ISSN 2348 – 8417
A Peer Reviewed Online Journal in Sanskrit
Indexed in DOAJ
पुनरीक्षिता सन्दर्भिता अन्तर्जालशोधपत्रिका
प्राचीमनु प्रदिशं प्रेहि विद्वान्, शुक्लयजुर्वेदः, वा. मा. सं., 7.66
सम्पादकीयम्
वैदिकवाङ्मयेऽनुसन्धानस्य नवीनक्षेत्राणि
वेदेभ्यः संस्कृतवाङ्मयस्य धारा निर्गत्य विविधरूपरूपान्तरं धारयन्ती अद्यावधि निरवच्छिन्नरूपेण प्रवहमानास्ति। संस्कृतवाङ्मयस्य विविधेषु स्वरूपेषु प्रमुखानि भवन्ति – वैदिकसाहित्यं, पुराणसाहित्यं, दर्शनसाहित्यं, लौकिकसाहित्यं, आधुनिकवाङ्मयं च। संस्कृतभाषाया आद्यस्रोतः वेदाः। अस्माकं पूर्वजैः ऋषिभिः स्वीयतपःसाधनाभिः विविधानि लौकिकानि पारलौकिकानि च ज्ञानानि संस्कृतवाङ्मये निबद्धानि सन्ति। तेषां कतिपया एव पक्षा अधुना लोकलोचनमानीताः सन्ति। अन्ये चापरिमिताः पक्षा एयावदप्रकाशिताः सन्ति। अतः तेषामप्रकाशितपक्षाणां प्रकाशाय अनाविष्कृतज्ञाननिधीनाञ्चाविष्काराय, अनन्वेषितानाञ्चान्वेषणाय, अन्वीष्टानामपि पक्षाणां तद्विश्लेषणसमालोचनतुलनादीनां विविधशोधविधीनां प्रयोगद्वारा अधुना अनुसन्धानस्य महती आवश्यकतास्ति। अत एवादौ संस्कृतवाङ्मयस्य तेषां तेषां पक्षाणां प्रकाराणां स्वरूपाणाञ्च विषये ज्ञानमपरिहार्यं येषु अनुसन्धानस्य द्वाराणि सम्भवन्ति।
यदि वैदिकवाङ्मयेऽनुसन्धानं प्रवर्तयितुमिष्यते तदा प्रथमं वैदिकवाङ्मयस्य प्रमुखानां पक्षाणां सामान्यमपेक्षितञ्चाध्ययनं कर्तव्यम्। यथा – वेदानां संख्या, स्वरूपं, विभागाः, वेदानां संहिताः/शाखाः, पदपाठाः, पदपाठकाराः, भाष्याणि, भाष्यकाराः, ब्राह्मणानि, ब्राह्मणभाष्याणि, ब्राह्मणभाष्यकाराः, आरण्यकानि, आरण्यकभाष्याणि, आरण्यकभाष्यकाराः, उपनिषदः उपनिषद्भाष्याणि, उपनिषद्भाष्यकाराः चेत्यादीनि। वेदानां तथा तदङ्गानामपि शिक्षा-कल्प-व्याकरण-निरुक्त-ज्यौतिष-च्छन्दसां सम्यक्परिचयः स्यात्। प्रथमं शोधार्थिना स्वरुच्यनुगुणम् एतेषु कस्यचित् पक्षस्य चयनं कर्तव्यम्। ततः तेन निश्चयः कर्तव्यो यदधस्तनेषु कस्मिन् पक्षे अनुसन्धानं प्रवर्तनीयम्?
अप्रकाशितायाः मातृकायाः सम्पादनं पाठसमालोचनं च ।
समालोचनात्मकमध्ययनम्।
विश्लेषणात्मकमनुशीलनम्।
तुलनात्मकमध्ययनम्।
देशकालस्थानादिनिर्णयार्थम् ऐतिहासिकमनुसन्धानम्।
वैज्ञानिकपक्षाणामनुसन्धानम्।
सामाजिकपक्षाणामनुसन्धानम्।
सांस्कृतिकपक्षाणामनुसन्धानम्।
मूल्यबोधानाम् अनुशीलनम्।
पर्यावरणदृष्ट्या तस्य पक्षस्य अनुशीलनम्।
शैक्षणिकतत्त्वानां विश्लेषणम्।
तन्त्रांशस्य (software) अपि निर्माणम्।
विवरणात्मकसूचीनिर्माणम्।
एवमादिपक्षेभ्यो निजरुच्यनुगुणमवचितं पक्षं चित्वा तदवलब्यानुसन्धेयम्। तदनु संस्कृतवाङ्मयगत-तद्विशिष्टपक्षस्य सूक्ष्ममध्ययनम् कर्तव्यम्। ततश्च सम्बद्धस्य शास्त्रान्तरस्यापि पूर्वज्ञानमर्जनीयं यस्योपयोगोऽनुसन्धाने करिष्यते। एवमनुसन्धाताप्रकाशितस्य प्रकाशायाऽनाविष्कृतस्याविष्कारायाऽनन्वेषितस्य अन्वेषणायाऽन्वीष्टस्यापि विश्लेषणसमालोचनतुलनादिभिः नवनवोन्मेषं विधातुं स्वीयां प्रज्ञां प्रयुञ्जीत। प्रज्ञा चेत्थमुदीरिता -
आगमेनानुमानेन ध्यानाभ्यासरसेन च ।
त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥
सुज्ञानकुमारमाहान्तिः
मुख्यसम्पादकः
शास्त्रमञ्जूषा
Published by
Prof. Sugyan Kumar Mahanty
Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.
email - prachiprajnaenb@gmail.com
This work is licensed under a Creative Commons Attribution 4.0 International License.