काव्यधारा

ISSN 2348 – 8417

“प्राची प्रज्ञा”

विश्वविद्यालयानुदानायोगद्वारा अधिसूचिता सन्दर्भिता अन्तर्जालशोधपत्रिका
 
(समकालिकसंस्कृतकाव्यावतरणिका)

संयुक्ताङ्कौ - सप्तमाष्टमौ (पञ्चमवर्षः), आषाढश्रावणौ, विक्रमसंवत् 2075

Vol –  VII & VIII (Year – V) July - August – 2018



अस्ति स्वस्तिमती नितान्तसुभगा कल्याणपुर्यां सदा

सम्फुल्ला प्रतिभाभिधानजयिनी श्रीशाङ्करी वल्लरी ।

यस्यां रोहति साम्प्रतं किल महाकाव्यप्रसूनं नवं

तत्सङ्गेन समेति कामपि दशां दिव्यामसौ पत्रिका ॥१॥

 

मामकं चाष्टकं किञ्चिद् विनोदाय सचेतसाम् ।

प्रस्तुवे परनिन्दाया वैयर्थ्यं यत्र वर्णितम् ॥२॥

 

सहृदयकोकिलवृन्दं

नवकविताचूतमञ्जरीं स्वदमानम् ।

यदि मोदते तदेयं

प्राची प्रज्ञा कृतार्थतां वहतितमाम् ॥३॥


 डॉ. रामकृष्णपेजत्तायः, केरलम्, भारतम्

सम्पादकः 


।। मथुराभ्युदयम् ।।


                                                            
डा. शङ्कर राजारामन्

मथुराभ्युदयम्

प्रथमः सर्गः

अहमग्रिकया पेतुर्मथुरामथ गच्छतः
मुकुन्दस्य मनःकूले गोकुलस्मरणोर्मयः ॥१॥

 

अक्रूरस्य रथेनाशु व्रजन्स मथुरापुरीम् ।
मनोरथेन तु स्वीयां पल्लिमेव पुनर्ययौ ॥२॥

 

मित्रे करगृहीताहःप्राभृतेऽप्युदिते हरिः ।
राधासम्भोगरात्रिभ्यो निर्ययौ न चिराद्बहिः ॥
३॥

 

स्तन्यर्णमवधूयैष कृतघ्नस्ते सुतो गतः ।

इत्यन्तर्लिखितामम्बां बभाषे माधवो मिथः ॥४॥

 

गोष्ठाधिकारसंस्मृत्या कथमप्यश्रु धारयन्।

कृच्छ्रं पिता श्रितोऽद्य स्यादित्युन्नीय मुमोह सः ॥५॥

 

भवन्ति कथमाभीर्यो हित्वा मामिति चिन्तयन्
नाधिकामात्मनो मेने व्यग्रतां बल्लवाग्रणीः ॥
६॥

 

बहु श्रुत्वापि भाषित्वाप्याभीरीर्घोषनिर्गमे ।

श्रोतव्यभाषितव्येषु सशेषो विषसाद सः ॥७॥

 

स्वकीयसुखदुःखाश्रुप्रथमाङ्कुरसाक्षिणः ।

सखीनाक्रन्दतो दूरेऽप्यशृणोदिव केशवः ॥८॥

 

अस्पृशच्चेतसा कृष्णो घोषधेनुकदम्बकम् ।

भावनाबद्धतद्धेमक्षुद्रघण्टाघनस्वनः ॥९॥


रथाद्द्रुतगतेरध्वक्ष्मारुहानन्तरान्तरा।

दर्शनीयरसाजह्रेयमुनायदुनन्दनम्॥१०॥

 

योऽभूद्बर्हलघुर्दोष्णि पुरा गोवर्धनो गिरिः ।

तमद्य हृदये कृत्वा शौरिरासीद्भरार्दितः ॥११॥

 

क्वचित्कलमकण्डन्या राधाप्रेमार्थगर्भितम् ।
अशृणोदुन्मना गीतं सोऽवतीर्येवयानतः ॥
१२॥

 

दध्यौ कुञ्जमथो यत्र स राधा च रहोरसैः ।

अनैष्टामन्धकारैकप्रावारच्छादितौ निशाम् ॥१३॥

 

स ऐच्छत्तरुणाभीरीचीरस्तेयैकसाक्षिणः ।

नीपस्य विटपाद्द्रष्टुमधो रविसुतारयम् ॥१४॥

कलिन्दनन्दिनीकूलनिकुञ्जानिलमञ्जसा ॥
अनिलेषु परिज्ञाय सुखं मधुभिदश्वसत् ॥ १५॥

 

पुरो नीडद्रुमादभ्रं पतन्त्यै पक्षिपङ्क्तये ।

आशंसत सनिर्विघ्नां प्रत्यागतिमहःक्षये ॥१६॥

 

प्रत्यक्षतामिवासाद्य व्यधुराधिमधोक्षजे ।

ते ते घोषस्यपन्थानो मन्थानोन्मुखरालयाः ॥१७॥

 

कल्पनामुरलीनालनिवेशपरिपेशले ।

मुहूर्तमधरे स्पन्दो मुमूर्च्छ मुरवैरिणः ॥१८॥

विना पिच्छावतंसेन विना गुञ्जामणिस्रजा ।

कमप्यन्यमिवात्मानं पश्यति स्म जनार्दनः ॥१९॥

 

वर्षान्मासाद्दिनात्किं वा मुहूर्तात्पूर्वमप्यहम् ।

यत्रासं कुत्र सा पल्लीत्यच्युतोऽन्तर्विसिस्मये ॥२०॥


सन्तुतोषहृषीकेशो राधाविश्लेषवानपि ।

प्रेक्ष्यमार्गसरःकोकं प्रियया सङ्गतं प्रगे ॥२१॥

 

पुनरप्यातपक्लान्तो यमुनाम्बु कदा न्वहम् ।
प्रविशामि समं मित्रैरित्युत्कण्ठामुवाह सः ॥२२॥

 

तमालस्य तमालस्यक्षणोचितपरिग्रहम् ।

प्रतिभाऽऽविष्कृतं पादं पद्माक्षो निरवर्णयत् ॥२३॥

 

भूयश्चकार गोविन्दो गोपीसदनसर्पिषे ।

चोरिकारसलभ्यत्वादेकान्तस्वादुने मनः ॥२४॥

 

शशंस मीलितेनाक्ष्णोर्बाह्वोश्च पुलकश्रिया ।

मनोमार्गावतीर्णस्य मुदो रासक्षणस्य सः ॥२५॥

 

जघानयानविक्षोभविलोलामालिकामुहुः।

हृदयेदनुजारातिंबल्लवीत्यागनिर्घृणे॥२६॥

 

पल्लीपर्णोटजद्वारि श्रुतास्तेन प्रयत्नतः ।

क्रीडाकीरवधूवाचो राधाभणितिबन्धुराः ॥२७॥


उत्प्लुते हरिणे क्वापि रथालोकनसाध्वसात् ।
ददर्श यदुशार्दूलः कालस्य चपला गतीः ॥२८॥

 

पाषाणकठिनादूरेतेनालक्षिगिरिच्छटा।

सुमनोदुर्बलंपुंसामशोचिहृदयंपुनः॥२९॥

 

क्वापि शैलशिरःपाती निर्झरस्त्रुटितोऽश्मसु ।

ममार्ज शीकरासारैस्तस्य चिन्ताऽऽविलं मुखम् ॥३०॥

 

शकटार्हासु पल्लीनां पदवीषु सपामरान् ।

रथागमचमत्कारसतालीकान्न्यभालयत् ॥३१॥

 

मामस्त्रीकृत्य जेतासीत्यनङ्गमलिगुञ्जितैः ।

ब्रुवन्निव बभौ तस्य प्रसवो मार्गवीरुधः ॥३२॥

 

उपेन्द्रमुत्थितक्षोभमुदीक्षितुमिवाक्षमाः ।

आसन्नध्वगते क्षेत्रे शालयो नतमौलयः ॥३३॥

 

पार्श्वस्थस्यबलस्योक्तीर्बल्लवीगतमानसः

कतिभिश्चन हुङ्कारैर्नन्दसूनुर्न्यवारयत् ॥३४॥

 

न ग्रामैर्न च केदारैर्न वनैर्न महीरुहैः ।
हरेः पर्यणमन्मार्गश्चिन्ताभिर्दूरसूत्रितः
३५॥

 

अक्रूरस्येव सूरस्य त्वरमाणतुरङ्गमम् ।

अथोदलङ्घयद्यानं यातव्यस्यार्धमध्वनः ॥३६॥


लघिमानमगाच्छाया तस्मिन्नुग्रातपे क्षणे ।

प्रायोऽर्थाः परिहीयन्ते यदैवेष्टा विशेषतः ॥३७॥

 

पूषा प्रकाशिताशेषपदार्थप्रकरोऽपि सन् ।

अस्थाद्व्योम्नि दुरालोको हृदीव परमेश्वरः ॥३८॥

 

ऊष्मातिशयमातेनुर्वाता दिक्षु विदिक्षु च ।

प्राप्तवन्त इवाभीरीशोकोच्छ्वासोर्मिसंस्तवम् ॥३९॥


जगत्युष्णमयूखार्चिःशलाकानिबिडे प्रजाः ।

मुमुहुर्मीलितारम्भा महीयस्येकपञ्जरे ॥४०॥

 

तडागमभितो भूतैर्बद्धचक्रं पयः पपे ।
जिनेन्द्रमिव निर्वैरैरुपदेशवचोऽमृतम् ॥
४१॥

 

घर्मार्त्त इव मार्तण्डोऽप्यनुबिम्बच्छलात्तदा ।

यत्र यत्र ददर्शाम्भस्तत्र तत्र निमग्नवान् ४२॥

 

प्रलम्बवैरिणो गण्डौ चुम्बितावातपश्रिया ।

प्रापतुश्छविमारूढमदस्येव नवारुणाम् ॥४३॥

 

एतस्यदुहितुस्त्यक्ता मया सख्यो व्रजाङ्गनाः ।

स्थाने तन्मयि तीक्ष्णोऽर्क इति व्यमृशदच्युतः ॥४४॥

 

वेधोनातिचिरन्यस्तवियोगविषमाक्षरात् ।

जह्रे स्वेदकणोद्भेदस्तद्भालात्तिलकश्रियम् ॥४५॥

 

न कृष्णस्य तथा मम्लौ मुखमातपसम्पदा ।
यथा घोषस्थलीयोषिदवस्थान्तरचिन्तया ॥४६॥

 

श्रमाम्बुप्रसरश्लक्ष्णे धावतोर्यानधुर्ययोः ।

तरङ्गितमभूदङ्गे पतङ्गप्रभवं महः ॥४७॥

 

स्यन्दनो गान्दिनेयस्य मरुल्लुलितकेतनः ।

प्रपेदे मृगतृष्णाम्भस्तटिनीप्लवपाटवम् ॥४८॥

 

विश्रम्य व्रजतामश्वौ स्थापय क्षणमार्य माम् ।

इतीवाह रथोऽक्रूरं मणिकिङ्किणिकारवैः ॥४९॥


शैवालकम्बलास्तीर्णस्निग्धश्यामशिलातलम् ।

अच्छिन्नशीकरासारस्तिमिताभिनवोलपम् ॥५०॥

 

क्षणासीनक्षणोड्डीनविलोलविहगार्भकैः ।

नौकानिबन्धनस्थूणादारुभिर्दन्तुरान्तरम् ॥५१॥

 

निखाय पक्षयोर्मध्ये सलीलवलितं मुखम् ।

भाव्यमानसुखस्वापैः क्वापि कारण्डवैर्युतम् ॥५२॥

 

निदाघभरभीरुत्वान्मध्येकम्बुनिलीनया ।

परिवारितपाषाणं बालशम्बूकसंसदा ॥५३॥

 

अत्युष्णेनद्विजिह्वेनच्छिद्रमेकमभीप्सता ।

चरित्रमिव साधूनां मृग्यमाणमितस्ततः ॥५४॥

 

अनिहत्य विनिर्मुक्तैरर्यम्णा करुणावशात् ।

आक्रान्तमन्धकारस्य किशोरैरिव कासरैः ॥५५॥


प्रपूर्याम्बुघटीरत्र गता कापि नितम्बिनी ।

इतीवपदरेखाणां ब्रुवन्निम्नतया क्वचित् ॥५६॥

 

मार्गैकसहचारिण्या विकर्तनतनूभुवः ।

प्रतीरं प्रति निन्येऽथ नियन्ता रथमात्मनः ॥५७॥

 

वत्सौरविरतिक्रूरोदूराभोजपतेःपुरी।

तद्विरम्य पुनर्यामो यमुनाम्बुधुतश्रमाः ॥५८॥

 

इत्युक्त्वा गान्दिनीसूनुर्मुरारिमुसलायुधौ ।

क्षणं पर्यैक्षताक्षिभ्यामर्कजातीरमग्रतः ॥५९॥

 

क्रमसंलक्ष्यचक्रारं प्रोथिनोर्वेगनिग्रहात् ।

रथमस्थापयच्चैव ततः क्वचिदनातपे ॥६०॥

 

अवतेरतुर्विधृतवाजियुगा-

द्वहनाच्छ्वफल्कसुतसीरभृतौ ।

स च दानवेन्द्रदमनाय मही-

मवतीर्णवानवततार हरिः ॥६१॥

 

इति कल्याणपुरवासिनः शङ्करकवेर्मथुराभ्युदयनाम्नि महाकव्ये यमुनादर्शनं नाम प्रथमः सर्गः समाप्तः


                                                    Dr. Shankara Rajaraman,

                        No.684 1st E Cross, 3rd Stage, 4th Block, Basaveswaranagar, 

                                                       Bangalore -  560079, Karnataka

Ph: 09740091530

Email : tryaksha@gmail.com


 ।। काव्यम् परदोषगवेषकाग्रणीः ।।

                                                                                              
डा. रामकृष्णपेजत्तायः 

  

कवयिता - डा. रामकृष्णपेजत्तायः

आङ्ग्लानुवादकः - डा. नरेशकीर्तिः 


परदोषगवेषकाग्रणीः ! निजदोषान् न विलोकसे कथम् ।

किमु गानकलाविनिर्णये बलिभोक्ताऽधिकृतिं समर्हति ॥१॥

Maestro critic, how come you don’t notice your own flaws,

can the crow ever be a judge of sweet birdsong?

 

तरणिः किल चण्डमण्डलो मघवा नेत्रशतैर्विरूपितः ।

शरधिर्लवणत्वदूषितो विधुरङ्केन कलङ्कितश्चिरात् ॥२॥

The sun has a  searing orb, Indra is unsightly with hundreds of eyes,

the ocean is marred by saltiness and the moon is stained.

 

पुरहा वपुषा विलोचनो कुटिलं याति च मुक्तिदा नदी ।

विहितेऽपि महागवेषणे नहि निर्दोष इहोपलभ्यते ॥३॥

The destroyer of the (three) cities, Siva, has an odd number of eyes,

the liberating river has a crooked course,

even if one searches hard, a faultless thing will not be found.

 

नियमेन गुणेषु रज्यतां न च दोषो लवतोऽपि लोक्यताम् ।

रमते कमलेषु षट्पदो बहुपङ्केषु सरःसु सूकरः ॥४॥

As a rule, heed to the virtues,

do not look even for a bit at the faults,

while the bee frolics in the lotuses,

the swine wallow in ponds filled with mire.

 

अथ दोषलवोऽपि नास्ति चेत् कथमुत्पत्तिरमुत्र भूतले ।

अपराधकृतेरृते नरो नहि कारागृहवासमञ्चति ॥५॥

Then, if one were indeed faultless,

then why would (s)he have taken birth in this mortal world?

A person who has done no wrong,

will not be decreed to live in prison.

 

सहजे शरधौ विषामृते धरणिर्गर्तमहीध्रसम्भृता ।

गगनं क्वचिदस्ति निर्मलं क्वचिदभ्रालिविनष्टकान्ति च ॥६॥

Poison and nectar are siblings, born of the same ocean,

the earth is (equally) endowed with deep crevasses and lofty peaks,

the sky is  spotless somewhere,

and sometimes is dull with wisps of cloud.

 

प्रकृतिः प्रकृतेरियं सखे ! गुणमात्रं न हि तिष्ठति क्वचित् ।

यत एति मनोज्ञकौमुदी तत उल्कापि पतत्यमूं भुवम् ॥७॥

Friend, this is the nature of nature,

it is not that there are virtues alone.

The(sky,) source of charming moonlight,

is also from where comets strike this earth.

 

य एक एव निर्दोषो गुणाम्भोधिश्च तं हरिम् ।

संस्मरन्निजकृत्यानि कुर्याः सार्थं च जीवितम् ॥८॥

There is but one faultless one,

Hari, the ocean of all qualities.

Bear him in mind and go about your duties,

thereby  make your life meaningful.


Dr. Ramakrishna Pejathaya,

 Asst. Professor

Chinmaya Viswavidyapeeth, Ernakulam

Ph : 09844210845

Email : b.ramakrishna@gmail.com

 

Sri. Naresh Keerthi,

Asst. Professor

Chinmaya Viswavidyapeeth, Ernakulam

Ph : 9448820492

Email : naresh.keerthi@cvv.ac.in



नृणामीक्षमाणस्य वैषम्यसान्द्रं  भुजङ्गप्रयातोपमं वृत्तमस्य ।
कवेर्दूनचित्तस्य चेतोहरीणाममूनां गिरां के न वश्या भवन्ति ॥

डॉ. रामकृष्णपेजत्तायः, केरलम्, भारतम्

सम्पादकः


॥अनुभूत्यष्टकम्॥

डा.प्रियव्रतमिश्रः

 

विशालं गृहं ते धनं मेरुतुल्यं

सदा वैभवैर्जीवनं यापितं भोः ।

समाजाय किञ्चिन्न कर्त्तुं मनस्ते

तदा ब्रूहि बन्धो! वृथा जीवनं ते ॥ १ ॥

 

अधीतं षडङ्गादिवेदादिशास्त्रं

सभायां सदा मानितः पण्डितैर्भोः ।

समाजाय किञ्चिन्न कर्त्तुं मनस्ते

तदा ब्रूहि बन्धो! वृथा जीवनं ते ॥ २ ॥

 

मुखे चन्द्रिका भाति रम्यं सुरूपं

शरीरं सुबद्धं बलेनातिशक्तम् ।

समाजाय किञ्चिन्न कर्त्तुं मनस्ते

तदा ब्रूहि बन्धो! वृथा जीवनं ते ॥ ३ ॥

 

सुरम्या द्वितीया मनोहारिणी सा

सुपुत्रस्सुयोग्यस्सुता सुन्दरी वै ।

समाजाय किञ्चिन्न कर्त्तुं मनस्ते

तदा ब्रूहि बन्धो! वृथा जीवनं ते ॥ ४ ॥

 

गृहे स्तौषि देवं सदा निष्ठया वै

जिहीषे भृशं मन्दिरं पूजनार्थम् ।

समाजाय किञ्चिन्न कर्त्तुं मनस्ते

तदा ब्रूहि बन्धो! वृथा जीवनं ते ॥ ५ ॥

                                                 

विशाला वणिज्या विशाला प्रसिद्धि

र्विशालं स्वरूपं विशाला प्रसक्तिः ।

समाजाय किञ्चिन्न कर्त्तुं मनस्ते

तदा ब्रूहि बन्धो! वृथा जीवनं ते ॥ ६ ॥

 

भवेच्छास्त्रचर्चा भवेद्वा समाख्या

भवेद्धान्यचिन्ता भवेद्वै समर्चा ।

परञ्चापि बन्धो! मनाग्ध्यायतां भो !

भवेच्चापि लोके समाजाय चिन्ता ॥ ७ ॥

 

प्रकामं भजस्व प्रभोः पादयुग्मं

प्रकामं वृणीष्व प्रभूतञ्च वित्तम् ।

क्षणं धेहि चित्तं समाजाय बन्धो!

तदा सार्थकं स्यान्मुदा जीवनं भोः ॥ ८ ॥

 

 सहायकाचार्यो व्याकरणविभागे

श्रीरामसुन्दरसंस्कृतविश्वविद्याप्रतिष्ठानम्, रमौली

(आदर्शमहाविद्यालयः)

दरभङ्गा-८४७२०१(बिहारम्)

M-9939622062  E.mail- shabda.priyavrat@gmail.com


गीतम्

 

अंकित शर्मा 'इषुप्रिय'

 

तव  दर्शनं  मम  प्राणाधारं दुसह्यावकासं।

केलिस्मृत्येः नैव सम्भवं कुतोऽपि निकासं।

क्व   विस्मृत्य   गतस्तव   हृदयं  कृत्वाकुलं  माम्।

क्रन्दनमश्रुतमात्मानस्कृत  एति    दया       त्वाम्।

निशीथतिमिरमिवजीवनमभूतःनहि किंचित्प्रकाशं।

तव   दर्शनं   मम   प्राणाधारं   दुसह्यावकासं।।१।।

तन्नूपुरनादं      स्पर्शं    मृदु      हृद्याभास्यमानं।

चित्तान्तस्तव   तरन्सुवासं  सम्भवति  विक्षोभं।

प्राप्नोति   प्रतिदिनं   तद्प्रेमांकुरं  सतत्विकासं।

तव  दर्शनं  मम  प्राणाधारं दुसह्यावकासं।।२।।

स्मृत्यांके  द्वे  स्वप्नौ  तव   संरक्षितौ   मयि।

त्वत्विनायात् युगं एकाकिन् मे ह्यवसत्त्वयि।

प्रिययागच्छ   सामीप्ये  क्षयनात्पूर्वैव  श्वासं।

तव  दर्शनं  मम   प्राणाधारं   दुसह्यावकासं।

रामपुर कला, सबलगढ,मुरैना(.प्र.)

पिनकोड-476229

मो.- 8827040078



उपालम्भो देव्या अयमिति कविर्यद्यपि वदे-

द्ध्रुवं नन्देत् साऽस्मिन् सरसकवितावर्जितमनाः ।    

स्तुतिर्वा निन्दा वा यदपि च वचो निर्विषयकं

कविश्चेत् तद्वक्ता भवति रसनीयं तदखिलम् ॥

सम्पादकः

डॉ. रामकृष्णपेजत्तायः, केरलम्, भारतम्

!! वाग्देव्यै उपालम्भ: !!

 

डॉ.अरविन्दकुमारतिवारी

 

अहं सेवे मातस्तव चरणरेणुं प्रतिपलं

किमर्थं हे रुष्टे नयनयुगदृष्टिं क्षिपसि नो ।

ममाहो हृद्गेहे वससि सुखदे कल्पलतिके

किमिच्छामि प्रीतो विदितमखिलं ते न तु कथम् ॥1

 

अये वीणापाणे धवलकलहंसासनसुखे

वसन्ते गायन्ती मधुरकलकण्ठे हृदयगे ।

स्वपुत्रस्याह्वानं किमु जननि चाकर्णयसि नो

बुभुक्षोश्चाह्वानं जगति शृणुते को न वचनम् ॥2

 

ध्रुवं मातर्मातर्जननि जननीति प्रवदतो

विशुष्को मे कण्ठस्तदपि हृदयं ते द्रवति नो ।

ध्वनिं श्रुत्वा शीघ्रं कुरु परुषचित्तेsश्रुनयने

कटाक्षं शुक्लाङ्गे मयि सपदि विघ्नौघशमनि ॥3

 

रसैश्चालङ्कारैरभिनवकवे: काव्यममलं

सुवृत्तै: संरीत्या घटयसि गुणैर्ज्ञायत इव ।

मदीयं काव्यं ते भवतु सदनं हे जननि त-

न्न काङ्क्षा मे चान्या तव सुकृपया किं न सुलभम् ॥4

 

सुतस्ते नो मातर्धनपतिकुबेरस्य तनयो

न नेतॄणां पुत्रो न च परमविद्वज्जनसुत:

विनीतान्तेवासी लिखति सहसा संस्तवमहो

सुपुत्रस्ते कश्चिचन्नयनजमसीलेखसुभगम् ॥5

 

इमान् सुप्तान् मातर्वद जननि विख्यातविदुष:

शिशौ चैते कुर्यु: प्रथितयशसस्ते सुखमयीम् ।

सुदृष्टिं विक्रीता: श्रुतिरवगला नेत्ररहिता-

स्तृषार्त: संरक्ष्यो मधुरजलधाराभिरधुना ॥6

 

संस्कृतप्रवक्ता

आदर्शवै.वि..का., नंगला-सिनौली,

बागपतम्

उत्तरप्रदेश:

 


Editor in Chief

Dr.Sugyan Kumar Mahanty

To send news / informations / poetries in Sanskrit / Research Papers to this site please type in Arial Unicode MS(Devanagari) & email to prachiprajnaenb@gmail.com


Published by
DR. SUGYAN KUMAR MAHANTY

RASHTRIYA SANSKRIT SANSTHAN, VEADVYAS CAMPUS, BALAHAR, DIST. KANGRA,TEHSIL-RAKKAR, H.P. INDIA,  PIN – 177108.

email - prachiprajnaenb@gmail.com

Disclaimer: All the contents included on this web site including text, graphics, images, video clips and audio clips are the property of the publishers. The collection, arrangement and assembly of all content on this site is the property of the publishers and protected by copyright laws.


Flag Counter
Comments