अयि मान्याः न्यायशास्त्ररसिकाः शङ्कासमाधानरूपशास्त्रार्थतरङ्गोन्मज्जनाः आन्वीक्षिकीनिकुञ्जपुञ्जे कृतश्रमाः तत्र भवन्तः विदांकुर्वन्तु यदत्र नवनीनन्यायविषये कापि फक्किका ऐदम्प्राथम्येन व्यत्पित्सुभिरस्माभिरुपनिबद्धा सूक्ष्मेक्षिपोपपन्नानां भवतां सविधे परिष्करणाय हेम्नः संलक्ष्यते वह्नौ विशुद्धिः श्यामिकापि वा इति दिशा समुपस्थाप्यत इति। कृपावरुणालयैः भवद्भिः अत्र क्षणं दीयताम् इति सम्प्रार्थ्यते। विषयेस्मिन् भवतां टिप्पणीः अधोभागे निर्दिष्टस्थाने भवितुमर्हन्ति । - आत्माश्रमविद्यार्थिवृन्दः ।
अन्वयः
द्रव्यादिसप्तान्यतमत्वव्याप्यं पदार्थत्वं इति व्याप्तिलाभाय अत्र सप्तग्रहणम्
द्रव्यादिसप्तान्यतमत्वेन व्याप्यं पादर्थत्वं इति या व्याप्तिः तस्याः यल्लाभः तदर्थं अस्मिन् वाक्ये (द्रव्यगुण..सप्त पदार्थाः इत्यस्मिन् वाक्ये) सप्त इति यत् पदं तस्य ग्रहणम् ।
द्रव्यादिसप्तान्यतमत्वं इत्यत्र द्रव्यं आदि येषां ते द्रव्यादयः । द्रव्यादयश्च ते सप्त च द्रव्यादिसप्त । द्रव्यादिसप्तसु अन्यतमः द्रव्यादिसप्तान्यतमः तस्य भावः द्रव्यादिसप्तान्यतमत्वं इति विग्रहः ।
येषां इत्यत्र यच्छब्दः षष्ठीविभक्तिः । यच्छब्दस्य पदार्थसमुदायः अर्थः । षष्ठ्याः घटितत्वं इत्यर्थः । पदार्थसमुदायस्य षष्ठ्यर्थघटितत्वे आधेयतासम्बन्धेन अन्वयः । तथा च पदार्थसमुदायनिष्ठघटितत्वं इत्यर्थः । तस्याः निरूपितत्वसम्बन्धेन आदिशब्दार्थ घटकतावान् इत्येकदेशघटकतायां अन्वयः । तस्य अभेदसम्बन्देन द्रव्ये अन्वयः । तथा च पदार्थसमुदायनिष्ठघटिततानिरूपतिघटकतावदभिन्नं द्रव्यं इत्यर्थः । सप्तशब्दस्य सप्तत्वसङ्ख्याविशिष्ट इत्यर्थः । पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्यस्य अभेदसम्बन्धेन सप्तत्वसङ्ख्याविशिष्टे अन्वयः । तथा च पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्याभिन्नसप्तत्वसङ्ख्याविशिष्ट इत्यर्थः
सप्तम्याः घटितता अर्थः । पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्याभिन्नसप्तत्वसङ्ख्याविशिष्टस्य आधेयता सम्बन्धेन सप्तम्यर्थघटिततायां अन्वयः । तथा च पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्याभिन्नसप्तत्वसङ्ख्याविशिष्टनिष्ठा घटितता । । अन्यतम इत्यस्य घटकतावान् इत्यर्थः । पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्याभिन्नसप्तत्वसङ्ख्याविशिष्टनिष्ठघटिततायाः निरूपितत्वसम्बन्धेन घटकतावदेकदेशघटकतायां अन्वयः । तथा च पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्याभिन्नसप्तत्वसङ्ख्याविशिष्टनिष्ठघटिततानिरूपितघटकतावान् । तस्य भावः पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्याभिन्नसप्तत्वसङ्ख्याविशिष्टनिष्ठघटिततानिरूपितघटकतावत्वम् । तृतीयायाः व्यापकत्वं अर्थः । पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्याभिन्नसप्तत्वसङ्ख्याविशिष्टनिष्ठघटिततानिरूपितघटकतावत्वस्य तृतीयार्थ व्यापकत्वे आधेयतासम्बन्धेन अन्वयः । तथा च पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्याभिन्नसप्तत्वसङ्ख्याविशिष्टनिष्ठघटिततानिरूपितघटकतावत्वनिष्ठा व्यापकता । पदार्थत्वनिष्ठा व्याप्यता । पदार्थत्वनिष्ठा व्याप्यता च पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्याभिन्नसप्तत्वसङ्ख्याविशिष्टनिष्ठघटिततानिरूपितघटकतावत्वनिष्ठया व्यापकतया निरूपिता भवति । तथा च - पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्याभिन्नसप्तत्वसङ्ख्याविशिष्टनिष्ठघटिततानिरूपितघटकतावत्वनिष्ठव्यापकतानिरूपितपदार्थत्वनिष्ठव्याप्यता ।
इति इत्यस्य अभेदाश्रया इत्यर्थः ।
पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्याभिन्नसप्तत्वसङ्ख्याविशिष्टनिष्ठघटिततानिरूपितघटकतावत्वनिष्ठव्यापकतानिरूपितपदार्थत्वनिष्ठव्याप्यतायाः निरूपकत्वसम्बन्धेन अभेदाश्रयायां अन्वयः ।
तथा च - पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्याभिन्नसप्तत्वसङ्ख्याविशिष्टनिष्ठघटिततानिरूपितघटकतावत्वनिष्ठव्यापकतानिरूपितपदार्थत्वनिष्ठव्याप्यतानिरूपकाभेदाश्रया ।
व्याप्तिलाभाय इत्यत्र व्याप्तेः लाभः व्याप्तिलाभः इति विग्रहः । व्याप्तिशब्दस्य साहचर्यनियमः अर्थः । लाभशब्दस्य निश्चयः इत्यर्थः । षष्ठ्याः विषयता अर्थः । विषयतायां व्याप्तेः आधेयतासम्बन्धेन अन्वयः । तथा च व्याप्तिनिष्ठा विषयता । विषयतायाः निरूपकत्वसम्बन्धेन लाभपदार्थे निश्चये अन्वयः । तथा च व्याप्तिनिष्ठविषयतानिरूपकनिश्चयः इत्यर्थः ।
पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्याभिन्नसप्तत्वसङ्ख्याविशिष्टनिष्ठघटिततानिरूपितघटकतावत्वनिष्ठव्यापकतानिरूपितपदार्थत्वनिष्ठव्याप्यतानिरूपकाभेदाश्रयायाः व्याप्तिलाभाय इत्येकदेशे व्याप्तौ अभेदसम्बन्धेन अन्वयः ।
तथा च - पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्याभिन्नसप्तत्वसङ्ख्याविशिष्टनिष्ठघटिततानिरूपितघटकतावत्वनिष्ठव्यापकतानिरूपितपदार्थत्वनिष्ठव्याप्यतानिरूपकाभेदाश्रयाभिन्नव्याप्तिनिष्ठविषयतानिरूपकनिश्चयः इत्यर्थः ।
लाभशब्दात् चतुर्थ्याः प्रयोज्यता अर्थः । तस्यां लाभशब्दार्थभूतस्य निश्चयस्य आधेयता सम्बन्धेन अन्वयः । तथा च निश्चयनिष्ठा प्रयोज्यता ।
अत्र इत्यत्र इदं शब्दः त्रल् प्रत्ययः । इदं शब्दस्य पदार्थविभाजकवाक्यं इत्यर्थः । त्रल् प्रत्ययस्य घटकता अर्थः। पदार्थविभाजकवाक्यस्य त्रल्प्रत्ययार्थघटकतायां निरूपितत्वसम्बन्धेन अन्वयः । तथा च - पादर्थविभाजकवाक्यनिरूपिता घटकता ।
सप्तग्रहणं इत्यत्र सप्त इत्यस्य सप्त इत्यानुपूर्वीविशिष्टं पदं इत्यर्थः । ग्रहणं इत्यस्य निवेशनानुकूलव्यापारः इत्यर्थः। सप्त इति ग्रहणं सप्तग्रहणम् इति विग्रहः । इति इत्यस्य प्रकारता इत्यर्थः । सप्त इत्यस्य इतिशब्दार्थप्रकारतायां आधेयतासम्बन्धेन । तथा च सप्त इत्यानुपूर्वीविशिष्टनिष्ठप्रकारता । प्रकारतायाः निरूपकत्वसम्बन्धेन निवेशनानुकूलव्यापारे अन्वयः । तथा च सप्त इत्यानुपूर्वीविशिष्टनिष्ठप्रकारतानिरूपकनिवेशनानुकूलव्यापारः इत्यन्वयः ।
पदार्थविभाजकवाक्यनिरूपितघटकतायाः अधिकरणतासम्बन्धेन सप्त इत्यानुपूर्वीविशिष्टे अन्वयः । तथा च
पदार्थविभाजकवाक्यनिरूपितिघटकताश्रयसप्त इत्यानुपूर्वीविशिष्टः इत्यन्वयः ।
पदार्थविभाजकवाक्यनिरूपितघटकताश्रयसप्त इत्यानुपूर्वीविशिष्टस्य इतिशब्दार्थप्रकारतायां आधेयतासम्बन्धेन अन्वयः ।
तथा च पदार्थविभाजकवाक्यनिरूपितघटकताश्रयसप्त इत्यानुपूर्वीविशिष्टनिष्ष्ठा प्रकारता । प्रकारतायाः निरूपकत्वसम्बन्धेन
निवेशनानुकूलव्यापारे अन्वयः ।
तथा च पदार्थविभाजकवाक्यनिरूपितघटकताश्रय-सप्त इत्यानुपूर्वीविशिष्टनिष्ठप्रकारतानिरूपकनिवेशनानुकूलव्यापारः इत्यर्थः ।
तादृशपदार्थविभाजकवाक्यनिरूपितघटकताश्रय-सप्त इत्यानुपूर्वीविशिष्टनिष्ठप्रकारतानिरूपकनिवेशनानुकूलव्यापारनिष्ठा प्रयोजकता ।
निश्चयनिष्ठप्रयोज्यतायाः निरूपितत्वसम्बन्धेन तादृशपदार्थविभाजकवाक्यनिरूपितघटकताश्रय-सप्त इत्यानुपूर्वीविशिष्टनिष्ठप्रकारतानिरूपितनिवेशनानुकूलव्यापारनिष्ठप्रयोजकतायां अन्वयः ।
तथा च -
सम्मूर्णशाब्दबोधस्तु -
पदार्थसमुदायनिष्ठघटिततानिरूपितघटकतावदभिन्नद्रव्याभिन्नसप्तत्वसङ्ख्याविशिष्टनिष्ठघटिततानिरूपितघटकतावत्वनिष्ठव्यापकतानिरूपितपदार्थत्वनिष्ठव्याप्यतानिरूपकाभेदाश्रयव्याप्तिनिष्ठविषयतानिरूपकनिश्चयनिष्ठप्रयोज्यतानिरूपितपदार्थविभाजकवाक्यनिरूपितघटकताश्रय-सप्त इत्यानुपूर्वीविशिष्टनिष्ठप्रकारतानिरूपितप्रयोजकताश्रयः निवेशनानुकूलव्यापारः।
परिष्कारः -
-परिष्कर्ता :