कवचम्

अवतार दिगंबरमुर्ते त्राहि मां परमेश्वर ।

प्रणतो S हं प्रसीद त्वं त्राहि माम् अपमृत्युतः ।।१।।

शिरो मे सद्गुरुः पातु कंठं मे श्रीगगनगिरी ।

ऊरू दत्तात्रयः पातु रक्षेत् स्कंधौ गगनगिरी ।।२।।

जंघे तपोनिधिः रक्षेत् पादौ मे योगिनां गुरुः ।

सर्वं कलेवरं रक्ष, रक्ष मां सर्वतोभयात् ।।३।।

रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।

तत्सर्व रक्ष मे स्वामिन् तपोनिधि दयानिधे ।।४।।

एवमेतद्गुरूकवचं यः पठेद् श्रध्दान्वितः सदा ।

जीवेत् वर्षशतं साग्रमपमृत्युविवर्जितः ।।५।।

इति श्री गगनगिरी स्वामी कवचं समाप्तम् ।।

श्रीसद्गुरुस्वामी समार्थार्पणमस्तु

ॐ शांतिः । ॐ शांतिः । ॐ शांतिः ।

★ Refer book ❛चैतन्यलहरी❜ available in most of the Gagangiri Maharaj ashrams.

๑۩۞۩๑|| ॐ चैतन्य गगनगिरी नाथाय नमः ||๑۩۞۩๑