संस्कृतभारत्या: विविधेभ्य: कार्यकर्त्रुभ्य: कानिचन प्रेरणादयकानि सुवचनानि
नमनानि। मित्रता वयसा, वृत्त्या, शिक्षया, धनेन, पदेन च समसु केवलं न। पितापुत्रयो: , भ्रातृभगिन्यो:, स्वामिसेवकयो:, गुरुशिष्ययो: च गाढा मित्रता भवितुम् अर्हति। लोकदृष्ट्या असमयो: गुहरामयो:, सुदामकृष्णयो: च मैत्री लोकविश्रुता एव। यदा कश्चन संस्कृतज्ञ:, संस्कृतभारत्या: कार्यकर्ता वा स्वस्य गृहे, विद्यालये, कार्यालये, सङ्घटने, समाजे aच मित्रतापूर्णं व्यवहारं करोति तदा तं परित: विद्यमानानां सर्वेषां सौमनस्यं सौहार्दं च भविष्यति। तादृशे वातावरणे एव संस्कृतकार्यबीजम् अङ्कुरितं पल्लवितं चभवेत्, प्रत्येकं संस्कृतज्ञ: मैत्र: भवेत्, मैत्र: कार्यवर्धन: भवेत्। जयतु संस्कृतम् जयतु भारतम् । -- ल.ना. (2019-02-12)
नमांसि, स्नेह: , स्निग्धता इति एष: कश्चन गुण: । यथा तैलस्य घृतस्य च गुण: स्निग्धत्वं, तथा मानवस्य जन्मजात: गुण: स्नेह:, मित्रता वा । परं बाल्यस्य पश्चाद् बुद्धि: विविधै: अभिनिवेशै: मित्रभावम् आवृत्य अस्मान् अस्निग्धान् करोति। अत: अपवारितावरण: बुद्धिमान् जन: पुनश्च मूलस्वभाववान् दृश्यते। यतः संस्कृतभारत्याः कार्यं तु धनेन न चलति अपि तु स्नेहेन खलु चलति?। जयतु संस्कृतम् जयतु भारतम् । -- ल.ना. (2019-02-11)
नमांसि, स्नेहवशा: ननु मानवा:। कार्यकर्तृणां परस्पराणां स्नेह:, पवित्रं ध्येयं च तान् कार्ये आबद्धान् रक्षति। यथा यन्त्रे सन्धिस्थानेषु तैले सति सङ्घर्ष: शब्द: वा न भवति तथा गृहे, कार्यालये, सङ्घटने, सामाजिकसंस्थासु च यदा चत्वार: मिलित्वा वसन्ति, मिलित्वा कार्यं कुर्वन्ति वा, तदा परस्परेषु स्नेहे सति घर्षणं न भवति। स्निग्धता सदैव वैमनस्यनिवारिका भवति। स्वस्माद् उत्कृष्टेषु, समेषु, स्वस्मिन् द्वेषकर्तृषु च मित्रतया य: भवति स: एव मैत्र: इति कथ्यते। सर्व: अपि संस्कृतज्ञ: , संस्कृतशिक्षक: , संस्कृतच्छात्र:,संस्कृतभारतीकार्यकर्ता च मैत्र: भवेत्। मित्रणि, संस्कृतभाषाया: उत्थानाय आवश्यक: अंश: एष: । जयतु संस्कृतम् जयतु भारतम् । -- ल.ना. (2019-02- 09)
नमांसि, अस्माकं जीवने य: समय: एतावता अतीत: स: तु गत:। अत: तद्विषये चिन्ता न कार्या। शेषजीवनविषये चिन्तयेम। तद् वा सार्थकं कुर्याम। किञ्चन एकं सेवाकार्यं स्वीकृत्य तद् व्रतरूपेण आजीवनं कुर्याम। दिने दिने स्वार्थ: न्यून: भवेत्, परार्थ: अधिकाधिक: भवेत्। अत्रैव सुखस्य रहस्यम् अस्ति। " स्वस्मै स्वल्पं, समाजाय सर्वस्वम् " इति श्रीगोलवलकरमहोदयस्य उक्ते: अनुसारं जीवनात् एव जीवनस्य सार्थक्यम्। मित्राणि, अस्माकं सेवाकार्यं नाम संस्कृतसेवा। जयतु संस्कृतम् जयतु भारतम् । -- ल.ना. (2019-02-08)
नमांसि, कस्य समाजस्य भविष्यम् उज्वलम् अस्ति इति पृष्टे सति कश्चन ज्येष्ठ: उक्तवान् यस्य समाजस्य युवकानां नेत्रयो: पुरत: स्वप्ना: सन्ति तस्य समाजस्य भविष्यम् उज्वलम् अस्ति। तथा संस्कृतजगति ये युवान: सन्ति, छात्रा: सन्ति ते नवान् स्वप्नान् संस्कृतविकासकान्, राष्ट्रोद्धारकान् द्रष्टुं प्रेरणीया: । तेषु आकाङ्क्षा: , महत्वाकाङ्क्षा: एव, उत्पादनीया:। व्यक्तिगता महत्वाकाङ्क्षा न, अपि तु संस्कृतगतमहत्वाकाङ्क्षा। समर्थरामदास: यदा बाल: आसीत् तदा स: कस्मिश्चित् प्रकोष्ठे उपविश्य दीर्घकालं यावत् चिन्तयति स्म। तदा कश्चन तं पृष्टवान् तत्र किं करोति इति। स: उक्तवान् " चिन्ता करितो विश्वाची" (अहं विश्वस्य चिन्तां करोमि) इति। मित्राणि, तथा अस्मदीया: अपि, वैश्विकम् एव चिन्तनं कुर्यु:, हिमालयोन्नतम् एव स्वप्नं पश्येयु:, इतरै: अनाक्रान्तं एव मार्गं क्रान्तुम् उत्सहेरन्। जयतु संस्कृतम् जयतु भारतम् । -- ल.ना. (2019-02-06)
नमांसि, सर्वस्य अपि दिने चतुर्विंशति: घण्टा: भवन्ति। तासां चतुर्विंशते: घण्टानां भागत्रयम्। प्रतिभागम् अष्ट घण्टा: । एक: भाग: निद्रया याप्यते। एक: भाग: (किञ्चित् अधिक: अपि) वृत्त्यर्थं व्ययीक्रियते। अवशिष्ट: तृतीय: भाग: किमर्थम् उपयुज्यते, कथं याप्यते इति प्रश्न: । तस्मिन् समये निस्वार्थकार्यं, पुण्यसम्पादनकार्यं, लोकहितकार्यं वा कियत् क्रियते? अस्माभि: विभिन्नै: प्रकारै: इतरेभ्य: स्वीकरणं तु प्रतिदिनं क्रियते। किम् अस्माभि: इतरेषां कृते दानम् अपि प्रतिदिनं क्रियते? मित्राणि, वयम् अस्माकं जीवने संस्कृतकार्याय समयदानं कृत्वा पुण्यं सम्पादयाम:। जयतु संस्कृतम् जयतु भारतम् । -- ल.ना. (2019-02-05)