र नाभिधीयत इत्यप्रादेशिकः । एवं सति यः पुमानर्थनित्यः स्वविवक्षितेऽर्थे नियतो निर्बंधवान् । ब्राह्मणानुसारेण वा देवतांतरविशेषणत्वेन योजयितुं वा स निर्बंधः । तदानीं स पुमान्केनचिद्वृत्तिसामान्येन स्वविक्षितमर्थं परीक्षेत । तस्मिन् शब्दे योजयेत् । वृत्तिः क्रिया । तद्रूपेण सामान्यं सादृश्यम् । अस्माभिश्चाग्रनयनादिरूपं क्रियात्वसामान्यमुपजीव्याग्रणीत्वाद्यर्थो योजितः तदिदं यास्काभिमतं निर्वचनम् । स्थौलाष्ठीवरक्षरसाम्यान्निर्वक्ति । अक्नोपनशब्दस्यादौ निषेधार्थमकाररूपमक्षरं विद्यते । अग्नि शब्दस्याप्यादावकारोऽस्ति । तदिदमक्षरसाम्यं शाकपूणिस्तु वर्णसाम्यान्निर्ब्रूते । दग्धशब्दाग्नि शब्दयोर्गकारवर्णेन साम्यम् । सर्वथापि निर्वचनं न त्याज्यमिति ।