Prachi Prajna is an eco-friendly journal
&
contributes to green solution to environmental hazards
वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥ ऋग्वेदः/शाकलसंहिता/7.34.23
The pair of heaven and the earth consentient with the forest lords, and both the world-halves, pressure for us those riches.
कृपया संस्कृतसम्बन्धिकार्यक्रमाणां वार्ताः MS Word File मध्ये Arial Unicode MS(Devanagari) Font माध्यमेन टङ्कयित्वा, वार्तासम्बन्धिचित्राणि च JPEG प्रारूपमाश्रित्य 50 kb मध्ये अभिसंक्षिप्य prachiprajnaenb@gmail.com इत्यत्र प्रेषयन्तु ।
(Please type your news in Sanskrit in Arial Unicode MS(Devanagari) on the MS Word File only and email to prachiprajnaenb@gmail.com along with compressed photos in JPEG format (up to 5) not more than 50kb each.)
डॉ. नारायणदत्तमिश्रः
सुश्रीः डॉ. यदुश्रीः
सुश्रीःडॉ. अदितिः
प्रो. सुज्ञानकुमारमाहान्तिः
मुख्यसम्पादकः
26th June, 2025
एकोनविंशतितमस्य विश्वसंस्कृतसम्मेलनस्य उद्धाटनम्
तिथिः - 26.06.2025तमः दिनाङ्कः
स्थानम् - काठमाण्डु, नेपालम्
26.06.2025तमे दिनाङ्के नेपालदेशस्य राजधान्यां भगवतः पशुपतिनाथपादपङ्कजरजोभिः पवित्रिते काष्ठमण्डपनगरे एकोनविंशतितमस्य विश्वसंस्कृतसम्मेलनस्य भव्यं दिव्यं चोद्घाटनं नेपालदेशस्य महामहिमराष्ट्रपतेः रामचंद्र-पौडेलमहोदयस्य मुख्यातिथित्वेन सुसम्पन्नम्।
विश्वसंस्कृतसम्मेलनस्य महत्त्वपूर्णमिदमुद्देश्यमस्ति यत् विश्वस्य प्राचीनतमायाः संस्कृतभाषायाः विश्वभाषारूपेण संवर्धनं तथा च संस्कृतभाषानिहितानां साहित्य-धर्म-दर्शन-संस्कृति-नाट्य-सङ्गीतादिसहितानां स्नेह-मैत्री-करुणा-सदाचारादि-मानवमूल्यानामाविश्वं प्रचारः प्रसारश्च, तथा ऋषिभिः मुनिभिश्च प्रणीतानां संस्कृतभाषानिहितानां योगायुर्वेदादिसहितानां विपुलवैज्ञानिकनिधीनां पुनः प्रवर्तनम्।
आदौ वैदिकमन्त्रोच्चारणात्परम् एकोनविंशतितमस्य विश्वसंस्कृतसम्मेलनस्यास्य संयोजकेन प्रो. काशीनाथन्यौपानेमहोदयेन आविश्वेभ्यः वभिन्नेभ्यः देशेभ्यः समागतानां पारेसहस्रसंख्यकानां संस्कृतविदुषां विदुषीणां च प्रीतिप्रमुखवचनैः स्वागतमकरोत्।
भारतदेशस्थस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य माननीयकुलपतिः प्रो.श्रीनिवासबरखेड़ी महदयः कृत्रिमबद्धिमत्तायाः (artificial intelligence) इत्यस्याः अपि श्रेष्ठभाषा संस्कृतमिति सघोषम् उदघोषयत्।
सम्मेलनस्य औद्घाटनिके सत्रे नेपालदेशस्य संस्कृति-उड्डयनमन्त्रिणा श्रीबद्रीप्रसादपाण्डेयमहोदयेन संस्कृतं विश्वस्य धरोहरभाषारूपेण अवर्णयत्।
नेपालसंस्कृतविश्वविद्यालयस्य माननीयोपकुलपतिः प्रोफेसर-धनेश्वर-महोदयः आधुनिकपृष्ठभूमौ संस्कृतस्य आवश्यकतां दृढतया प्रत्यपादयत्।
सम्मेलनेऽस्मिन् अनन्तश्रीविभूषितः श्रीमन्नारायणस्वामी जियर्-महाराजः सर्वान् सभासदः स्वाशिषा समभूषयत्।
विश्वसंस्कृतसम्मेलनस्य अध्यक्षा प्रो.दीप्ति-त्रिपाठिमहोदया विश्वस्मिन् विश्वे संस्कृतभाषा तन्निहितं च साहित्यम् अनितरसधारणतया उपयगीति अवदत्।
सम्मेलनमिदं 26.06.2025तमदिनाङ्कादारभ्य 30.06.2025तमदिनाङ्कं यावत् प्रचलिष्यति यत्र आविश्वेभ्यः समागतैः सहस्राधिकैः विद्वद्भिः वेदवेदाङ्गादिसहितानां संस्कृतभाषा-साहित्य-दर्शन-पुराणेतिहास-काव्य-काव्यशास्त्र-नाट्य-नाट्यशास्त्र - सङ्गीत-तन्त्रागम-योगायुर्वेद-गणित-वज्ञान-सङ्गणकादिषु विविधशास्त्रेषु विविधविद्याप्रस्थानेषु क्रियमणानां नवीनानामनुसन्धानानां विषये शोधपत्राणि प्रस्तोष्यन्ते, विचाराः, सम्वादाः, चर्चासत्राणि प्रवर्तयिष्यन्ते च। एतदतिरच्य विदुषीसम्मेलनं, कविगोष्ठी, वाक्यार्थसभा चेति विभिन्नाः कार्यक्रमा आयोजयिष्यन्ते। नृत्य-सङ्गीत-नाट्यप्रयोगा अपि सम्मेलनस्य अपरं महनीयम् आकर्षणम्। सम्मेलनेऽस्मिन् प्रायः पञ्चाशत्संख्यकानां नवीनानां प्रकाशनानां प्रकाशनमपि भविष्यति।
Editor in Chief
Prof. Sugyan Kumar Mahanty
email - prachiprajnaenb@gmail.com
Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.
Published by
Prof. Sugyan Kumar Mahanty
Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.