Prachi Prajna is an eco-friendly journal
&
contributes to green solution to environmental hazards
वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥ ऋग्वेदः/शाकलसंहिता/7.34.23
The pair of heaven and the earth consentient with the forest lords, and both the world-halves, pressure for us those riches.
कृपया संस्कृतसम्बन्धिकार्यक्रमाणां वार्ताः MS Word File मध्ये Arial Unicode MS(Devanagari) Font माध्यमेन टङ्कयित्वा, वार्तासम्बन्धिचित्राणि च JPEG प्रारूपमाश्रित्य 50 kb मध्ये अभिसंक्षिप्य prachiprajnaenb@gmail.com इत्यत्र प्रेषयन्तु ।
(Please type your news in Sanskrit in Arial Unicode MS(Devanagari) on the MS Word File only and email to prachiprajnaenb@gmail.com along with compressed photos in JPEG format (up to 5) not more than 50kb each.)
सुश्रीः डॉ. यदुश्रीः
प्रो. सुज्ञानकुमारमाहान्तिः
मुख्यसम्पादकः
March - 2026
राष्ट्रियसंङ्गोष्ठी
शीर्षकं - ओडिशाराज्यस्य समकालिकसंस्कृतलेखनम्
आयोजकः – संस्कृतविभागः, उत्कलविश्वविद्यालयः, भुवनेश्वरम्, ओडिशा।
अवधिः – 13.03.2026 तः 14.03.2026 पर्यन्तम्
उद्घाटनसत्रम् –
13.03.2026तमे दिनाङ्के संङ्गोष्ठ्याः उद्घाटनसत्रम् उत्कलविश्वविद्यालयस्य कुलपतेः प्रो.यज्ञेश्वरदण्डपतमहोदयस्य मुख्यातिथित्वे, बिहारप्रदेशस्थ-राजेन्द्रप्रसादविश्वविद्यालयस्य कुलाधिपतिचरस्य प्रो.प्रफुल्लकुमारमिश्रमहोदयस्य मुख्यवक्तृत्वे तथा दिल्लीस्थस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य प्रकाशनविभागस्य संयुक्तनिदेशकस्य प्रो.सुज्ञानकुमारमाहान्तिमहोदयस्य सारस्वतातिथित्वे सुसम्पन्नम्। उद्घाटनसत्रे कुलपतिना प्रो.यज्ञेश्वरदण्डपतमहोदयेन संस्कृतभाषायाः महत्त्वं तथा आधुनिककाले संस्कृतलेखनस्य उपयोगिता प्रतिपादिता। राजेन्द्रप्रसादविश्वविद्यालयस्य कुलाधिपतिचरेण प्रो.प्रफुल्लकुमारमिश्रमहोदयेन समकालिकसंस्कृतरचनाधर्मितायाः वैशिष्ट्यानि उद्गीर्णानि। सारस्वतातिथिना प्रो.सुज्ञानकुमारमाहान्तिमहोदयेन उत्कलराज्यस्य संस्कृतरचनायाः बहु-आयामिस्वरूपं प्रतिपाद्य “अद्यत्वे न केवलं काव्यकथादीनामपितु भारतीयज्ञानपरम्परायाः विविधान् पक्षान् – गणित-आयुर्वेद-खगोलशास्त्र-कृषिशास्त्र-विमानशास्त्र-भाषाशास्त्रादीन् अवलम्ब्य नवनवरचनाः भवेयुः” इति न्यगदत्। संङ्गोष्ठ्याः समन्वयकेन उत्कलविश्वविद्यालयस्य संस्कृतविभागाध्यक्षेण प्रो.ब्रजसुन्दरमिश्रवर्येण सर्वेभ्योऽतिथिभ्यः धन्यवादार्पणं कृतम्। सम्मेलनस्य सत्रेऽस्मिन् उत्कलविश्वविद्यालयस्य संस्कृतविभागाध्यक्षचरेण प्रो.रघुनाथपण्डामहोदयेन तथा काशीहिन्दूविश्वविद्यालयस्य संस्कृतविद्याधर्मसङ्कायस्य व्याकरणशास्त्रस्य सहाचार्येण डा.प्रियव्रतमिश्रमहोदयेन, आचार्यसच्चिदानन्दमिश्रमहोदयैः, संस्कृतविभागस्य च्छात्रच्छात्राभिः अन्यैश्च बहुभिः विद्वद्भिः स्वीयभव्योपस्थित्या सनाथीकृतम्। उद्घाटनसत्रस्य सञ्चालनं डा.धर्मेन्द्रदाशमहोदयेन कृतम्।
शोधपत्रवाचनसत्राणि –
13.03.2026तमे दिनाङ्के संङ्गोष्ठ्याः उद्घाटनसत्रस्य परं त्रीणि शोधपत्रवाचनसत्राणि आयोजितानि यत्र प्रो.रघुनाथपण्डा-डा. धर्मेन्द्रदाश-आचार्यसच्चिदानन्दमिश्र-डा.मेनकाराणीसाहु-आचार्यसुज्ञानकुमारमाहान्ति- डा.विभूति-भूषणमहापात्रप्रमुखैः विद्वद्भिः सत्राध्यक्ष्यं सम्पादितम्। संस्कृतसाहित्यं प्रति निरञ्जनदाशस्यावदानम्, श्रीजगन्नाथभक्तितत्त्वं प्रति कविरश्मिश्रीब्रजकिशोरत्रिपाठिन: योगदानस्य समीक्षणम्, आचार्यव्रजसुन्दरमिश्रस्य कृते: कीर्तेश्च विहङ्गवीक्षणम्, सिन्दूरशौर्ये देशात्मबोध:, निसर्गनायिकाकाव्यस्य काव्यकलाविमर्शः, भारतवर्षम् : अपरेऽपि ये नचिकेतस:, ओडिशाया: समकालीनसंस्कृतसाहित्ये दार्शनिकचिन्तनम्, उत्कलस्य भारतीकेशरिपण्डितप्रबोधकुमारमिश्रस्य संस्कृतसाहित्यं प्रति अवदानम्, कोणार्ककाव्ये शिल्पवैभवस्य अध्ययनम्, कोणार्ककाव्ये नारीमनस्तत्त्वम् : एको दृष्टिपात: चेत्यादिषु शीर्षकेषु शोधपत्राणि बहुभिः विद्वद्भिः शोधच्छात्रच्छात्राभिश्च शोधपत्राणि पठितानि।
14.03.2026तमे दिनाङ्के चत्वारि शोधपत्रवाचनसत्राणि प्रत्यक्षरीत्या तथा एकम् आन्तर्जालीयं सत्रम् आयोजितं, यत्र प्रो.प्रतिभामञ्जरीरथ-प्रो.बनमालिबिश्वाल-डा.दुःशासनओझा-प्रो.मनोरञ्जनसेनापति- डा.मधिसूदनमिश्र-डा.सुजितमिश्र-डा.प्रतापचन्द्रत्रिपाठि-पराम्बाश्रीयोगमाया-प्रभृतिभिः विद्वद्भिः सत्राध्यक्ष्यं सम्पादितम्। सत्रेषु एषु Contemporary Sanskrit Story Writings of Odisha, Contemporary Sanskrit Writings of Odisha, क्रिया-आधारित: श्रौतविचार:, उत्कलीयाधुनिकसंस्कृतसाहित्ये नवीनवस्तुयोजना, Reimagining Tradition: Post Modern Voices in Sanskrit Writings from Odisha, Cultural Tapestry of Nath Cult: Unravelling Socio-Cultural Dynamics in rural Odisha, Harekrushna Satapathy: Tradition and Innovation, कोणार्ककाव्ये उत्कलप्रदेशस्य स्थापत्यपरंपरा, The Integration of Tradition and Modernity: A Study of Valentine's Day Sandesha by Prof. Banamali Biswal, कविवनमालिविश्वालस्य यात्रावृत्तान्तपद्यकाव्यानां समीक्षणम्, War, Sacrifice and National Memory:
A Multidimensional Study of The Kargil Kāvyam, हरेकृष्णमेहेरविरचिते मातृगीतिकाञ्जलिकाव्ये देशप्रेम, अर्वाचीनसंस्कृतसाहित्यसमृद्धये बुद्धेश्वरषडङ्गिनः अवदानम्, Contemporary Sanskrit Stories of Prof. Banamali Biswal, Tradition of Bhaktikavya in Contemporary
Sanskrit Literature, Modern Sanskrit Literary Movement in Odisha: A Study of Selected Contemporary Poets, हरेकृष्णमेहेरस्य मातृगीतिकाञ्जलिकाव्ये समयगीतिका - एकं परिशीलनम्, स्वातन्त्रयोत्तरसंस्कृतसाहित्यं प्रति प्रबोधकुमारमिश्रस्य अवदानम्, कविरवीन्द्रकुमारपण्डाविरचितस्य श्रीप्रतापचन्द्रचरितमहाकाव्यस्य समीक्षणम्, संपर्क: इति कथासंग्रहे नारीचेतना, तदेव गगनं सैव धरा - इति काव्ये कविमनीषा, बनमालिविश्वालस्य काव्येषु अन्योक्ति: प्रबोधकुमारमिश्रविरचिते प्रज्ञादूते जगत्स्वरूपविमर्श:, ओडिशाया: समकालीनसंस्कृतलेखनपरंपरायां संपदानन्दमिश्रस्य भूमिका, प्रफुल्लकुमारमिश्रस्य परिव्राजक-उपन्यासे दार्शनिकं विवेचनम्, कनकवर्षचरितमहाकाव्यस्य प्रकृतिवर्णनम् Contemporary Sanskrit Expressions in Odisha: A Study of Acharya Digambara Mohapatra's Works चेत्यादिषु शीर्षकेषु शोधपत्राणि बहुभिः विद्वद्भिः शोधच्छात्रच्छात्राभिश्च शोधपत्राणि पठितानि।
कविसमवायः
अवसरेऽस्मिन् 14.03.2026तमे दिनाङ्के एकः कविसमवायः अपि आयोजितः यत्र प्रो.प्रफुल्लकुमारमिश्र-प्रो.अरुणरञ्जनमिश्र-प्रो.सुज्ञानकुमारमाहान्ति-प्रो.ब्रजसुन्दरमिश्र-डा.प्रियव्रतमिश्र- प्रो.प्रतिभामञ्जरीरथप्रभृतिभिः विविधानि स्वरचितकाव्यानि प्रस्तुतानि।
समापनसत्रम्
14.03.2026तमे दिनाङ्के उत्कलविश्वविद्यालयस्य संस्कृतविभागाध्यक्षचरस्य प्रो.गोपालकृष्णदाशमहोदयस्य तथा शान्तिनिकेतनस्य संस्कृतविभागाध्यक्षचरस्य प्रो.अरुणरञ्जनमिश्रस्य मुख्यसारस्वतातिथित्वेन समापनमभूत्।
संङ्गोष्ठ्याः सफलसमन्वयनम् उत्कलविश्वविद्यालयस्य संस्कृतविभागाध्यक्षेण प्रो.ब्रजसुन्दरमिश्रवर्येण विहितम्।
राष्ट्रियव्याख्यानमाला
शीर्षकम् – भारतीयज्ञानपरम्परायां संस्कृतभाषायाः स्थानम्
रामाधीनसंस्कृतमहाविद्यालयः, ब्रह्मपुरम्
अवधिः – 07.03.2026, 09.03.2026 दिनाङ्कौ
ओडिशाराज्यस्य ब्रह्मपुरनगरस्थे रामाधीनसंस्कृतमहाविद्यालये “भारतीयज्ञानपरम्परायां संस्कृतभाषायाः स्थानम्” इति शीर्षकमवलम्ब्य एका राष्ट्रियव्याख्यानमाला 07.03.2026, 09.03.2026 दिनाङ्कयोः आयोजिता।
व्याख्यानमालाया उद्घातनसत्रं पद्मश्री-सिमाञ्चलपात्रमहोदयस्य मुख्यातिथित्वे डा.गणेशप्रसादत्रिपाठिनः मुख्यातिथित्वे तथा दिल्लीस्थस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य प्रकाशनविभागस्य संयुक्तनिदेशकस्य प्रो.सुज्ञानकुमारमाहान्तिमहोदयस्य डा.अनन्तरामकरस्य आधारपुरुषत्वेन सुसम्पन्नम्। अवसरेऽस्मिन् बहुभिः विद्वद्भिः भारतीयज्ञानपरम्परायां संस्कृतभाषायाः स्थानम् इति शीर्षकमवलम्ब्य व्याख्यानं कृतम्। पं.गोपालकृष्णपाढी-डा.सनातनपण्डा-डा-प्रकाशचन्द्रपाणिग्राही-डा.नरेन्द्रदाश-श्रीबसन्त-साहु-प्रभृतिसंस्कृतविदुषां समुपस्थित्या राष्ट्रियव्याख्यानमाला इयं सफला जाता। व्याख्यानमालायाः संयोजनं रामाधीनसंस्कृतमहाविद्यालयस्य अध्यक्षेण डा.हरिहरदाशमहोदयेन अत्यन्तं समुत्साहतया कृतम्। अवसरेऽस्मिन् महाविद्यालयस्य सर्वेऽपि छात्राः अध्यापकाश्च समुपस्थिता आसन्।
अखिलभारतीयभवभूतिसमारोहः
2082तमविक्रमाब्दस्य फाल्गुन-कृष्ण-पञ्चमीतः फाल्गुन-कृष्ण-नवमीपर्यन्तम्
6-फरवरी-2026-तः 10-फरवरी-2026-पर्यन्तम्
स्थानम् – जीवाजी-विश्वविद्यालयः, ग्वालियरनगरम्
आयोजकाः
कालिदाससंस्कृत-अकादमी,उज्जयिनी
जीवाजी-विश्वविद्यालयः, ग्वालियर
भवभूतिशिक्षाशोधसंस्थानम्, ग्वालियर
अखिलभारतीयभवभूतिसमारोहः कालिदाससंस्कृत-अकादमी,उज्जयिनी, जीवाजी-विश्वविद्यालयः, ग्वालियर तथा च भवभूतिशिक्षाशोधसंस्थानम्, ग्वालियर इत्येतेषां संयुक्ततत्त्वावधानेन ग्वालियरनगरे जीवाजी-विश्वविद्यालये 6-फरवरी-2026-तः 10-फरवरी-2026-पर्यन्तं सुसम्पन्नः।
उद्घाटनसत्रम्
समारोहस्य उद्घाटनोत्सवः जीवाजी-विश्वविद्यालयस्य गालवसभागारे 9-फरवरी 2026-तमे दिनाङ्के पूर्वाह्णे जीवाजी-विश्वविद्यालयस्य कुलगुरोः प्रो. राजकुमार-आचार्यमहोदयस्य मुख्यातिथित्वेन तथा केन्द्रीयसंस्कृतविश्वविद्यालयस्य प्रकाशनविभागस्य संयुक्तनिदेशकस्य प्रो.सुज्ञानकुमारमाहान्तिमहोदयस्य सारस्वतातिथित्वेन समायोजितः। आदौ कालिदाससंस्कृत-अकादम्या निदेशकेन डा.गोविन्दगन्धेमहोदयेन अतिथीनां स्वागतं कृतम्। जीवाजी-विश्वविद्यालयस्य कुलसचिवेन डॉ.राजीवमिश्रा-महोदयेन तथा छात्रकल्याणाधिष्ठातॄणा प्रो.जे.एन.गोतममहोदयेन अखिलभारतीयभवभूतिसमारोहस्य औचित्यं सारगर्भकैः भाषणैः प्रस्तुतम्।
अखिलभारतीयभवभूतिसमारोहस्य अङ्गरूपेण विद्यालय-महाविद्यालय-विश्व विद्यालयस्तरेषु भवभूतेः साहित्यमधिकृत्य निबन्धलेखन-भाषणादिस्पर्धा आयोजिताः तथा च विजेतृच्छात्रेभ्यः प्रमाणपत्राणि पुरस्काराश्च प्रदत्ताः।
पुरस्कृतच्छात्राणां नामानि-
1. सस्वर श्लोक पाठ प्रतियागिता- प्रथमः - राघवेन्द्र तिवारी
द्वितीया - कु. सरस्वती शर्मा
तृतीया - कु. साक्षी जैन
2. संस्कृत भाषण प्रतियोगिता- प्रथमः - विशाल गोस्वामी
द्वितीया - कु. सौम्या शर्मा
तृतीया - कु. हर्षिता यादव
3. हिन्दी भाषण प्रतियोगिता – प्रथमः - अनुराग शर्मा
द्वितीयः - रमाकान्त दुबे
तृतीया - कु. वंशिता चौहान
4. हिन्दी वाद-विवाद प्रतियोगिता- प्रथमः - कु. मनस्वी शर्मा
द्वितीया - अनुराग शर्मा
तृतीया – रामजी तिवारी
5. संस्कृत निबन्ध लेखन प्रतियोगिता- प्रथमा - कु. पलक आहूजा
द्वितीया - कु. शक्ति दुबे
तृतीया – कु. भुवनेश्वरी
सारस्वतोद्बोधनं कुर्वता प्रो.सुज्ञानकुमारमाहान्तिमहोदयेन महाकवेः भवभूतेः व्यक्तित्वकृतित्वयोः परिचयेन सह तदीये नाट्यसाहित्ये मानवीयप्रेम-करुणा-विरह-संघर्षाणां प्रतिबिम्बनस्य चित्रणं कृतम्।
अखिलभारतीयभवभूतिसमारोहस्य अङ्गरूपेण विद्यालय-महाविद्यालय-विश्व विद्यालयस्तरेषु भवभूतेः साहित्यमधिकृत्य निबन्धलेखन-भाषणादिस्पर्धा आयोजिताः तथा च विजेतृच्छात्रेभ्यः प्रमाणपत्राणि पुरस्काराश्च प्रदत्ताः।
मुख्यातिथिना जीवाजी-विश्वविद्यालयस्य कुलगुरुणा प्रो.राजकुमार-आचार्यमहोदयेन अधुनातने समाजे आदर्शनैतिकमूल्यबोधानां सञ्चारनिमित्तं भवभूतेः रूपकाणाम् अध्ययनस्य उपयोगिता दर्शिता। उद्घाटनसत्रस्य अध्यक्षतां कुर्वता ‘भारतीय यात्रा एवं प्रबन्ध संस्थान, ग्वालियर’ इत्यस्य निदेशकेन प्रो.आलोक शर्मणा भवभूतेः जीवनदर्शनस्य लोकोपयोगिता प्रतिपादिता। भवभूतिशिक्षाशोधसंस्थानस्य अध्यक्षेण आचार्यबालकृष्णशर्मणा धन्यवादः प्रस्तुतः। डा.नौनिहालगौतममहोदयेन उद्घाटनसत्रस्य सञ्चालनं कृतम्।
अस्मिन् सत्रे शताधिकाः संस्कृतच्छात्राः विद्वांसः नागरिकाश्च उपस्थिता आसन्।
मुख्यातिथिना जीवाजी-विश्वविद्यालयस्य कुलगुरुणा प्रो.राजकुमार-आचार्यमहोदयेन अधुनातने समाजे आदर्शनैतिकमूल्यबोधानां सञ्चारनिमित्तं भवभूतेः रूपकाणाम् अध्ययनस्य उपयोगिता दर्शिता। उद्घाटनसत्रस्य अध्यक्षतां कुर्वता ‘भारतीय यात्रा एवं प्रबन्ध संस्थान, ग्वालियर’ इत्यस्य निदेशकेन प्रो.आलोक शर्मणा भवभूतेः जीवनदर्शनस्य लोकोपयोगिता प्रतिपादिता। भवभूतिशिक्षाशोधसंस्थानस्य अध्यक्षेण आचार्यबालकृष्णशर्मणा धन्यवादः प्रस्तुतः। डा.नौनिहालगौतममहोदयेन उद्घाटनसत्रस्य सञ्चालनं कृतम्।
अस्मिन् सत्रे शताधिकाः संस्कृतच्छात्राः विद्वांसः नागरिकाश्च उपस्थिता आसन्।
शोधपत्रवाचनसत्रम्
9-फरवरी-2026-तमे दिनाङ्के अपराह्णे शोधपत्रवचनसत्रं जीवाजी-विश्वविद्यालयस्य गालवसभागारे वाराणस्याः प्रसिद्धविदुषः आचार्यभगवत्-शरणशुक्लमहोदययस्य अध्यक्षतायां तथा “प्राची प्रज्ञा” इत्यस्याः अन्तर्जालपत्रिकायाः मुख्यसम्पादकस्य प्रो.सुज्ञानकुमारमाहान्तिमहोदयस्य सारस्वतातिथित्वेन सम्पन्नम्। अस्मिन् सत्रे डा.शालिनीसक्सेना - डा.शिवानी - डा.नौनिहालगौतम - डा.सत्येन्द्र - डा.किरण-आर्या-प्रभृतिभिः पदवाक्यप्रमाणज्ञभवभूतिम् अवलम्ब्य शोधपत्राणि प्रस्तुतानि।
संस्कृतकविसमवायः
अखिलभारतीयभवभूतिसमारोहस्य अङ्गरूपेण 10-फरवरी-2026-तमे दिनाङ्के पूर्वाह्णे पदवाक्यप्रमाणज्ञभवभूतेः रूपकाणि अवलम्ब्य प्रसिद्धकवेः आचार्यबनमालिबिश्वालमहोदयस्य आध्यक्ष्ये संस्कृतकविसमवायः समायोजितः, यत्र आचार्यबनमालिबिश्वालः, आचार्यबालकृष्णशर्मा, आचार्यसुज्ञानकुमामाहान्तिः, डा.श्रीनाथधरद्विवेदी, डा.बिपिनदिवेदी, डा.शलिनी, डा.ऋषिकुमारः, डा.ऋषिराजः चेत्यादिभिः कविभिः काव्यानि प्रस्तुतानि।
अखिलभारतीयभवभूतिसमारोहस्य समापनसत्रे ग्वालियरनगरपालनिगमपक्षतः सर्वेषां संस्कृतविदुषां सम्माननमभूत्।
Editor in Chief
Prof. Sugyan Kumar Mahanty
email - prachiprajnaenb@gmail.com
Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.
Published by
Prof. Sugyan Kumar Mahanty
Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.