If you feel it is useful Please
असुर्या नाम ते लोका अन्धेन तमसावृताः ।
ताꣳस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३॥
अन्वयः-
अन्धेन तमसा आवृताः ते असुर्याः नाम लोकाः ये के च आत्महनो जनाः ते प्रेत्य तान् अभिगच्छन्ति ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
शाङ्करभाष्यम्
अथेदानीमविद्वन्निन्दार्थोऽयं मन्त्र आरभ्यते -
असुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुराः । तेषां च स्वभूता लोका असुर्याः नाम । नामशब्दोऽनर्थको निपातः । ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि । अन्धेन अदर्शनात्मकेनाज्ञानेन तमसा आवृताः आच्छादिताः । तान् स्थावरान्तान्, प्रेत्य त्यक्त्वेमं देहम् अभिगच्छन्ति यथाकर्म यथाश्रुतम् । ये के च आत्महनः आत्मानं घ्नन्तीत्यात्महनः । के? ते जनाः येऽविद्वांसः । कथं ते आत्मानं नित्यं हिंसन्ति? अविद्यादोषेण विद्यमानस्यात्मनस्तिरस्करणात् । विद्यमानस्यात्मनो यत्कार्यं फलमजरामरत्वादिसंवेदनदिलक्षणम्, तत् हतस्येव तिरोभूतं भवतीति प्राकृता अविद्वांसो जना आत्महन इत्युच्यन्ते । तेन ह्यात्महननदोषेण संसरन्ति ते ॥