प्रथमस्कन्धः
प्रथमस्कन्धः
तृतीयोऽध्यायः
सूत उवाच
जगृहे पौरुषं रूपं भगवान् महदादिभिः ।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया || १.३.१ ||
पदच्छेदः सूतः उवाच जगृहे पौरुषम् रूपम् भगवान् महत् आदिभिः सम्भूतम् षोडश-कलम् आदौ लोक-सिसृक्षया
अन्वयः सूतः उवाच भगवान्-आदौ लोकसिसृक्षया महद्-आदिभिः सम्भूतम् षोडशकलम् पौरुषम् रूपम् जगृहे ।